कन्यका
kanyakāस्त्री · fem.In 10 kośas: 9 synonym verses, 4 as a meaning of another word.
कन्या कुमारी कन्याका कन्यिका बालिका च सा ।स्याद्गौरी चाप्यथ पुनर्नग्निकाऽनागतार्त्तवा ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
कुमार्यां कर्णिका चारुकेसरा भृङ्गसम्मता ।तरणी रामतरणी गन्धाढ्या कन्यका सहा ॥ २४४ ॥
अनुष्टुप्
genderस्त्रीfem.
कुट्टिनी मेलिकी योषिद्योगिनी स्त्रीप्रतारिणी ।दूती संचारिका कन्या कन्यका बालिकाऽमदा ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कुमारी कन्यका कन्या बालिका दिक्करी कनी ।तोकापत्ये प्रसूतिस्तुक् संतानं संततिः प्रजाः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
कुलस्त्री कुलपाली स्यात् सप्तकास्तु कूलस्त्रियाम् ।कन्यका कन्यिका कन्या कन्यका च कुमारिका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
genderस्त्रीfem.
अष्टवर्षा भवेद्गौरी दशवर्षा च कन्यका ।द्वादशाब्दा कुमारी स्यादिति केचित् प्रचक्षते ॥
अनुष्टुप्
genderस्त्रीfem.
स्यान्मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी ।स्त्र्यलङ्कारे कुट्टुमितं द्व्युकारं कन्यका कनी ॥ ११५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री वधूर्योषिता रामा मण्डयन्ती वधूजनः ।कन्यकाऽलकनन्दा सा दूषिता धर्मकारिणी ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
सुन्दरी रमणी रामा वेणिनी चान्वितार्थकाः ।कुमारी कन्यका कन्या किंचित्प्रौढा महोदया ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
कन्यका as a meaning in nānārtha verses
- कोषकल्पतरु पुत्रिकामातृकाकरणे धात्रीमात्रोश्च परमात्मनि । यावतूलिकपाञ्चालीकन्यकास्वपि पुत्रिका ॥ २२ ॥ Koṣakalpataru 6.1.22
- कोषकल्पतरु झालाभुक्तौ प्रभूणामथ कन्यकायां झाला तथोर्मौ च झुलुक्विकायाम् ( ? ) । अव्यक्तशब्दे मधुरे क[68a]लः स्या- ज्जीर्णे मनोज्ञे च विशेष्यलिङ्गः ॥ ८३ ॥ Koṣakalpataru 6.28.83
- नानार्थार्णवसंक्षेप निसृष्टाकुले नाशे सामभक्तौ पञ्चम्यामथ भेद्यवत् । न्यस्ते निसृष्टः स्त्री तु स्यान्निसृष्टा कन्यकान्तरे ॥ १०२० ॥ Nānārthārṇavasaṃkṣepa 4.1020
- नानार्थार्णवसंक्षेप पतिघ्नीरभसस्तु नरि प्राह निर्यासे सिल्हकाह्वये । त्रि तु स्याद्विदुषि स्त्री तु पतिघ्नी कन्यकान्तरे ॥ १०८४ ॥ Nānārthārṇavasaṃkṣepa 4.1084