कन्या
kanyāस्त्री · fem.In 20 kośas: 30 synonym verses, 8 as a nānārtha head word, 21 as a meaning of another word.
कन्या कनी कुमारी च गौरी तु नग्निकारजाः ॥ ५१० ॥
metre not recognised
genderस्त्रीfem.
कन्या कुमारी गौरी तु नग्निकानागतार्तवा ।
अनुष्टुप्
genderस्त्रीfem.
कुमारी कथिता कन्या किञ्चित्प्रौढा सुवासिनी ।वर्या पतिंवरा प्रोक्ता नग्ना प्रोक्ता च कौटवी ॥ ४८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कन्या कुमारी तरुणी प्रलोही चाविलातकः ।सैरेयकस्तु झिण्डी स्यात्तस्मिन् कुरवरोऽरुणे ॥ २४५ ॥
अनुष्टुप्
genderस्त्रीfem.
मृगारिमृगराट् सिंहो मृगेन्द्रः केसरी हरी ।नारी स्त्री युवती योषित्कन्या च प्रमदाङ्गना ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कुंभालिवृषसिंहाश्च कीर्त्तिता स्थिरराशयः ।चापयुग्मझषा प्रोक्ता कन्या च द्विस्वभावका ॥ १०७ ॥
अनुष्टुप्
genderस्त्रीfem.
तुलालिकर्कमीनेषु मृगकन्याक्रियेषु च ॥ १२१ ॥
genderस्त्रीfem.
genderस्त्रीfem.
कन्यायां तिथयो भागाः स्वोच्चं पञ्च ततः परम् ।त्रिकोणसंज्ञा सौम्यस्य ततः स्वगृहमुच्यते ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
अनुष्टुप्
genderस्त्रीfem.
कन्या कुमारी कन्याका कन्यिका बालिका च सा ।स्याद्गौरी चाप्यथ पुनर्नग्निकाऽनागतार्त्तवा ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
तिला नागस्तथा दासी रथः पृथ्वी गृहा अपि ।कन्या धेनुश्च कपिला दानान्येतानि वै दश ॥ १०५ ॥
अनुष्टुप्
genderस्त्रीfem.
कन्दजा काञ्चनक्षीरी कन्या नाम महौषधिः ।करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ॥ ५९६ ॥
अनुष्टुप्
genderस्त्रीfem.
ग्रहावर्त्तद्वादशोंशो राशिः पुंस्यथ ते क्रमात् ।मेषो वृषश्च मिथुनं क्लीबे कन्यातुले स्त्रियौ ॥ २२५ ॥
अनुष्टुप्
genderस्त्रीfem.
मेषः क्रियोऽथ वृषभस्तावुरिनामाथ जितुमकं मिथुनम् ।कर्क-कुलीरौ लेयः सिंहः कन्या तु पार्थो[थो]नः ॥ १०७ ॥
आर्या
genderस्त्रीfem.
खरुः पतिंवरा वर्या कनी कन्या कुमारिका ।तामपूर्वपतिं पाणौ गृह्णन्कौमार उच्यते ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
कनी कन्या कुमारी च नग्निका अरजाः स्मृता ।दृष्टेन रजसा कन्या मध्यमा परिकीर्तिता ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
कालिका कालका काली चाम्बिकाम्बा त्रिलोचनी ।रोहिणी धिषणा कन्या कल्याणी सर्वमङ्गला ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुट्टिनी मेलिकी योषिद्योगिनी स्त्रीप्रतारिणी ।दूती संचारिका कन्या कन्यका बालिकाऽमदा ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कुमारी कन्यका कन्या बालिका दिक्करी कनी ।तोकापत्ये प्रसूतिस्तुक् संतानं संततिः प्रजाः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
राशीनामुदयो लग्नं स च मेषो वृषस्तथा ।मिथुनः कर्कटः सिंहः कन्या तुला च वृश्चिकः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderस्त्रीfem.
कनी कन्या कुमारी स्यात् गौरी तु नग्निकाऽरजा ॥ ७९९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मेषो वृषश्च मिथुनं कर्कटः सिंह एव च ।कन्या तुला वृश्चिकश्च धनुर्मकर इत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
कुलस्त्री कुलपाली स्यात् सप्तकास्तु कूलस्त्रियाम् ।कन्यका कन्यिका कन्या कन्यका च कुमारिका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
genderस्त्रीfem.
चूर्णिसातिकन्यानाडीभङ्गा च सिध्मला… ।लिक्षा हसन्तीकुनटी गोलिमी लोचना… ॥
metre not recognised
genderस्त्रीfem.
वर्या पतिंवरा कन्या कुमारी नागतार्तवा ।सा तु दृष्टरजा राका चिरण्टी स्यात् सुवासिनी ॥ १०३८ ॥
अनुष्टुप्
genderस्त्रीfem.
वासागारं भोगगृहं कन्यापत्न्याटनिष्कुटाः ।देवीगृहं तु वलभी लयनं सौगतालयः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
भावज्ञा सर्षपी स्त्र्याख्या वृत्ताङ्गी सुयमावनी ।कन्या चापि कदम्बस्तु निचुलोऽम्बुज इज्जलः ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
अतिमुक्तश्च कन्यायां कुमारी तरुणी सहा ।महासहायामम्लानः पीताम्लाने कुरण्डकः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुन्दरी रमणी रामा वेणिनी चान्वितार्थकाः ।कुमारी कन्यका कन्या किंचित्प्रौढा महोदया ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
कुमार्यां शारिबायां च तरणीसंज्ञगुल्मके ।कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥
अनुष्टुप्
doubtful
खस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥
अनुष्टुप्
meanings
संख्याभेदेऽपि शंखस्य मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ १४ ॥
अनुष्टुप्
meanings
कन्या as a meaning in nānārtha verses
- धरणिकोश मध्यममध्यमो मध्यजे मध्ये नृपरागप्रभेदयोः । पाणेमध्याङ्गुलिर्दुष्टरजाः कन्या च मध्यमा ॥ Dharaṇikośa 24.3.11
- धरणिकोश गौरीपारी घण्टा तथा पारं पर्यन्ते च परे तटे । गौरोऽरुणे सिते पीते गौरी कन्या शिवापि च ॥ Dharaṇikośa 26.2.10
- धरणिकोश कुमारीकुमारः सेनानीर्वरुणतरुरश्वपतिचरः कुमारौ स्यातां हि शिखण्डकभूमीश्चरसुतौ । कुमारी कन्यायामपि मधुकर्यामपि मता कुमारी द्वीपेऽस्मिन्नपि नवमाल्यामपि च सा ॥ Dharaṇikośa 26.3.42
- कोषकल्पतरु धीदाछेदिस्तु बज्रे नरि स च्छिदि स्त्री ज्ञाने विदा स्त्रीधिषणार्थकश्च । धीदा तु कन्या धिषणार्थकापि नन्दा तु संप[5a]न्मणिके तिथौ च ॥ २८ ॥ Koṣakalpataru 6.19.28
- कोषकल्पतरु वरदास्याद्याम्यदिग्दन्तिवधूगतः स्त्री शान्तान्तरे स्याद्वरदः प्रसन्ने । कन्यापगाभेदगतः स्त्रियां स्या- दामोद उक्तः सुरभौ च हर्षे ॥ Koṣakalpataru 6.19.17
- नानार्थार्णवसंक्षेप धीताधीता बुद्धौ सुतायां च कन्यायामिति कश्चन । धीतिः स्यादङ्गुलौ पानेऽप्याधारे च व्यवस्थितौ ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 2.1.53
- नानार्थार्णवसंक्षेप रातारतसम्बन्धिनि स्त्र्यर्थे राता राती यथाक्रमम् । उक्तयोरर्थयोः क्ली तु दाने कन्यान्तरे पुनः ॥ ११०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1101
- नानार्थार्णवसंक्षेप हारीस्त्री तु देवनिवासस्य हारा कक्ष्यासु सा पुनः । हारी नाम्नैव दुष्टायां कन्यायामथ स त्रिषु ॥ १५९० ॥ Nānārthārṇavasaṃkṣepa 2.5.1590
- नानार्थार्णवसंक्षेप रोहिणीपथ्यायां गव्युमाकन्यालोहिनीषु च रोहिणी । कण्ठरोगप्रभेदे च नक्षत्रे च प्रजापतेः ॥ ७७ ॥ Nānārthārṇavasaṃkṣepa 3.1.77
- नानार्थार्णवसंक्षेप कुमारीजम्बुद्वीपे कुमारी तु कन्यायां स्यात् स्त्रियामसौ । मृगजात्यन्तरे चापि हिमाभे नवमालिका ॥ ५१५ ॥ Nānārthārṇavasaṃkṣepa 4.515
- नानार्थार्णवसंक्षेप राजकन्याराजकन्या तु कन्यायां राज्ञोऽपि च नपुंसके । नपुंसकस्य संज्ञासु वररुच्युदिता ह्यसौ ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 6.45
- नानार्थार्णवसंक्षेप महोदयाकन्याकुब्जाख्यनगरे कन्यायां तु स्त्रियामियम् । प्रौढायां किञ्चिदत्रापि समासादिकमुन्नयेत् ॥ ४७३ ॥ Nānārthārṇavasaṃkṣepa 6.473
- परमानन्दीयनाममाला धीदाधन्वी धनुर्धरे छेके ध्रुवः कीलकशर्वयोः । धवः प्रिये तरौ भीरौ धीदा कन्यामनीषयोः ॥ २५६ ॥ Paramānandīyanāmamālā 5.17.256
- शब्दरत्नावली कुमारीकुमारी वनमाल्यां स्त्री भवान्याञ्च नदीभिदि । जम्बुद्वीपसहाकन्याऽपराजितास्वपि स्त्रियाम् ॥ Śabdaratnāvalī 7.27.65
- शब्दरत्नाकर श्यामाशारिर्द्वयोः कुथे द्यूते पर्याणे ना खगे स्त्रियाम् । शंसनेऽस्त्रायसोः शस्त्रं श्यामा युवतिकन्ययोः ॥ २०१६ ॥ Śabdaratnākara 4.1.2016
- शब्दरत्नाकर कुमारीकुमारी चण्डिका कन्या सहा सुदुहितर्यपि । कुतपो भागिनेयार्कगोतिथिब्राह्मणेषु ना ॥ २०७५ ॥ Śabdaratnākara 4.1.2075
- शब्दरत्नाकर रोहिणीनक्षत्रे कटुरोहिण्यां कन्यायां गवि रोहिणी । रुचको मातुलुङ्गे स्याद्भूषणे रदने मणौ ॥ २१५६ ॥ Śabdaratnākara 4.1.2156
- त्रिकाण्डशेष बालिकापिञ्जे ना सिकताकर्णभूषाकन्यासु बालिका । शिवमल्ल्यां बकः कह्वे राज्ञि भट्टारकः सुरे ॥ ३५ ॥ Trikāṇḍaśeṣa 3.3.35
- त्रिकाण्डशेष कुमारीकारे पीडा बन्धशाले क्रूरौ कठिनभीषणौ । जम्बुद्वीपसहाकन्याः कुमार्योऽथास्ववारके ॥ ३३७ ॥ Trikāṇḍaśeṣa 3.3.337
- वैजयन्ती श्यामाशाखा वेदप्रभेदेषु बाहौ पादद्रुमांगयोः । श्यामा कन्या निशा चाथ शान्तिः प्रशममंगले ॥ ३९ ॥ Vaijayantī 6.2.39
- वैजयन्ती रोहिणीपथ्यायां गव्युमाकन्यालोहिनीषु च रोहिणी । नक्षत्रे कण्ठरोगे च वर्तनी वृत्तिमार्गयोः ॥ २१ ॥ Vaijayantī 7.2.21