मुण्ड
muṇḍaवि · adj.In 16 kośas: 28 synonym verses, 6 as a nānārtha head word.
मुण्डस्तु मुण्डितः केशी केशवः केशिकोऽपि च ।वलिरः केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ ॥ ४५८ ॥
अनुष्टुप्
genderविadj.
पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥
अनुष्टुप्
genderविadj.
मुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युः ।तुण्डं वदनं वक्त्रं लपनं मुखमास्यमाननं च समम् ॥ ५१८ ॥
गीतिः
genderक्लीneut.
उत्तमाङ्गं शिरः शीर्षं कं शिरं मस्तकोऽस्त्रियाम् ।मूर्द्धा पुंसि च मुण्डोऽस्त्री मस्तिकोऽपि कमव्ययम् ॥ १३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निर्लोहं वर्वरं मुण्डं विश्वं गन्धरसं पुनः ।विश्वगन्धं व्रणारिः स्यात् स्मृत्याह्वमथ दुर्लभः ॥ ३६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
खण्डार्द्धशृङ्गो वण्डस्तु च्छिन्नपुच्छार्थकस्त्रिषु ।कालेप्यजातशृङ्गस्तु मुण्डस्तुवरतूवरौ ॥ ४४५ ॥
अनुष्टुप्
genderविadj.
कलशी दशभिर्मुण्डः परीमाणमिदं स्मृतम् ।काकिणिः काकिणी तुल्ये काकिनिः काकिनी समे ॥ ५२८ ॥
अनुष्टुप्
genderपुंmasc.
महालोहं तच्चतुर्द्धा भ्रामकं चुम्बकं पुनः ।मुण्डं कृष्णायसं चेति लोहसारं तथाश्मजम् ॥ ५५८ ॥
अनुष्टुप्
genderक्लीneut.
पिष्टलोष्टतुराणां च सहैव निकटेन च ।मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
छायाङ्गोऽपि तमो मुण्डः कृष्णवर्त्मा तमोऽस्त्रियाम् ।केतुः शिखी च विशिरा उत्प्लवो विकचोऽहिकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
मुण्डस्तु मुण्डितोऽथ स्युः केशि-केशव-केशिकाः ।अकर्ण एडो बधिरो दुश्चर्मा तु द्विनग्नकः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् ।चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
उपजातिः
genderपुंक्लीm. n.
एतेषां तृतीयाप्रकृतिः तृतीया स्थाने नपुंसकस्य दृष्टत्वात् पातालादीनि तृतीयाप्रकृतीनि विद्धि जानीहि । यथा इदं पातालं रसातलम् । जालं मत्स्यबन्धनं गवाक्षश्च । मलं पापम् । खलं मर्दनस्थानं व्रीहीणाम् । कपालं मस्तकास्थि खण्डं च । शैवालं जलसम्भवम् । शीलं विनयः[य] । नालं पद्मादीनाम् । चीरं जीर्णवस्त्रम् । चीवरं भिक्षाप्रावरणम् । वियदाकाशम् ।मुण्डनितम्बक्षपगुल्मसान्वङ्कवंशपूगशङ्खरथाश्च पुंसि स्युः ।जघनाम्बरफलमूलाङ्गानि तु विमुच्य ॥ ३८ ॥
metre not recognised
genderपुंmasc.
केशिकः केशवो मुण्डः केकरो वलिरः समौ ।वृद्धनाभौ तुण्डिलः स्यात्तुण्डिभोऽपि निरीक्षतः ॥ १२१ ॥
अनुष्टुप्
genderविadj.
मुण्डं मौलिः कचाः केशास्तीर्थवाकाश्च कुन्तलाः ।वालाः स्युश्चिकुरास्तुल्या रचना भार उच्चयः ॥ २३३ ॥
अनुष्टुप्
genderक्लीneut.
जकुटः कुर्कुटश्चैव कवटः कमठोऽप्यथ ।तरण्डमुण्डकोदण्डप्रकाण्डानि नडो दृढः ॥ १३६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्थालूधं(?) दग्धभक्ते भिस्सटा साटी च सम्मता ।मण्डः स्यादिक्षुदध्यादौ ? मण्डं मुण्डोऽपि दृश्यते ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
शीर्षकं मस्तकं मुण्डं मौलिर्मस्तं च मस्तिकम् ।उत्तमाङ्गं शिरो मूर्धा करणत्राणमेव च ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
मुण्डश्च मुण्डितो नाम केशरहित उच्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 श (wrong syllable)
genderविadj.
मस्तकं मस्तिकं मुण्डं मूर्धा मौलिस्तथा शिरः ॥ ९०६ ॥
अनुष्टुप्
genderक्लीneut.
गन्धर्वहस्तको मुण्डो व्यडम्बको व्यडम्बनः ।रुवूको रूवुकश्चैव वर्द्धमानश्च चित्रकः ॥ २०५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्ब (wrong syllable)
genderपुंmasc.
कुणिः कूणिश्च कुकरे पृथ्नि-(दल्पहेतके) रल्पशरीरके ।जङ्घाहीने श्रोणः पङ्गुः स्यान्मुण्डो मुण्डितेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रो (wrong syllable)
genderविadj.
स्याद्वषः शष्कुली चेति द्वितयं कर्णरन्ध्रके ।पुंसि मूर्धाशिरः शीर्षं मुण्डं मस्तकमस्त्रियाम् ॥
अनुष्टुप्
genderक्लीneut.
अशिखो मुण्डितो मुण्डः पौंस्नपुंसवने समे ।विवाहोपयमोद्वाहोपयामा दारसंग्रहःपाणिग्रहः परिणयो निवेशः पाणिपीडनम् ॥ १२३२ ॥
अनुष्टुप्
genderविadj.
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने ।मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसंज्ञिका ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
आडिण्डिकं त्रिषु परे मुण्डः स्यान्मुण्डितोऽशिखः ।शिखावानवमुण्डः स्यात् पंचचूडस्तु सारणः ॥ ६ ॥
अनुष्टुप्
genderविadj.
मुण्डोऽस्त्री मस्तकाऽप्यस्त्री मुखन्तु वदनं घनम् ।तेरं तुण्डं वक्रमास्यमाननं च द्विजालयम् ॥ ८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
षण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सितेकुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि ।एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ सस्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
meaningsमूर्धन्
मुण्डः स्यान्मस्तके त्रिस्तु परिवाषितकेशके ।स्त्री तु मुण्डा च मुण्डी च स्तम्बे श्रमणिकाह्वये ॥ १००३ ॥
अनुष्टुप्
सा तु मुण्डैव भिक्षुक्यां मुण्डने तु नरस्त्रियोः ।अजयस्त्वाह मुख्यं स्यात् क्ली वक्रोपाययोरिति ॥ १००४ ॥
अनुष्टुप्
meaningsमुण्डन
मुण्डो दैत्यप्रभेदे स्याद् राहो ना मुण्डिते त्रिषु ।मुण्डा मुण्डीरिकौषध्यां मुण्डमन्द्रीतु मूर्द्धनि ॥
अनुष्टुप्
राहौ दैत्यान्तरे मुण्डो मूर्ध्न्यस्त्री मुण्डिते त्रिषु ।रण्डा स्याद्विधवौषध्योर्वितण्डा शाकभिद्यपि ॥ ११६ ॥
अनुष्टुप्