कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नेत्र

netraक्ली · neut.

In 21 kośas: 29 synonym verses, 12 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.575 · p. 25
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.44 · p. 2
नेत्रं विलोचनमपि सृक्वणीसृक्विणी अपि ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.93
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.519 · p. 59
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
आर्या
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.20 · p. 2
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.146 · p. 36
ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः ।अस्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.111 · p. 145
क्षुब्धस्तदर्गले तु स्यात्कुठरोप्यथ मर्कटी ।स्त्रियां प्रत्यर्गले नेत्रं क्लीबे व्यावर्तनं च तत् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.239 · p. 159
मन्थदण्डोऽथ तद्रज्जौ नेत्रं क्लीबे ततः पुनः ।स्त्रियां भिः सान्नमन्धः षण् जीवनं स्यात्प्रसाधनम् ॥ २३९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.495 · p. 187
त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः ।भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.23 · p. 251
पादपर्यायिमूलं स्यान्नेत्रं च चरणोऽस्त्रियाम् ।अग्रं क्लीबे शिरः पुंसि मज्जा सारश्च पुंस्युभौ ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.106 · p. 329
कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् ।शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.176 · p. 480
संसारतीरनीहारसूत्राणां तुवरस्य च ।सहस्रवक्त्रनेत्राणां पत्रशृङ्गारयोस्तथा ॥ १७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.25 · p. 1205
चित्तं नेत्रं रसना श्रोत्रं त्वग्गन्धज्ञाधीन्द्रियं चैतत् ।पाणिः पादः पायुरुपस्थो वागिति कर्मेन्द्रियगण उक्तः ॥ २५ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 219
शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा ।दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.86 · p. 226
आच्छादनं च वसनं चेलं सिक् नेत्रमस्त्रियाम् ।प्रोत-प्राच्छाद-सिचया वस्त्रं शाटकमम्बरम् ॥ ८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 278
नेत्रं मथिगुणो न स्त्री मन्थनं तु विलोडनम् ।वैशाखः खजको मन्थो मन्थास्तक्राट इत्यपि ।माथः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटकोऽपि सः ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.62 · p. 114
वज्राङ्गारविहारचीरसमरा ? केदारमाडम्बरंवप्रोशीरकुलीरदार्दु[233b]र-रिवत्कुस्तुंबरुर्गह्वरः ।नेत्रोपह्वरशेखरातिखरवत्स्याच्छिग्रुरार्द्रं शुनी-रः स्याद्वासर-तूबरौ सतुबरौ तद्वत्सहस्रं भवेत् ॥ ६२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंक्लीm. n.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 99 · p. 49
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.240 · p. 130
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.152 · p. 230
समयकविये पारि[10]हार्यः कम्बलवाह्यकः ।संसारसीरशृङ्गारनेत्रवक्त्राणि गह्वरम् ॥ १५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.82 · p. 6
दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी ।अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.30 · p. 22
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.922 · p. 140
नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् ।ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.331 · p. 23
मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके ।बुद्धीन्द्रियमिति प्राहुः शब्दकोषविचक्षणाः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.316 · p. 103
नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् ।आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.15 · p. 189
वश-वान्तौ गृह्यकश्च गृह्याऽऽगृह्यकसंयुतः ।नायके नेत्र-नेतारावीडीश ईश्वरस्तथा ॥ १५ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.444 · p. 59
बुध्नाङ्घ्री मूलनेत्रे च शिखराग्रे शिखा स्त्रियाम् ।त्वक्त्वचाच(छ?)ल्लयश्चोलो वल्कं वल्कलमस्त्रियाम् ॥ ४४४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1084 · p. 134
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.180
स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ॥ १८० ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.809 · p. 93
ह्यस्तनदिनेऽपि कल्यं नेत्रं मूले रजस्यपि परागः ।भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥
आर्या
meaningsमूल
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.13 · p. 180
नेत्रं वस्त्रप्रभेदः स्यात्तरुमूले च लोचने ।नेत्रं मथिगुणे नद्यां नेत्रं नयननाडिका ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.34 · p. 307
नेत्रं तु न स्त्री नयने च वस्त्र-भेदे द्रुमूले रथवस्तिनाड्योः ।मथो गुणेऽन्यत्र तु नेतृवाचीक्षेत्रं तु केदारशरीरयोः स्यात् ॥ ३४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.698 · p. 102
नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे ।क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.264 · p. 195
नाभिः क्षत्रियचक्राङ्गदेहाङ्गेष्वपि कथ्यते ।नदो वाहे ह्रदे वार्धिरावयोर्नेत्रमंशुके ॥ २६४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.265 · p. 195
वृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे ।हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्द्यु (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.21 · p. 266
नीव्रं वने वलीकेन्दुरेवतीऋक्षनेमिषु ।नेत्रं स्यान्नेत्रभिन्मन्थागुणयोर्द्रुममूलके ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.22 · p. 266
विमाने चक्षुषि क्लीबं लक्ष्मीनाड्योरपि स्त्रियाम् ।परो विदूरश्रेष्ठान्योत्तरे क्लीबन्तु केवले ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1721 · p. 207
विरिब्धस्तु स्वरे क्षुब्धो मन्थे नेत्रं मथो गुणे ।अवदानं कर्म वृत्तं निर्भर्त्सनमलक्तम् ॥ १७२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
meaningsगुण
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.359 · p. 217
धीरञ्च कुङ्कुममथो धरा पृथ्वी धरो गिरिः ।नेत्रो नेतरि नेत्रञ्च गुणे मूले विलोचने ॥ ३५९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.17 · p. 225
नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे ।नाट्यं तौर्यत्रिके नृत्ते नालं विवरशेपसोः ॥ १७ ॥
अनुष्टुप्

नेत्र as a meaning in nānārtha verses