कुमारिका
kumārikāस्त्री · fem.In 6 kośas: 10 synonym verses, 7 as a meaning of another word.
रुद्रैला त्रिपुटा पृथ्वी कल्पाप्यैन्द्री कुमारिका ।खरीका त्वजमोदापि वार्कटी हस्तिकारवी ॥ ३६१ ॥
अनुष्टुप्
genderस्त्रीfem.
एषां पर्यायशब्देभ्यो रम्भापर्यायवाचिका ।कुमारिका वृन्तपुष्पा सत्पुष्पं तु शिलीन्ध्रकम् ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः ।दमयन्ती सिताथान्या मदनी तु कुमारिका ॥ २५७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुगन्धा सर्पदमनी श्रीकन्दा च कुमारिका ।विषकण्टकिनी तिक्ता तिक्ततुण्ड्यथ शंवरी ॥ ४०४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोटव्यदितिकैटभ्यः कैटभा यादवी च सा ।शृङ्गा टेका शची देवी महादेवी कुमारिका ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
दाक्षायणी हरिवृषा महादेवी कुमारिका ।हिण्डी वृषाकपायी स्यान्मङ्गला सर्वमङ्गला ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
अल्पा तु क्षुद्रकाख्या*वन्ध्या कर्कोटिकी पुनः ।कुमारिका नागरिपुर्विषकण्टकिनी तथा ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
खरुः पतिंवरा वर्या कनी कन्या कुमारिका ।तामपूर्वपतिं पाणौ गृह्णन्कौमार उच्यते ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
कुलस्त्री कुलपाली स्यात् सप्तकास्तु कूलस्त्रियाम् ।कन्यका कन्यिका कन्या कन्यका च कुमारिका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
genderस्त्रीfem.
असिक्न्यन्तःपुरप्रेष्यानाप्तभोगा कुमारिका ।विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुमारिका as a meaning in nānārtha verses
- धरणिकोश तरणितरणिः कुमारिकाख्यायामोषधौ नावि भास्करे । भरणी घोषके ऋक्षे भरणं वेतने भृतौ ॥ Dharaṇikośa 14.2.17
- धरणिकोश कन्याकन्ये राश्यौषधीभेदौ कन्ये कुमारिकास्त्रियौ । रथ्यो रथस्य वोढा रथ्या रथौघविशिखयोः ॥ Dharaṇikośa 25.2.1
- कोषकल्पतरु कन्याव्रज्या भवेत्पर्यटने च वर्गे स्यात्प्रस्थितौ, तल्पगता तु शय्या । शब्दस्य गुम्फेऽथ कुमारिकायां कन्या च नार्यौषधिराशिषु स्यात् ॥ ५० ॥ Koṣakalpataru 6.26.50
- कोषकल्पतरु कुमारीजात्ये सुवर्णे चरमे स्त्रियां तु कुमारिकाशैलसुतानदीषु । सहौषधौ स्याद्वनमालिकायां द्वीपे तथा जम्बुपदोत्तरस्थे ॥ ४७ ॥ Koṣakalpataru 6.27.47
- कोषकल्पतरु बलभद्रास्याद्वीरणेऽन्त्येऽप्यथ पारिभद्रो मन्दारके स्यादपि निम्बवृक्षे । प्रलम्बशत्रौ बलभद्र उक्ता त्रायन्तिकायां च कुमारिकायाम् ॥ ३२ ॥ Koṣakalpataru 6.27.32
- शिवकोष कन्याकन्या कुमारिकावन्ध्यास्थूलैलासारिवासु च ॥ ३३९ ॥ Śivakoṣa 21.1.339
- शिवकोष देवीदेवी कुमारिकास्पृक्काजयन्तीतेजिनीषु च । विद्धकर्णीपीलुपर्णीवन्ध्याकर्कोटकीष्वपि ॥ ४९७ ॥ Śivakoṣa 24.1.497