कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खारी

khārīस्त्री · fem.

In 14 kośas: 18 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.886 · p. 35
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.153
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।
अनुष्टुप्
genderस्त्रीfem.
यौतवं पौतवं खारी खरिः खारश्च दृश्यते ।वण्टको वण्ट ऋक्थं स्याद्रिक्थं मुक्ता च मौक्तिकम् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.527 · p. 191
प्रस्थौ स्त्रियामाढकः स्यात् त्रिषु द्रोणोऽस्त्रियां पुनः ।खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.36 · p. 464
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 292
शूर्पाभ्यां तु भवेद्द्रोणी गोणी स्त्री च वहो नरि ।गोणीभिः पञ्चभिः क्रीते पञ्चगोणिर्विशेष्यवत् ॥द्रोण्यश्चतस्रः खारी स्यात्पलानां तु शतं तुला ।ऊर्णापलशते तु स्यात्कम्बलं मिथुने न तत् ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.65 · p. 102
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.413 · p. 153
आढकस्तु चतुर्भिः स्यात्प्रस्थैरथ तथाढकैः ।चतुर्भिर्द्रोणनामाथ खारी षोडशभिश्च तैः ॥ ४१३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.58 · p. 217
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.531 · p. 94
अष्टाढकप्रमाणे स्यादथ खारी तु कथ्यते ।चतुर्विंशतितद्द्रोणपरिमाणेऽथ वाहकः ॥ ५३१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1489 · p. 237
आढकश्चतुर्भिः प्रस्थः द्रोणश्चतुर्भिराढकैः ।खारी षोडशभिर्द्रोणैर्मन्यते व महीतले ॥ १४८९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.238 · p. 98
पूयकं पूयमाख्यातं व्रणादिप्लाविते रजे ।खारी खाटिरर्बुदश्च किणो व्रणादिखाटिषु ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.174 · p. 149
अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् ।कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.328 · p. 215
द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता ।काकनी काकिणी, क्रोशद्वये गव्यूतिरुच्यते ॥ ३२८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1500 · p. 181
ते चत्वारोऽस्त्रियां प्रस्थ आढकस्तच्चतुष्टयम् ।तौ द्वौ शिवस्तौ द्रोणस्तौ खारी वाहो निकुञ्चकः ॥ १५०० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.57 · p. 190
तौ द्वौ खारी परे त्वेनां विदुः कुंभीं परे पुनः ।खारीं कंसयुगेनान्ये मानीं वाहं परे विदुः ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.63 · p. 191
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.

खारी as a meaning in nānārtha verses