इ
iपुं · masc.In 7 kośas: 3 synonym verses, 9 as a nānārtha head word.
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
तैलंपाता स्वधार्थे स्यात्स्त्रियां नामायमिष्यते ।चैत्ययज्ञे नमोऽथ स्युर् ए ऐ ओ औ अ ई इ ऊ ।उ हे है भो पाडयेप्याडेते संबोधनार्थकाः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
इः केतुर्मकराङ्कः सङ्कल्पभवोऽङ्गजश्च रूपास्त्रः ।रणरणको रतिरमणः संसारगुरुर्मनोजन्मा ॥ ३८ ॥
आर्या
genderपुंmasc.
आस्ताप-कोपयोरां[243a]तु स्मृति निश्चयार्थकम् ।इ संबुद्धावमर्षोक्तौ विषादे च प्रकीर्तितम् ॥ ७७ ॥
अनुष्टुप्metre not read in every line
अः स्यात्कृष्णे आ विधौ स्याद् इः कामे ईः श्रियामपि ।उः शिवे ऊ विधौ ऋः स्याद्देवमातरि ऋर्दिवि ॥
अनुष्टुप्
meaningsकाम
इः स्यान्निष्ठुरवाग्भेदानुकम्पापाकृतिष्वपि ॥
अनुष्टुप्metre not read in every line
एकाक्षरा इहोच्यन्ते पूर्वं नोक्ता यथाक्रमम् ।अस्तु विष्णौ वर्णमात्रे स्यादिः काम उरीश्वरे ॥ २२४० ॥
अनुष्टुप्
meaningsकाम
इ-कार उच्यते कामो लक्ष्मी-री-कार उच्यते ।उ-कारः शङ्करः प्रोक्त ऊ-कारश्चापि रक्षणे ॥ २ ॥
अनुष्टुप्
meaningsकाम
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
meaningsगर्जिनी