व्योमन्
vyomanक्ली · neut.In 21 kośas: 27 synonym verses, 2 as a nānārtha head word, 58 as a meaning of another word.
व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे ।अभ्रं सुराभ्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः ॥ १६३ ॥
upajati 12
genderक्लीneut.
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
नभो मरुद्वर्त्म वियद्विहाय-स्तारापथः पुष्करमन्तरिक्षम् ।व्योमाम्बरं विष्णुपदं च खं द्यौ-र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
उपजातिः
genderक्लीneut.
आकाशश्च नभो व्योम गगनं सुरवर्त्म खम् ।महाबिलं शब्दगुणं तारकापथमित्यपि ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकोणं च तथाकाशं व्यापारं दशमं विपत् ।कर्माम्बराख्यं व्योमं च गगनं पुष्करं नभः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
अन्तरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
निर्वाणमपि कैवल्यमक्षरं च महासुखम् ।अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥ १५५ ॥
अनुष्टुप्
genderक्लीneut.
व्योमाम्बरं पुष्करमन्तरिक्ष-मत्रान्तरिक्षे सरकोऽस्त्रियां खम् ।अनन्तमाष्ट्रं गगनं वियच्चनभो नभाकं नभसो नभश्च ॥ १ ॥
उपजातिः
genderक्लीneut.
अभ्रं स्यादभ्रकं व्योमाभिधं विमलमद्रिजम् ।गिरिजामलमच्छं तदमलं गिरिजं समे ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
आकाशोऽस्त्री नभो व्योमान्तरीक्षं खं मरुत्पथः ।पुष्कराभ्रे तथा विष्णुपदं मेघाश्रयोऽपि च ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् ।इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥
अनुष्टुप्
genderक्लीneut.
आकाशमभ्रं गगनं व्योम विष्णुपदं नभः ।अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
वियद्विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः ।व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् ।विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥
अनुष्टुप्
genderक्लीneut.
विष्णुपदं वियदम्बरमभ्रमनन्तं नभोऽन्तरिक्षं खम् ।व्योमसुरवर्त्मपुष्करगगनानि द्योदिवौ स्त्रियावस्त्री ॥ १५९ ॥
गीतिः
genderपुंक्लीm. n.
गन्धाश्मा गन्धकः पीतः पामशत्रुः सुगन्धिकः ।अभ्रकं व्योममेघाख्यं गिरिजामलमित्यपि ॥ ४२८ ॥
अनुष्टुप्
genderक्लीneut.
जले व्योम च पद्मे तु शुण्डा च परिकीर्तिता ।समुद्रे नद इत्युक्तो नीलवर्णे शितिः स्मृतः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
प्राणस्तेजः स्थिरा वार्द्युर्वायुश्चापि प्रभा च ज्या ।कमभ्रं नाद-दावौ च कुः पाथो व्योम तो रयः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च (wrong syllable)
genderक्लीneut.
विभुः खं स्वर्द्युरभ्रं च व्योम शून्यं नभो वियत् ।हंसश्चाकाशवर्णानां संज्ञा माया विसर्गतः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
विभुः-ऌ, स्वः-ॡ, खं-अं, द्युः-ङ, अभ्रं-ञ, व्योम-ण, शून्यं-न, नभः-म, वियत्-श, हंसः-ह
metre not recognised
genderक्लीneut.
अंतरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
बोलो गोलः शशः पिण्डः प्राणो गन्धरसो रसः ।अभ्रकं व्योममेघाख्यं चक्रसंज्ञं नु माक्षिकम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
परमात्मा परो ब्रह्म जीवः क्षेत्रज्ञ आविशः ।शक्तिस्तु माया प्रकृतिर्व्योमाख्यं मूलकारणम् ॥ १६१ ॥
अनुष्टुप्
genderक्लीneut.
व्योम चांतश्च सर्वश्च समुद्राद्यास्तु वा त्रिषु ।अन्ये त्वाहुः शतं कोटिः शंकुर्बृन्दं महागणः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
व्योमन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अम्बरअजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि । Amarakośa 3.3.343
- नामलिङ्गानुशासनम् पुष्करपुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ॥ १८६ ॥ व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः । Amarakośa 3.3.351
- हलायुधकोशः (अभिधानरत्नमाला) पुष्करद्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे । अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥ Abhidhānaratnamālā (Halāyudha) 5.858
- धरणिकोश खखं व्योमेन्द्रियलोकेषु पुरक्षेत्रेषु बिन्दुषु । नखं नखी च सुगन्धिद्रव्ये स्यान्नखरे नखः ॥ Dharaṇikośa 2.2.1
- धरणिकोश अभ्रआर्द्रा ऋक्षे क्लिन्नमार्द्रमस्त्रमायुधलोहयोः । अभ्रं व्योम…शुभ्रं शुक्रप्रदीप्तयोः ॥ Dharaṇikośa 26.1.8
- धरणिकोश अम्बरतूवरौ नृमृगौ कालेऽजातश्मश्रुशृङ्गकौ । अम्बरं वाससि व्योम्नि कर्पासेऽथ सुगन्धिके ॥ Dharaṇikośa 26.2.37
- धरणिकोश विहायस्कनीयाननुजे प्रोक्तो यूनि चाल्पे च कीर्तितः । विहायसं विदुर्व्योम पक्षिणश्च विहायसः ॥ Dharaṇikośa 31.2.18
- कोषकल्पतरु नाकनाकोऽस्त्रियां व्योमदिवोः शिशौ तु निष्ठा जरा क्लेदनम[त्र] पाकः । शक्तौ नरि द्वीपभिदीह राज- भेदे द्रुभेदे[च]वदन्ति शाकम् ॥ १३ ॥ Koṣakalpataru 6.1.13
- कोषकल्पतरु पुष्कर[55b]तीवरो नाम्बुधौ व्याधवाची तथा जातिभेदेऽप्यथो धींवरो दासके । पण्डिते पण्डितैर्वाच्यवत्कीर्तितः पुष्करं त्वम्बुनि व्योम्नि तूर्यानने ॥ ३१ ॥ Koṣakalpataru 6.27.31
- नानार्थार्णवसंक्षेप भूभूर्भूम्यां स्थानमात्रे च सौराष्ट्र्यां व्योमदेहयोः । मा पार्वत्यां च लक्ष्म्यां च निर्लिङ्गोऽसौ निवारणे ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 1.1.57
- नानार्थार्णवसंक्षेप अभ्वाअप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.1.5
- नानार्थार्णवसंक्षेप उत्सउत्सो व्योम्न्यम्बुधौ कूपे जलाधारान्तरेऽपि च । ऊष्मा त्वौष्ण्यगुणे ग्रीष्मे बाष्पे शषसहेषु च ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 2.2.16
- नानार्थार्णवसंक्षेप अभ्ररूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे । अथाभ्रशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.3.2
- नानार्थार्णवसंक्षेप धामन्गेहदेहप्रभावान्नभोजनव्योमजन्मसु । स्थानेऽधिकरणे सारे धने लक्ष्मणि चाप्यथ ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.3.35
- नानार्थार्णवसंक्षेप ऊमलवणे स्यादूषरजे ना क्षारमृदि नप् पुनः । ऊमं व्योम्नि पुरे चान्ये पुंसि प्राणिनि तु त्रिषु ॥ १०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.109
- नानार्थार्णवसंक्षेप कूटअयः शलाकासंज्ञाके सीराङ्गे फालसंज्ञके । अयोघनेऽनृते दम्भे व्योम्नि निश्चलयन्त्रयोः ॥ २५३ ॥ Nānārthārṇavasaṃkṣepa 2.5.253
- नानार्थार्णवसंक्षेप दिव्यदिव्यं क्ली व्योम्नि लशुने गाने तन्त्रीसमुद्भवे । प्रत्यये च त्रि तु दिवि भवे दिष्टस्त्वनेहसि ॥ ५९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.597
- नानार्थार्णवसंक्षेप धन्वन्ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.637
- नानार्थार्णवसंक्षेप पुण्यव्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि । गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.785
- नानार्थार्णवसंक्षेप बर्हिस्षष्ठे शरीरधातूनां बलयुक्ते(पु?तु) स त्रिषु । बर्हिस्तु क्ली कुशे यज्ञे जल व्योम्नि महत्यपि ॥ ८४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.848
- नानार्थार्णवसंक्षेप रोदस्त्रिषु रोदः पुनः शण्डे स्त्रियां च व्योम्न्यथापरे । पृथिव्यां च यदा तु स्त्री तदा भवति रोदसी ॥ ११२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1125
- नानार्थार्णवसंक्षेप वेसरूपे च कश्चित् क्लीबं तु व्योम्नि कश्चित्तु वारिणि । वेणस्तु द्वे मनुष्याणां जातिभेदे प्रकीर्तितः ॥ १२८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1289
- नानार्थार्णवसंक्षेप श्यामस्त्रीव्यञ्जनकृतायां च कन्यायां विहगान्तरे । पोतकीसंज्ञकेऽथ क्ली मरीचे व्योम्नि च त्रि तु ॥ १३३८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1338
- नानार्थार्णवसंक्षेप शिवचाणक्यमूलकाभिख्ये व्योम्नि त्रि तु शुभान्विते । शिला त्वश्मनि पेषण्यां द्वाराधःस्थितदारुणि ॥ १३६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1362
- नानार्थार्णवसंक्षेप सभासभा सभ्येषु सङ्घाते द्यूते सदसि मन्दिरे । स्त्री त्रिस्तु तत्र यद्वस्तु व्योमाद्यं भेन संयुतम् ॥ १४४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1443
- नानार्थार्णवसंक्षेप सारस्थिराङ्गे रेतसि व्योम्नि सरणे च नरि त्रि तु । सुन्दरोत्कृष्टयोर्दत्तस्तूत्कृष्टे नरमभ्यधात् ॥ १४८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1485
- नानार्थार्णवसंक्षेप नभस्नरेन्द्रस्तु नृपे मन्त्रवादिन्याह तु यादवः । विषवैद्येऽथ नभस ऋतौ व्योम्नि सरित्पतौ ॥ १०० ॥ Nānārthārṇavasaṃkṣepa 3.2.100
- नानार्थार्णवसंक्षेप अम्बरएषां प्रयोगभेदे च गतिमात्रे च दृश्यते । अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यकान्तरे ॥ २ ॥ Nānārthārṇavasaṃkṣepa 3.3.2
- नानार्थार्णवसंक्षेप पतत्त्रपतत्त्रं गरुति व्योम्नि पत्राङ्गं रक्तचन्दने । भूर्जे च पतनं तु स्यात् पा(त्रे?ते) तरुपलाशके ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 3.3.50
- नानार्थार्णवसंक्षेप अमृतअमृतं व्योम्नि देवान्ने यज्ञशेषे रसायने । अयाचिते जले जग्धौ मोक्षेऽन्ने हेम्नि गोरस ॥ १ ॥ Nānārthārṇavasaṃkṣepa 4.1
- नानार्थार्णवसंक्षेप अनन्तअनन्तः पुंसि विष्णौ स्यान्नागराजे हलायुधे । क्लीबं तु व्योम्न्यनन्ता तु पौर्णमास्यां मरुद्दिशि ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 4.8
- नानार्थार्णवसंक्षेप अनङ्गत्रिस्त्वनङ्गोऽङ्गरहिते क्ली तु व्योम्नि स्मरे तु ना । अङ्गनाशब्द आख्यातः कल्याणाङ्ग्यां स्त्रिया स्त्रियाम् ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 4.59
- नानार्थार्णवसंक्षेप त्रैष्टुभत्रैष्टुभं तु नपि व्योम्नि त्रिष्टुप्छन्दसि च त्रिषु । त्रिष्टुप्सम्बन्धिनि स्यात् तु प्रगाथे त्रिष्टुबादिके ॥ ८९२ ॥ Nānārthārṇavasaṃkṣepa 4.892
- नानार्थार्णवसंक्षेप सगरसगरस्तु पुमान् पूर्वराजभेदे नपि त्वदः । व्योम्नि त्रिर्गरलेन स्यात् सहितेऽथ नृलिङ्गकः ॥ १८७४ ॥ Nānārthārṇavasaṃkṣepa 4.1874
- परमानन्दीयनाममाला जूजूर्व्योमवाचि जवनपिशाच्योः कीटकेऽपि च । झो मञ्जुलसमीरे स्यान्नष्टेऽपि परिकीर्तितः ॥ १८ ॥ Paramānandīyanāmamālā 1.18
- परमानन्दीयनाममाला अनन्त[13] अनन्तं प्रचुरे व्योम्नि जलेऽनन्ता मही स्मृता । दूर्वामृतप्यथाङ्कूरमङ्कूरं च नवोद्गते ॥ २२ ॥ Paramānandīyanāmamālā 5.1.22
- परमानन्दीयनाममाला नाकस्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः । नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥ Paramānandīyanāmamālā 5.18.262
- शब्दरत्नावली निर्मोकनायको हारमध्यस्थमणौ श्रेष्ठे च नेतरि । निर्मोको व्यम्नि सन्नाहमोचने सर्पकञ्चुके ॥ Śabdaratnāvalī 7.1.95
- शब्दरत्नावली अम्बरबहिर्विनार्थे चात्मीये क्लीबं स्यादन्तराव्ययम् । अम्बरं चांशुके क्लीबं व्योम्नि सौगन्धिकवस्तुनि ॥ Śabdaratnāvalī 7.27.53
- शब्दरत्नावली पुष्करपुष्करं हस्तिहस्ताग्रे वाद्यभाण्डे मुखे जले । व्योम्नि खङ्गफले काण्डे पद्मे तीर्थोषधीभिदोः ॥ Śabdaratnāvalī 7.27.89
- शब्दरत्नाकर अभ्रअर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः । कोदण्डायुधयोरस्त्रमभ्रं व्योम्नि पयोमुचि ॥ १८७० ॥ Śabdaratnākara 4.1.1870
- शब्दरत्नाकर नभस्योगाङ्गेऽथ वृषे शुभ्रे धवलो धवली गवि । धनदो दातरि श्रीदे नभसो व्योम्नि सागरे ॥ २१०८ ॥ Śabdaratnākara 4.1.2108
- शब्दरत्नाकर पुष्करपुष्करं हस्तिहस्ताग्रे व्योम्नि वाद्यमुखे जले । तीर्थभेदेऽसिधारायां पर्यायोऽवसरे क्रमे ॥ २१२७ ॥ Śabdaratnākara 4.1.2127
- शब्दरत्नाकर विहायस्पुंनपुंसकयोर्व्योम्नि विहायः पुंसि पक्षिणि । नक्षत्रे च खनित्र्यां च विशाखा षण्मुखे पुमान् ॥ २१७० ॥ Śabdaratnākara 4.1.2170
- शब्दरत्नाकर खकः समीरार्कवेधःसु खमुडौ व्योम्नि चेन्द्रिये । गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥ Śabdaratnākara 4.1.2241
- तन्त्राभिधान औअनन्ता ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः । नेत्रमात्माकर्षिणी च ज्वाला मालिनिका भृगुः ॥ ४८ ॥ Tantrābhidhāna 2.15.48
- तन्त्राभिधान णद्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधि(ध)नी मता । त्रिनेत्रो मानुषी व्योम दक्षपादाङ्गुलेर्न(र्मु)खम् । राघवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥ १०१ ॥ Tantrābhidhāna 2.32.101
- त्रिकाण्डशेष अभ्रअलातेऽस्त्री कुजेऽङ्गारः श्रेष्ठा वाच्यावनुत्तरौ । नक्रे चौरे चावहारः स्यादभ्रं व्योममेघयोः ॥ ३२९ ॥ Trikāṇḍaśeṣa 3.3.329
- वैजयन्ती ऊमइंद्रो विषात्मशक्रार्केष्वीश्वरे नामतः परः । इष्वोऽभिलाष आचार्य ऊमो व्योम्नि पुरेऽपि च ॥ ८ ॥ Vaijayantī 6.1.8
- वैजयन्ती सोमसिक्थो ना भक्तपूलाके मधूच्छिष्टे क्वचिन्नपुम् । सुतः पुत्रे सोमरसे सोमौ व्योमनिशाकरौ ॥ ६६ ॥ Vaijayantī 6.1.66
- वैजयन्ती अभ्रअभ्रं सलिलदे व्योमन्यस्त्रं कोदण्ड आयुधे । अग्रं पुरश्शिखामानशैष्ट्याधिक्यफलेषु च ॥ १ ॥ Vaijayantī 6.3.1
- वैजयन्ती ध्रुवध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः । क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥ Vaijayantī 6.5.44
- वैजयन्ती त्रिदिवतपनो भास्करे ग्रीष्मे त्रिदिवो व्योम्नि दिव्यपि । त्रिशंकू तार्क्ष्यमार्जारौ त्रिधामा केशवेऽनले ॥ २९ ॥ Vaijayantī 7.1.29
- वैजयन्ती नभस्धाराटश्चातकेऽश्वे च नभसौ व्योमसागरौ । निवेशौ शिबिरोद्वाहौ निरोधौ रोधसंक्षयौ ॥ ३३ ॥ Vaijayantī 7.1.33
- वैजयन्ती अमृतअमृतं व्योम्नि देवान्ने यज्ञशेषे रसायने । अयाचिते जले जग्धौ मोक्षेऽन्ने हेम्नि गोरसे ॥ ७ ॥ Vaijayantī 7.5.7
- वैजयन्ती विहायस्वातूलो वातसंघाते वातले मरुतोऽसहे । विहायाः पुंनपुं व्योम्नि पुमानेव पतत्रिणि ॥ ८० ॥ Vaijayantī 7.5.80
- वैजयन्ती द्योधूः स्याद्यानमुखे भारे नौस्तु काले तरावपि । ज्या पृथिव्यां च मौर्व्यां च स्वर्व्योम्नोर्द्योदिवावुभे ॥ १७ ॥ Vaijayantī 8.2.17
- वैजयन्ती खखमिन्द्रिये दिवि व्योम्नि रन्ध्रनक्षत्रयोरपि । Vaijayantī 8.3.21