तृष्णा
tṛṣṇāस्त्री · fem.In 16 kośas: 23 synonym verses, 5 as a nānārtha head word, 12 as a meaning of another word.
पिपासुस्तृषितस्तृष्णक्तृष्णा तर्षोऽपलासिका ॥ ३९३ ॥पिपासा तृट्तृषोदन्या धीतिः पानेऽथ शोषणम् ।रसादानं भक्षकस्तु घस्मरोऽद्मर आशितः ॥ ३९४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderस्त्रीfem.
उदन्या तर्षतृट्तृष्णापिपासाश्च समाः स्मृताः ।तृष्णको गर्धनो गृध्नुर्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३६३ ॥
अनुष्टुप्
genderस्त्रीfem.
तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते ।अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderस्त्रीfem.
तृष्णोदन्येथ मूर्छा तु मूढिर्मोहिःखरक्षयः ।खरसादश्च मूर्त्सायां निद्रा स्त्री शयनं च षण् ॥ ३२० ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः ।तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
तृष्णोदन्या पिपासा स्यादम्बुपर्यायतः स्पृहा ।वैकालिकं रात्रिभोज्ये स्वल्पके न द्वयोरथ ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रेमास्त्रियां प्रियत्वं षण् हार्दं स्यादथ दोहदः ।पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
सन्तापनः शोषणश्च मारणश्चापि मोहनः ।पञ्चकामस्य पुत्र्यौ द्वे प्रीतितृष्णे ततो मदः ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
तूणा तृष्णा दक्षिणाऽपि धिषणा वीणया समा ।हृणा स्थूणामृताऽनन्ता गीता चिन्ता चिता समा ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रेप्सा च तृष्णापि च दोहदोऽस्त्रीस्याल्लालसात्यर्थमसौ न षण्ढे ।लोभस्तु गर्द्धामिथुना(?) धनाया-ऽथोद्वेग उक्तो विषयेष्वनिच्छा ॥ २०१ ॥
इन्द्रवज्रा
genderस्त्रीfem.
इच्छान्नस्याशनाया स्त्री जिघत्सा क्षुत्क्षुधा रुचिः ।उदन्या स्त्री पिपासा च तृषा-तृष्णा-तृषोऽम्बुनः ॥ २०२ ॥
अनुष्टुप्
genderस्त्रीfem.
विट्शब्दो यदा अवर्णस्तदा स्त्रियां भवन्ति । यथा इयं विट् विष्ठा । अवर्ण इति किम् । अयं विट् वैश्यस्तृतीयो वर्णः । सास्नादय स्त्रियां भवन्ति । सास्ना गलकम्बलः । वीथी गृहावयवः । नीवी मूलबन्धनम् । भेरी वाद्यविशेषः । मञ्जूषा पेटा पुस्तकादीनाम् । गण्डूषा हस्तजलम् । मूषा सुवर्णधमनिका । परिषत्सभा । गुहा पर्वतस्य ।तृष्णा कृपा पताका रथ्या कृषिश्च काकिणी चैव ।एते स्त्रियां भवन्ति प्रतिशीरा धारा च नेमिश्च ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
लोभः स्पृहा वशो लिप्सा तृष्णा काङ्क्षेच्छया सह ।आशंसा गर्धवाञ्छे चाशेहा तृट् तु मनोरथः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
तर्षितस्तृषितस्तृष्णक् पिपासुः स्यात् पिपासितः ।तृष्णा तु तृट् तृषा तर्षः पानं तथाऽपलासिका ॥ ५८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा ।आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात् शिलोञ्च्छमुञ्च्छशिलं शिलमुञ्च्छमृतं शिलम् ।सत्यानृतं वणिग्भावः तृष्णाधनपिशाचिका ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तृष्णा तृषा पिपासा तृट् उदन्या तर्ष इत्यपि ।भोजनं जन्धिराहारो विघसोऽशनभक्षणे ॥
अनुष्टुप्
genderस्त्रीfem.
अत्याकारः समाक्षेपे तृष्णा धनपिशाचिका ॥
genderस्त्रीfem.
शीतारुश्च सशीतालुः, पिपासायां तृषा-तृषौ ।तृष्णा-तर्षौ च, लिप्सायां त्रयोन्त्या अपि, भक्षके ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
अभ्यवहारो विघसो न्यादस्तृष्णा पिपासा तृट् ।उदन्या तर्षणं चाथ फेला भुक्तिसमुज्झितम् ॥ १४४१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तृष्णा धनपिशाची स्याद्वार्धुष्यं धान्यवर्धने ।प्रामार्ज्यमृणमर्थानां प्रयोगः स्यान्मलाम्लिका ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्णो वर्ते स्याद्भ्रुवोर्लोम्नि च स्या-न्मेषादीनां पुंसि तूष्णो निदाघे ।उद्योते चाथान्यवद्दक्षवाचीतृष्णा त्विच्छा पातुमिच्छा च शस्ता ॥ ११ ॥
शालिनी
तृष्णा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् आशादशावस्थानेकविधाप्याशा तृष्णापि चायता । Amarakośa 3.3.414
- धरणिकोश आशाईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः । अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥ Dharaṇikośa 29.1.1
- धरणिकोश अनुतर्षअनुकर्षो रथस्याधोदारुण्यप्यनुकर्षणे । अनुतर्षः सुरापानपात्रं तृष्णा च कीर्तिता ॥ Dharaṇikośa 30.2.3
- कोषकल्पतरु अनुबन्धीअनुबन्धी हिक्कायां तृष्णायां चापि निर्दिष्टा । आशा[10a]बन्धो मर्कटवासे तद्वत्समाश्वासे ॥ ८५ ॥ Koṣakalpataru 6.20.85
- कोषकल्पतरु अनुतर्षतृष्णायामभिलाषेऽथ वातरूषस्तथोत्कोचे । ऐन्द्रे चापे परवद्वातूलेऽथाम्बरीषोऽस्त्री । भ्राष्ट्रे रणेऽथ पुंसि क्ष्मापतिभेदे रवौ बाले ॥ ६७ ॥ Koṣakalpataru 6.30.67
- नानार्थार्णवसंक्षेप मसिइत्येवमजयः स्माह धातौ तु नरि मल्लतौ । मसिस्तु शस्त्र्यां कृपणतृष्णायामिति कश्चन ॥ ९५३ ॥ Nānārthārṇavasaṃkṣepa 2.5.953
- परमानन्दीयनाममाला तृष्त्विट् च वाण्यां प्रभायां च जिगीषाव्यवसाययोः । रुचौ तृट् च मता लोभतृष्णयोस्तुः स्मृतौ पुनः ॥ २३ ॥ Paramānandīyanāmamālā 1.23
- शब्दरत्नावली अनुबन्धीअवरोधो नृपगृहे तिरोधाने नृपाङ्गने । अवष्टब्धः समाक्रान्तेऽविदूरेऽप्यवलम्बिते ॥ अनुबन्धी च तृष्णायां हिक्कायाभवि च स्त्रियाम् । अनुबन्धो बन्धे दोषोत्पादने च विनश्वरे ॥ Śabdaratnāvalī 7.19.38
- शब्दरत्नावली आशाअंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥ आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥ काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ Śabdaratnāvalī 7.30.2
- शब्दरत्नावली अनुतर्षअनिमेषः सुरे मीने कामिनीबन्धमित्यपि । अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ Śabdaratnāvalī 7.31.28
- शब्दरत्नावली लालसलालसो लालसा तृष्णायाचनौत्सुक्यगाढयोः । वयो योवनबाल्याद्योः क्लीबं स्याद्विहगेऽपि च ॥ Śabdaratnāvalī 7.32.31
- त्रिकाण्डशेष आशाअपभ्रंशो दुष्पतने भाषाभेदापशब्दयोः । टीकादर्पणावादर्शावाशा तृष्णादिशोः स्त्रियाम् ॥ ४२६ ॥ Trikāṇḍaśeṣa 3.3.426