कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गरुडध्वज

garuḍadhvajaपुं · masc.

In 6 kośas: 6 synonym verses, 4 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.22
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
अनुष्टुप्
विष्णुपुंनारायणपुंकृष्णपुंवैकुण्ठपुंविष्टरश्रवस्पुंदामोदरपुंहृषीकेशपुंकेशवपुंमाधवपुंस्वभूपुंदैत्यारिपुंपुण्डरीकाक्षपुंगोविन्दपुंगरुडध्वजपुंपीताम्बरपुंअच्युतपुंशार्ङ्गिन्पुंविष्वक्सेनपुंजनार्दनपुंउपेन्द्रपुंइन्द्रावरजपुंचक्रपाणिपुंचतुर्भुजपुंपद्मनाभपुंमधुरिपुपुंवासुदेवपुंत्रिविक्रमपुंदेवकीनन्दनपुंशौरिपुंश्रीपतिपुंपुरुषोत्तमपुंवनमालिन्पुंबलिध्वंसिन्पुंकंसारातिपुंअधोक्षजपुंविश्वम्भरपुंकैटभजित्पुंविधुपुंश्रीवत्सलाञ्छनपुंपुराणपुरुषपुंयज्ञपुरुषपुंनरकान्तकपुंजलशायिन्पुंविश्वरूपपुंमुकुन्दपुंमुरमर्दनपुंवसुदेवपुंआनकदुन्दुभिपुं
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.13 · p. 9
विष्णौ कृष्ण-जनार्द्दनाऽच्युत-हरि-श्रीवत्सलक्ष्माऽजित-श्रीवत्स-क्रतुपूरुषाऽसुररिपु-श्रीश-स्वभू-माधवाः ।वैकुण्ठः पुरुषोत्तमो मुरभिदो विश्वंभरः श्रीधरोगोविन्दो गरुडध्वजो गिरिधरः पीताम्बरः केशवः ॥ १३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.393 · p. 27
गदी नारायणो विष्णुर्वैकुण्ठो विष्टरश्रवाः ।त्रिविक्रमो वासुदेवः कौस्तुभी गरुडध्वजः ॥ ३९३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.15 · p. 2
अब्धिशायी शेषशायी श्रीधरो गरुडध्वजः ।जलशायी यज्ञमूर्त्यः[र्तिः] पुराणपुरुषः स्वभूः ॥ १५ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.28 · p. 3
नारायणो हृषीकेशो माधवो गरुडध्वजः ।गोविन्दः पुण्डरीकाक्ष उपेन्द्रो विष्टरश्रवाः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.14 · p. 4
शतानन्दः शतावर्तो युगावर्तः सुरोत्तमः ।कालकुन्थो रन्तिदेवः केशवो गरुडध्वजः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.

गरुडध्वज as a meaning in nānārtha verses

  • कोषकल्पतरु गोविन्दप्रह्लादः प्रमदे तथा दितिसुते दायाद उक्तः सुत- ज्ञात्योच्छाग बिडाल केकिषु पुनर्मेनाद उक्तो बुधैः । वृद्ध्याजीवनके कुसीद * * * त्रय्यां कुसीदप्रदे गोविन्दो गरुडध्वजे सुरगुरौ गोष्ठाधिपे वाच्यवत् ॥ ३५ ॥ Koṣakalpataru 6.19.35
  • कोषकल्पतरु विधुबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
  • शब्दरत्नावली रन्तिदेवपरस्त्रीतनये चापि तथा मागेधभिद्यपि । पुटग्रीवस्ताम्रकुम्भे गर्गर्यां न नपुंसकम् ॥ बलदेवः समीरे स्याद्बलरामे च पुंस्ययम् । रन्तिदेवो नृपभिदि स्मरे च गरुडध्वजे ॥ Śabdaratnāvalī 7.29.40
  • शब्दरत्नावली पुनर्वसुपुनर्वसुर्भभेदे स्याद्द्वयोः कात्यायने पुमान् । लोकभेदे धनारम्भे गरुडध्वजशूलिनोः ॥ Śabdaratnāvalī 7.32.48