कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वसुदेव

vasudevaपुं · masc.

In 12 kośas: 11 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.223 · p. 13
वसुदेवो भूकश्यपो दुन्दुरानकदुन्दुभिः ॥ २२३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.22
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
अनुष्टुप्
विष्णुपुंनारायणपुंकृष्णपुंवैकुण्ठपुंविष्टरश्रवस्पुंदामोदरपुंहृषीकेशपुंकेशवपुंमाधवपुंस्वभूपुंदैत्यारिपुंपुण्डरीकाक्षपुंगोविन्दपुंगरुडध्वजपुंपीताम्बरपुंअच्युतपुंशार्ङ्गिन्पुंविष्वक्सेनपुंजनार्दनपुंउपेन्द्रपुंइन्द्रावरजपुंचक्रपाणिपुंचतुर्भुजपुंपद्मनाभपुंमधुरिपुपुंवासुदेवपुंत्रिविक्रमपुंदेवकीनन्दनपुंशौरिपुंश्रीपतिपुंपुरुषोत्तमपुंवनमालिन्पुंबलिध्वंसिन्पुंकंसारातिपुंअधोक्षजपुंविश्वम्भरपुंकैटभजित्पुंविधुपुंश्रीवत्सलाञ्छनपुंपुराणपुरुषपुंयज्ञपुरुषपुंनरकान्तकपुंजलशायिन्पुंविश्वरूपपुंमुकुन्दपुंमुरमर्दनपुंवसुदेवपुंआनकदुन्दुभिपुं
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.27 · p. 4
कौस्तुभो वक्षसि मणिः श्रीवत्सोऽस्य च लाञ्छनम् ।वसुदेवस्तु कथितो बुधैरानकदुन्दुभिः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.26 · p. 454
वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ।भूकश्यपः क्षित्यदितिर्देवकी दैवकी च सूः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.21 · p. 10
वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ।भूकश्यपोऽथ देवक्या वैकुण्ठा दैवकीत्यपि ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.17 · p. 8
भुजमध्ये पिता वास्य दुन्दुर्भूकश्यपोऽपि च ।वसुदेवस्तथा पूर्वानको दुन्दुभिरेव सः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.303 · p. 40
पिता तु वसुदेवोऽस्य स एवानकदुन्दुभिः ।दिन्दुः भूकश्यपश्चेति कथ्यते कोविदैः सदा ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.39 · p. 4
मथुरेशो द्वारकेशो रन्तिदेवो वृषाकपिः ।वसुदेवः कृष्णपिता शूर आनकदुन्दुभिः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कृ (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.238 · p. 208
मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने ।वसुदेवा वासुदेवा अर्द्धचक्रिषु सम्मताः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.35 · p. 5
कालिन्दी लक्ष्मणा मित्रविन्दा सत्याष्टयोषितः ।वसुदेवः पिता तस्य स एवानकदुन्दुभिः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.26 · p. 5
शैनिः कंसरिपुः शौरिः सारथिस्तस्य दारुकः ।वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.

वसुदेव as a meaning in nānārtha verses