कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

माधव

mādhavaपुं · masc.

In 21 kośas: 41 synonym verses, 11 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.153 · p. 10
चैत्रो मधुश्चैत्रिकश्च वैशाखे राधमाधवौ ॥ १५३ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.132 · p. 13
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवोदाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
शार्दूलविक्रीडितम्
विष्णुपुंजिष्णुपुंजनार्दनपुंहरिपुंहृषीकेशपुंअच्युतपुंकेशवपुंदाशार्हपुंपुरुषोत्तमपुंअब्धिशयनपुंउपेन्द्रपुंअजपुंइन्द्रानुजपुंविष्वक्सेनपुंनरायणपुंजलशयपुंनारायणपुंश्रीपतिपुंदैत्यारिपुंपुराणपुरुषपुंयज्ञपुरुषपुंतार्क्ष्यध्वजपुंअधोक्षजपुंगोविन्दपुंषड्बिन्दुपुंमुकुन्दपुंकृष्णपुंवैकुण्ठपुंपद्मेशयपुंपद्मनाभपुंवृषाकपिपुंमाधवपुंवासुदेवपुंविश्वंभरपुंश्रीधरपुंविश्वरूपपुंदामोदरपुंशौरिपुंसनातनपुंविधुपुंपीताम्बरपुंमार्जपुंजिनपुंकुमोदकपुंत्रिविक्रमपुंजह्नुपुंचतुर्भुजपुंपुनर्वसुपुंशतावर्तपुंगदाग्रजपुंस्वभूपुंमुञ्जकेशिन्पुंवनमालिन्पुंपुण्डरीकाक्षपुंबभ्रुपुंशशबिन्दुपुंवेधस्पुंपृश्निशृङ्गपुंधरणीधरपुंआत्मभूपुंपाण्डवायनपुंसुवर्णबिन्दुपुंश्रीवत्सपुंदेवकीसूनुपुंगोपेन्द्रपुंविष्टरश्रवस्पुंसोमसिन्धुपुंजगन्नाथपुंगोवर्धनधरपुंयदुनाथपुंगदाभृत्पुंशार्ङ्गभृत्पुंचक्रभृत्पुंश्रीवत्सभृत्पुंशङ्खभृत्पुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.22
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
अनुष्टुप्
विष्णुपुंनारायणपुंकृष्णपुंवैकुण्ठपुंविष्टरश्रवस्पुंदामोदरपुंहृषीकेशपुंकेशवपुंमाधवपुंस्वभूपुंदैत्यारिपुंपुण्डरीकाक्षपुंगोविन्दपुंगरुडध्वजपुंपीताम्बरपुंअच्युतपुंशार्ङ्गिन्पुंविष्वक्सेनपुंजनार्दनपुंउपेन्द्रपुंइन्द्रावरजपुंचक्रपाणिपुंचतुर्भुजपुंपद्मनाभपुंमधुरिपुपुंवासुदेवपुंत्रिविक्रमपुंदेवकीनन्दनपुंशौरिपुंश्रीपतिपुंपुरुषोत्तमपुंवनमालिन्पुंबलिध्वंसिन्पुंकंसारातिपुंअधोक्षजपुंविश्वम्भरपुंकैटभजित्पुंविधुपुंश्रीवत्सलाञ्छनपुंपुराणपुरुषपुंयज्ञपुरुषपुंनरकान्तकपुंजलशायिन्पुंविश्वरूपपुंमुकुन्दपुंमुरमर्दनपुंवसुदेवपुंआनकदुन्दुभिपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.16
वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ।आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.114 · p. 14
चैत्रादिमासा मधुमाधवौ द्वौ,ततः परं शुक्रशुची क्रमेण ।नभोनभस्यौ कथिताविषोर्जौ,सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
उपजातिः
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त मासनामानि Gaṇitanāmamālā 15.78 · p. 5
चैत्रादि नाम मासानां बुधैः संज्ञा प्रकीर्तिता ।मधुश्च माधवः श्रुक्रशुचिर्नभो नभस्यवै ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्न (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.24 · p. 10
सुखोदयः सर्वमुखो गुणीकृतशिलीमुखः ।तस्य चापेऽथ तूणीरे मधुर्माधव इत्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.56 · p. 95
शैनेयः सात्यकिस्तुल्यौ सात्वतोऽपि च माधवः ।सत्राजितश्च सत्रजित् सत्यभामापितर्यथ ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.87 · p. 211
हालाहलोऽस्त्रियां चापि माधवी माधवोपि च ।मदो मध्वासवस्तुल्यौ मधु माध्वीक इत्ययम् ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.90 · p. 258
गुडपुष्पो रोध्रपुष्पो वनप्रस्थश्च माधवः ।मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.59 · p. 412
चैत्रश्च चैत्रिकोऽथ द्वौ वैशाखे राधमाधवौ ।उत्सरः स्यादथ ज्येष्ठे ज्यैष्ठश्च खरकोमलः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.1 · p. 451
यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः ।पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.63 · p. 468
आदीनवावयवयोर्दावमाधवयोरपि ।पणवध्रुवहावानां पुरोडाशांशयोरपि ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.13 · p. 9
विष्णौ कृष्ण-जनार्द्दनाऽच्युत-हरि-श्रीवत्सलक्ष्माऽजित-श्रीवत्स-क्रतुपूरुषाऽसुररिपु-श्रीश-स्वभू-माधवाः ।वैकुण्ठः पुरुषोत्तमो मुरभिदो विश्वंभरः श्रीधरोगोविन्दो गरुडध्वजो गिरिधरः पीताम्बरः केशवः ॥ १३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.81 · p. 48
[31b]फाल्गुनाडश्च(श्चि)त्रिकस्तु चैत्रः पुष्पाकरो मधुः ।राधमाधववैशाखा ज्येष्ठामूलीयकः पुनः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 141
लोध्रपुष्पो माधवश्च मधुपुष्पो मृगप्रियः ।मध्वङ्गस्तीक्ष्णसारश्च भोग्यो मधुकलो मधुः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 183
उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः ।स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् ।सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् ।रामठं सूपधूपि स्याज्जरणं गूढगन्धि च ।तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.63 · p. 300
शार्करो माधवो गौडः सितो मधुगुडादियुक् ।जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.24 · p. 97
अवयव-स्तुव-रौरव-माध[223a]वाःपणव-याव-दवाः शिक्-दीदिवी ।ग्रीव-पवी अविराखुजकम्बलेस्थवि-कृवी स्व-निघृष्व-वि-जीर्वयः ॥ २४ ॥
metre not recognisednearly द्रुतविलम्बितम्: pāda 1, syllable 1 ग्री (wrong syllable)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.110 · p. 61
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.143 · p. 79
माधवस्त्वेकवदनो विजयी शस्त्रधारणः ।पुत्रञ्जीवे त्वक्षफलः कुमारजीवनामकः ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.4 · p. 6
देवकीनन्दनः सोमसिन्धुश्रीवत्समाधवाः ।पद्मनाभः पद्मशयो वनमाली पुनर्वसुः ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.140 · p. 22
तपा माघस्त्वथ फाल्गुनिकः फाल्गुन इत्यपि ।तपस्योऽथ मधुश्चैत्रचैत्रिकौऽप्यथ माधवः ॥ १४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.27 · p. 214
कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः ।निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.139 · p. 19
वैशाखे घर्मदस्तुण्डी राधो माधव इत्यपि ।ज्येष्ठे प्रसिद्धश्चाषाढे तूत्तमः शुचिरित्यपि ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.622 · p. 106
स्मृतो मधुपको द्राक्षाकृतमद्ये च माधवः ।धान्याम्बुकृतमद्ये तु धातकीपुष्पमिश्रिते ॥ ६२२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.20 · p. 35
शतानन्दो मुरारातिः श्रीधरो यज्ञपूरुषः ।आदिदेवो हृषीकेशः केशवो माधवः स्वभूः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.11 · p. 2
श्रीपतिः केशवः कृष्णो गोविन्दो माधवोऽच्युतः ।दामोदरो दैत्यरिपुर्विष्णुर्नारायणो हरिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.148 · p. 21
चैत्रस्तु चैत्रिकश्चैव मधुश्च फाल्गुनानुजः ।कामसखस्तथा मोहनिकराधस्तु माधवः ॥ १४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.289 · p. 38
माधवो वासुदेवश्च मुञ्जकेशी कुमोदकः ।तमोघ्नश्च चतुर्दष्ट्रः त्रिधामाऽपि त्रिविक्रमः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.28 · p. 3
नारायणो हृषीकेशो माधवो गरुडध्वजः ।गोविन्दः पुण्डरीकाक्ष उपेन्द्रो विष्टरश्रवाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.285 · p. 20
वैशाखे माधवो राधो ज्यैष्ठे ज्येष्ठश्च शुक्रवत् ।भवेदाषाट आसाटोऽप्यषाटः शुचिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.19 · p. 3
विष्णुः श्रीपतिरच्युतोऽसुररिपुर्विश्वंभरः केशवोवैकुण्ठः पुरुषोत्तमो मधुरिपुर्नारायणो माधवः ।शार्ङ्गी तार्क्ष्यरथः समुद्रशयनः पीताम्बरः श्रीधर-श्चक्री कैटभजित्सरोजनयनोऽनन्तो मुकुन्दो हरिः ॥ १९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.249 · p. 34
मासश्चैत्रो यथैवं स्युर्वैशाखप्रमुखाः परे ।चैत्रे मधुश्चैत्रिकोऽथ वैशाखे राधमाधवौ ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1557 · p. 188
सरको मेदना कल्या माधवी मतिमोहिनी ।तद्भेदा माधवः पैष्टी गोली माध्वी मधूलिका ॥ १५५७ ॥
अनुष्टुप्
genderपुंmasc.
भ्रूमध्यं माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।शान्तः कान्तः कामिनी च कामो विघ्नविनायकः ।नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.5 · p. 35
माधवः सूक्ष्मसंज्ञश्च विद्या दक्षिणलोचनम् ।गन्धर्वः पाञ्चजन्यश्च इ-कारश्च मखाङ्कुरः(न्तकः) ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.4 · p. 41
दक्षाक्षो माधवः सूक्ष्मः पाञ्चजन्यो मखांकुरः ।विड्बिन्दुः परमेशश्च गन्धर्वः परमः स्मृतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
माधवः सूक्ष्मविद्याऽग्निर्द्विबिन्दुर्दक्षलोचनः ।गन्धर्वः पाञ्चजन्यस्तु इकारस्तु मखाङ्कुरः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.49 · p. 140
मध्वासवोऽसितः सेव्यः शार्करो माधवोऽस्त्रियाम् ।मैरेयमासवो धात्रीधातकीगुडवारिभिः ॥ ४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.61 · p. 244
धुर्तूरे सर्पभेदे च मातुलो मदनः पुनः ।सिक्थे वसन्ते धुर्तुरे कन्दर्पेऽप्यथ माधवः ॥ ६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास वश्लोकः Dharaṇikośa 28.3.10 · p. 210
माधवौ विष्णुवैशाखौ वसन्तयादवावपि ।माधवी मदिरा प्रोक्ता माधवी चातिमुक्तके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.23 · p. 362
ना संश्रवक्लेशनयोर्वचःस्थेत्रये रिपौ शात्रव आदिलिङ्गः ।भावे गणे च द्विषतां द्वयोनो-ऽथो माधवः केशवराधमासोः ॥ २३ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.24 · p. 362
पुष्पाकरे स्त्री त्वतिमुक्तमद्य-दूतीषु च स्यान्मधुशर्करायाम् ।लोध्रे मुनौ गालव आर्तवं तुऋतूद्भवे स्त्रीरजसि प्रसूने ॥ २४ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1392 · p. 169
मगधानां तु ना राज्ञि जीरकेऽप्यथ माधवः ।विष्णौ वैशाखमासे च वसन्ते चाजयो नरि ॥ १३९२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1393 · p. 169
मध्वासवसमाख्ये तु मद्यभेदे नृशण्डयोः ।स्त्रियां तु माधवी पुष्पवल्लिजात्यन्तरे भवेत् ॥ १३९३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1396 · p. 169
अर्थत्वेनास्य राज्ञस्तु मधोः पुत्रादिषु त्रिषु ।मार्ताण्डो रभसेनोक्तः खगे दंष्ट्रिणि च द्वयोः ॥ १३९६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र वत्रिः Śivakoṣa 24.2.506 · p. 46
क्लीबं जरणेऽथाम्रेऽश्वत्थे सिक्थे च किंशुके पुंसि ।शताह्वा मधुसम्भूतशर्कराजातिपोत्रिषु ॥ ५०६ ॥
अनुष्टुप्metre not read in every line
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.33 · p. 287
अथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् ।फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥माधवो यादवे विष्णौ मधुवैशाखयोरपि ।माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः ।राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे ।वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2143 · p. 259
मासे मद्ये हरौ पुष्पसमयेऽपि च माधवः ।धुस्तूरे सर्पभेदे च मातृभ्रातरि मातुलः ॥ २१४३ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.421 · p. 241
माधवौ हरिवैशाखौ राजीवो मृगमीनयोः ।रौरवो घोरनरकौ लवश्छेदनलेशयोः ॥ ४२१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.62 · p. 244
विष्णौ वसन्ते वैशाखे मरूकौ भेककेकिनौ ।मिहिरा वायुमेघार्का यज्वरौ तु हयाध्वरौ ॥ ६२ ॥
अनुष्टुप्
doubtful

माधव as a meaning in nānārtha verses

  • धरणिकोश वामनछर्दनोऽलम्बुषे निम्बे छर्दनं वमनं मतम् । वामनो माधवेऽङ्कोठे खर्वे दक्षिणदिग्गजे ॥ Dharaṇikośa 19.2.35
  • कोषकल्पतरु राधस्यान्माधवे मासि नरीह राधः स्त्रियां तु विद्युद्भभिदोश्च गोप्याम् । भूम्यामलक्यां च दुरालभायां स्याच्चित्रयन्त्रोऽपि धनुर्धराणाम् ॥ ५१ ॥ Koṣakalpataru 6.20.51
  • तन्त्राभिधान इआ प्रतिष्ठा मुखं दीर्घं नारायणोऽप्यनन्तकः । इ-कारो माधवः सूक्ष्मो दक्षनेत्रञ्च लोचनम् ॥ २ ॥ Tantrābhidhāna 1.2
  • तन्त्राभिधान लल-श्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः । बलानुजः पिनाकीशो व्यापको मांससंज्ञकः ॥ १४८ ॥ Tantrābhidhāna 2.45.148