कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मणिबन्ध

maṇibandhaपुं · masc.

In 11 kośas: 9 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.591 · p. 26
प्रगण्डः कूर्परांसान्तः पञ्चशाखः शयः शमः ।हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.533 · p. 61
मणिबन्धः पाणिमूलं कफणिः कूर्परः स्मृतः ।तयोर्मध्यं प्रकोष्ठः स्यात्प्रकाण्डः कूर्परांसयोः ॥ ५३३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.171 · p. 39
कूर्परं तदधः पुंसि प्रगण्डस्तदधः पुमान् ।मणिबन्धो मणिश्चास्त्री तदधस्तु प्रकोष्ठकः ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.80 · p. 127
करः कुलिः पालन-पञ्चशाख-भुजादलाः पाणि-शयौ शमश्च ।हस्तोऽस्त्रियामस्य पुनर्मणिः स्या-दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥
उपजातिः
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.254 · p. 132
करः पाणिः शयो हस्तपञ्चशाखावपीरितौ ।मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.952 · p. 145
करस्यादौ मणिबन्धो मणिश्च कथ्यते पुनः ।हस्तस्य मणिबन्धादाकनिष्ठं करभो भवेत् ॥ ९५२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.290 · p. 101
मणिबन्धः करग्रन्थिः करग्रन्थिक इत्यपि ।करभस्तु कणिष्ठान्तं मणिबन्धात् करे वहिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.169 · p. 202
प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका ।हस्ते करः करिर्हस्तमूले तु मणिबन्धवत् ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.73 · p. 179
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.95 · p. 14
अथो मरुवको वृक्षभेदे मदनसंज्ञके ।फणिर्जकाख्यस्तम्बे च मणिबन्धध्वनिः पुनः ॥ ९५ ॥
अनुष्टुप्

मणिबन्ध as a meaning in nānārtha verses