कपर्द
kapardaपुं · masc.In 14 kośas: 23 synonym verses, 9 as a nānārtha head word, 10 as a meaning of another word.
genderपुंmasc.
कपर्दस्तु हिरण्यः स्यात्पणास्थिकवराटकौ ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ।प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।वारीही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
पिनाकं स्यादजगवं प्रमथास्तु गणाः स्मृताः ।कपर्दोऽस्य जटाबन्धस्तण्डुः स्यान्नन्दिकेश्वरः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
उक्ता मुक्ता मौक्तिकं शौक्तिकेयं,मुक्तास्फोटः शुक्तिराख्यायते च ।कम्बुः शङ्खः क्षुल्लकाः क्षुद्रशङ्खाः,शम्बूकास्ते स्युः कपर्दो वराटः ॥ ६६४ ॥
शालिनी
genderपुंmasc.
द्यूतबीजं वटी वा ना हिरण्यं च वराटकः ।द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
महाकपर्दो भल्लूकः कपर्दोऽस्त्री वराटकः ।चराचरचरो वर्यो बालक्रीडनकश्च सः ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यादष्टमूर्त्तिपर्याय एकलिङ्गं च न द्वयोः ।कपर्दोऽस्य जटाजूटोऽस्त्रियां खट्वाङ्ग इत्यपि ॥ १०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कपर्दगदयोस्तद्वदगदस्य गदस्य च ।वुद्वुदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
अजीतकं च युग्यं च पिनाको न स्त्रियां भवेत् ।कपर्द्दस्तु जटाजूटः खट्वाङ्गोऽस्त्री सुखं गुणाः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
जलशुक्तिर्घोङ्घपङ्कमण्डकौ श्वेतकस्तु ना ।कपर्दश्च हिरण्यः स्यात्पणास्थिक-वराटकौ ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
आत्म-मेघ-तरि-कूप-रिपूणांनिभ( ? )गाङ्गि-किरणासि-कफानाम् ।वृक्ष-तण्डुल-समास-कन्दुक-प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥
metre not recognisednearly स्वागता: pāda 2, syllable 1 नि (wrong syllable)
genderपुंmasc.
जनपद-कुन्द-कपर्दाबुद्बुदयुक्ता अगाध-गन्धौ च ।स्कन्धो मन्थाः पन्थादेवन उक्तश्च तत्तु[222b]ल्यः ॥ १७ ॥
metre not recognised
genderपुंmasc.
द्वयोस्तु तदपत्ये स्याद् गजभेदे च ना पुनः ।शङ्खेऽपि रभसेनोक्तः कपर्दस्तु पुमानयम् ॥ ३७६ ॥
अनुष्टुप्
genderपुंmasc.
जटाजूटः कपर्दोऽस्य पिनाकः शांकरं धनुः ।अजगावमजगवमजकावमपि क्वचित् ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंmasc.
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलमात्रजाः ।कपर्दस्तु वराटः स्यात्पणास्थिकवराटकाः ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
उपजातिः
genderपुंmasc.
जटाजूटः कपर्दः स्याल्ललाटाक्षः किकीदिविः ।अजागवमजगवं धनुः खड्गेऽपराजितः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंmasc.
हीरो हिरण्यरेताः वै तथा स्यादक्षतस्वनः ।कपर्दोऽस्य जटाजूटः खट्वाङ्गस्तु सुखंसुणः ॥ २४३ ॥
अनुष्टुप्
genderपुंmasc.
वराटको हिरण्यश्च कपर्दश्च कपर्दकः ।श्वेतः पणास्थिकश्चेति नामानि कथयन्ति वै ॥ २१७४ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गीशश्चार्धनारीशः पिनाकी रसनायकः ।कपर्दोऽस्य जटा शम्भोः पिनाकः स्यात् शरासनम् ॥
अनुष्टुप्
genderपुंmasc.
कपर्दोऽस्य जटाजूटः खट्वाङ्गोऽस्य सुखंघुणः ।पिनाकोऽजगवं युग्यमजगावमजीगवम् ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
मुक्ताफलं शौक्तिकेयं गंगेष्टिः कटशर्करा ।शंबूकः क्षुल्लकः शंखः कपर्दस्तु वराटकः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कल्लोलस्तु महत्यूर्मौ शत्रौ च रभसोदितः ।कपर्दस्तु जटाजूटे देवदेवस्य शूलिनः ॥ ६३ ॥
अनुष्टुप्
meaningsशिवजटाजूट
दृश्यते च जटाजूटमात्रे स्याच्च वराटके ।कर्दमस्त्वत्र पङ्कारे पङ्के च रभसोदितः ॥ ६४ ॥
अनुष्टुप्
doubtful
महादेवजटाजूटे जटाजूट इतीतरे ।जलजन्तुविशेषे तु वराटाख्ये द्वयोरथ ॥ ३७७ ॥
अनुष्टुप्
doubtful
कपर्दोऽपि वराटे स्याज्जटाजूटे पिनाकिनः ।कीनाशस्तु दरिद्रेऽपि कर्षके राक्षसे यमे ॥ १२९ ॥
अनुष्टुप्
कपर्दाः स्यात्पशुपतिजटाजूटे वराटके ।कर्णान्दु कर्णयाक्ष्यान्तु स्त्रियामुत्क्षिप्तिकासु च ॥कामदा स्त्री कामधेनौ वाच्यवत्कामदातरि ।कुमुदं कैरषे रक्तपद्मे पुंसि तु दिग्गजे ॥नागे वानरभेदे स्त्रीगर्भ्भायां कुम्भिकौषधौ ।गोष्पदं गोपदच्छिद्रे तथा गोगतिगोचरे ॥गोविन्दस्तु गवाध्यक्षे केशवे च बृहस्पतौ ॥
अनुष्टुप्
कपर्द as a meaning in nānārtha verses
- कोषकल्पतरु वटवटस्तु न स्त्री समतावराट- कपर्दभक्ष्येषु गुडेऽपि तद्वत् । न्यग्रोधशुम्बेषु स तु त्रिलिङ्गो द्वंद्वेन हीनः स फले वटस्य ॥ ५ ॥ Koṣakalpataru 6.10.5
- कोषकल्पतरु काकिणीकृष्णलैकककपर्दयोस्तथा तोयमानभिदि च प्रकीर्तिता । रोहिणी तु कटुकागलामय- रक्तधेनुषु च सोमवल्कके ॥ ४४ ॥ Koṣakalpataru 6.15.44
- कोषकल्पतरु श्वेतप्रोतं परेते त्वपि भूतभेदे प्रेतोऽन्तिमे श्वेतमुशन्ति रूप्ये । द्वीपागयोर्ना परवत्तु शुक्ले स्त्रियां कपर्दे भिदि पाटलायाः ॥ १० ॥ Koṣakalpataru 6.16.10
- नानार्थार्णवसंक्षेप काकणीतुर्येंऽशे पादुकायां च कपर्दानां च विंशतौ । एकस्मिंश्च कपर्दे स्यादिति प्राहुर्मनीषिणः ॥ २० ॥ Nānārthārṇavasaṃkṣepa 3.1.20
- नानार्थार्णवसंक्षेप भरुटकपर्दे तु पुमान्ना तु भगवान् हरशार्ङ्गिणो । बुद्धे च त्रि तु पूज्येऽथ पार्वत्यां भगवत्यसौ ॥ १२८५ ॥ Nānārthārṇavasaṃkṣepa 4.1285
- नानार्थार्णवसंक्षेप वराटखड्गभेदेऽपि चैरण्डबीजाभपुलकावलौ । नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥ Nānārthārṇavasaṃkṣepa 4.1589
- परमानन्दीयनाममाला कम्बुकाचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः । कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥ Paramānandīyanāmamālā 5.7.87
- शब्दरत्नावली वटपटुः पटोले दक्षे च नीरोगे चतुरेऽन्यवत् । पट्टः पेषणपाषाणव्रणादिवस्त्रपोरपि ॥ राजशासनभेदेऽपि पत्रे पीठे चतुष्पथे । पटिः स्त्री पटभेदे स्याद् वागुलौ कुम्भिकाद्रुमे ॥ पुष्टिः पोषणवृद्धयोः स्त्रीफटादम्भे फणेऽपि च । वटी त्रिषु गुणे ना तु वृक्षनाथकपर्दयोः ॥ Śabdaratnāvalī 7.11.22
- शब्दरत्नाकर चूर्णिचूर्णिर्ग्रन्थे कपर्दे च चर्चा चार्चिक्यचिन्तयोः । पाठे च चञ्चुरेरण्डे पुंसि पक्ष्यङ्गके स्त्रियाम् ॥ १९२१ ॥ Śabdaratnākara 4.1.1921
- त्रिकाण्डशेष वराटककपर्दे रज्जौ राजीवे बीजकोशे वराटकः । वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ ॥ ३४ ॥ Trikāṇḍaśeṣa 3.3.34