कृषि
kṛṣiस्त्री · fem.In 12 kośas: 14 synonym verses, 1 as a nānārtha head word, 9 as a meaning of another word.
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ।सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।खन्याकरबलादानं शून्यानां च निवेशनम् ॥ १०७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः ।तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
वालिः कालिर्भल्लिपल्ली व्रतती भृकुटिर्वमिः ।सारिर्भाटी सठिर्वर्त्तिः खाटिः शुण्ठी कृमिः कृषिः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याज्जीवनं चाथ कृषिः कर्षणं प्रमृतानृते ।उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
विट्शब्दो यदा अवर्णस्तदा स्त्रियां भवन्ति । यथा इयं विट् विष्ठा । अवर्ण इति किम् । अयं विट् वैश्यस्तृतीयो वर्णः । सास्नादय स्त्रियां भवन्ति । सास्ना गलकम्बलः । वीथी गृहावयवः । नीवी मूलबन्धनम् । भेरी वाद्यविशेषः । मञ्जूषा पेटा पुस्तकादीनाम् । गण्डूषा हस्तजलम् । मूषा सुवर्णधमनिका । परिषत्सभा । गुहा पर्वतस्य ।तृष्णा कृपा पताका रथ्या कृषिश्च काकिणी चैव ।एते स्त्रियां भवन्ति प्रतिशीरा धारा च नेमिश्च ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
विस्रसेशावली भङ्ग्यायतिः शाला ( शिला?) च सर्वला ।साचिः सूची रुचिः खानिः खनिः खारी क्लमिः कृषिः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवेह वृत्तयः ।अथ सेवाश्ववृत्तिः स्यात् स्त्रियां कृषिश्च कर्षणम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
genderस्त्रीfem.
शुश्रूषाऽन्वेषणा कुम्भाव्रज्या चर्या कृषिर्लिपिः ।पताका कतिका धूली रचनासन्ततिर्षृतिः ॥
अनुष्टुप्
genderस्त्रीfem.
सेतुर्दुर्गं वनादानं खनिक्षेत्रं वणिक्पथः ।गजबन्धः कृषिः शून्यदेशानां च निवेशनम् ॥ १२७४ ॥
अनुष्टुप्
genderस्त्रीfem.
वृत्तयः स्त्री कृषिः पाशुपाल्यं वाणिज्यमित्यमूः ।उञ्छो धान्यश आदानं कणिशोपार्जनं शिलम् ॥ १३९५ ॥
अनुष्टुप्
genderस्त्रीfem.
तत्राष्टवर्ग आरंभः कृषिः सेतुर्वणिक्पथः ।खनिस्थानं वनच्छेदो दुर्गं शून्यनिवेशनम् ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋतं तदुभयं स्त्री तु कृषिः क्ली प्रमृतानृते ।सत्यानृतं तु वाणिज्यं वणिज्या वणिजा स्त्रियौ ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
कृषि as a meaning in nānārtha verses
- धरणिकोश अनृतअनृतं कृषावसत्ये स्यादिङ्गितं गतिचेष्टयोः । भाविते रोपितप्राप्ते उदिते भा[35]षितोद्गते ॥ Dharaṇikośa 15.1.24
- धरणिकोश वार्त्तावार्त्ते फल्गुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि । वार्त्ते तु वर्तनोदन्ते वार्ता कृषिकृतौ तथा ॥ Dharaṇikośa 15.3.2
- कोषकल्पतरु अनृतअयाचिते स्याच्च घृते सुधायां स्त्रियां गुडूच्यामलकाभयासु । असत्यकृष्योरनृतं हरौ तु प्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥ Koṣakalpataru 6.16.70
- नानार्थार्णवसंक्षेप वार्ताद्वयोस्तु जलमार्जारे वार्ता तु स्यात् स्त्रियामियम् । वार्ताक्यां वर्तनोदन्तकृषिप्रभृतिवृत्तिषु ॥ १२१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1213
- नानार्थार्णवसंक्षेप अनृतअनृतं तु कृषौ क्लीबमसत्ये(तु च) त्रिषु त्वदः । असत्ययुक्तेऽप्यनृतेऽप्यपुंस्त्वे त्वनृता स्त्रियाम् ॥ ११३ ॥ Nānārthārṇavasaṃkṣepa 4.113
- शब्दरत्नावली वार्त्तावार्त्ता वातिङ्गने कृष्यां वृत्तान्ते वर्चनेऽपि च । निःसारारोग्ययोर्वार्तं वर्त्तिर्मल्लीरुजे स्त्रिषु ॥ Śabdaratnāvalī 7.16.52
- शब्दरत्नावली अमृतअमृतामलकीपथ्यागुडूचीमागधीषु च । अमृतन्तु भवेत्कृष्यामसत्ये च नपुंसकम् ॥ Śabdaratnāvalī 7.16.72
- त्रिकाण्डशेष अनृतक्षिप्राद्रिभेदयोरतः स्याल्लाजेष्वपि चाक्षतम् । कृषावसत्येऽप्यनृतमाकृतिर्जातिरूपयोः ॥ १४७ ॥ Trikāṇḍaśeṣa 3.3.147
- वैजयन्ती अनृतअधरोऽनूर्ध्वहीनोष्ठेष्वनृतं वितथे कृषौ । आश्रमोऽस्त्री मुनिस्थाने ब्रह्मचर्यादिके मठे ॥ १६ ॥ Vaijayantī 7.5.16