कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ऐ

aiअ · indecl.

In 7 kośas: 2 synonym verses, 15 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.37 · p. 123
तैलंपाता स्वधार्थे स्यात्स्त्रियां नामायमिष्यते ।चैत्ययज्ञे नमोऽथ स्युर् ए ऐ ओ औ अ ई इ ऊ ।उ हे है भो पाडयेप्याडेते संबोधनार्थकाः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.105 · p. 258
हो हौ व्यस्तौ समस्तौ च ह्वानेऽपि, अररे अरै ।भोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ ॥ १०५ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास अकाराद्यन्ताः Dharaṇikośa 34.1.3 · p. 234
ऋ कथितोऽदितौ स्वर्गे तद्वल्लृद्वयमिष्यते ।एऐशब्दौ तु हेहैवदाह्वानामन्त्रणौ स्मृतौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 थि (wrong syllable)
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.79 · p. 128
लृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु ।संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥
अनुष्टुप्
meanings
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.8 · p. 2
लृर्देव्यां लॄस्तु वाराह्यां लताभेदेऽपि कीर्तितः ।एर्विष्णुशैलयोरैश्च श[2]म्भावोर्धातरि स्मृतः ॥ ८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश अव्ययवर्गप्रकाशः Śabdaratnāvalī 8.2 · p. 299
लृरदित्यां ॡ दितौ च एर्विष्णौ ऐर्महेश्वरे ।ओ ब्रह्मण्यौरनन्ते च अं विधौ अः पितामहे ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.11 · p. 300
ऐ स्यात्सम्बोधनाह्वानस्मरणेष्वपि शोचने ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.8 · p. 1
-----------------------------------ऐ-कारो भौतिकश्चैव दामोदरोऽधराह्वयः ।अष्टस्वरोऽपि विज्ञेयो हिमपर्वतकन्यके! ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
ऐ-र्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः ।दक्षा दामोदरः प्रज्ञाऽधरो विकृतमुख्यपि ॥ ३८ ॥
अनुष्टुप्
क्षमात्मको जगद्योनिः परः परनिबोधकृत् ।ज्ञानामृता कपर्दी श्रीः पीठेशोऽग्निः समातृकः ॥ ३९ ॥
अनुष्टुप्
त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः ।महेश्वरो द्वादशी च विमलश्च सरस्वती ॥ ४० ॥
अनुष्टुप्
कामकोटो(टी) वामजानुरंशुमान् विजया जटा ॥ ४१ ॥
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.4 · p. 23
ए-कारः कथितो विष्णुरै-कारश्च महेश्वरः ।ओ-कारस्तु भवेद्ब्रह्मा औ-कारो रुद्र उच्यते ॥ ४ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.35 · p. 63
क्रोधं कालात्मकं कुर्याद् भौतिकं वाग्भवं स्मृतम् ।नादबिन्दु-समायुक्तं समादायोग्रभैरवीम् ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात वरदातन्त्रोक्तमन्त्रार्थाभिधान Tantrābhidhāna 11.12 · p. 66
सरस्वत्यथ ऐ-शब्दो बिन्दुर्दुःखहरार्थकः ।सरस्वत्या बीजमेतत्तेन वाणीं प्रपूजयेत् ॥ऐं॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.2 · p. 284
आ प्रगृह्यः स्मृतौ वाक्य आस्तु सन्तापकोपयोः ।ऐ दुःखभावने कोपे प्रत्यक्षे सन्निधावपि ॥ २ ॥
अनुष्टुप्