तरणी
taraṇīस्त्री · fem.In 10 kośas: 8 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
भ्रमरारिर्मासपुष्पी कुष्ठारिस्तरणी तु सा ।सहाकुमारी गन्धाढ्या सुदला चारुकेसरा ॥ २७५ ॥
अनुष्टुप्
genderस्त्रीfem.
नावा तार्यं तु नाव्यं स्यान्नौतार्ये वस्तुनि त्रिषु ।स्त्रियां पुंसि तरण्डा तु तरणी तरणिस्तरिः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
सिन्दूरी तु त्रिसंध्या स्याद्रक्तपुष्पा सुकोमला ।तरणी रामतरणी कर्णिका चारुकेसरा ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
कुमार्यां कर्णिका चारुकेसरा भृङ्गसम्मता ।तरणी रामतरणी गन्धाढ्या कन्यका सहा ॥ २४४ ॥
अनुष्टुप्
genderस्त्रीfem.
नौका नौश्च तरी बेडा तरणी तरणिस्तरिः ।मङ्गिनी चेति नामानि नौकायाः मन्यतां जनः ॥ १४६६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां नौस्तारिका नौका तरणिस्तरणी तरी ।तरिः तरण्डा स्यात् तरण्डः पादानिन्दा दथो प्लवा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
पोहित्थं तु प्रवहणं पोथश्चाप्यथ मंगिनी ।नौस्तरिस्तरणी वेटी द्रोणी काष्ठांबुवाहिनी ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
तरणी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप कन्याकुमार्यां शारिबायां च तरणीसंज्ञगुल्मके । कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 2.1.21
- नानार्थार्णवसंक्षेप कुमारीइति प्रसिद्धवल्ल्यां च तरणीसंज्ञगुल्मके । कुस्तुम्बुर्यां मृडान्यां च तथा जनपदान्तरे ॥ ५१६ ॥ Nānārthārṇavasaṃkṣepa 4.516
- शिवकोष कर्णिककणिकाऽरणौ च कणिकश्चूर्णे सुमनस्य कर्णिकस्ताले । योषिति तु कोकिलाक्षे तरणीमल्ल्योश्च पद्मगर्भे च ॥ २० ॥ Śivakoṣa 1.3.20
- शिवकोष कुब्जकुब्जस्तरण्यामाघाटे द्विजा कौत्यां च बर्बरे । पिजा तूले हरिद्रायां फञ्जी पद्माविशाल्ययोः ॥ १०६ ॥ Śivakoṣa 7.1.106
- शिवकोष रक्तपुष्पापलाशतुङ्गचण्डातबन्धुजीवमनोहरे । रक्तपुष्पा चर्मरङ्गासिन्दूरीतरणीभिदि ॥ ३०२ ॥ Śivakoṣa 17.3.302
- शिवकोष कुमारीभूतावसे च काश्मीरं कुङ्कुमे पुण्यसागरे । कुमारी तरणीवन्ध्यावनमाल्यसहासु च ॥ ३९६ ॥ Śivakoṣa 22.3.396