गोविन्द
govindaपुं · masc.In 16 kośas: 25 synonym verses, 7 as a nānārtha head word, 7 as a meaning of another word.
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवोदाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
शार्दूलविक्रीडितम्
विष्णुपुंजिष्णुपुंजनार्दनपुंहरिपुंहृषीकेशपुंअच्युतपुंकेशवपुंदाशार्हपुंपुरुषोत्तमपुंअब्धिशयनपुंउपेन्द्रपुंअजपुंइन्द्रानुजपुंविष्वक्सेनपुंनरायणपुंजलशयपुंनारायणपुंश्रीपतिपुंदैत्यारिपुंपुराणपुरुषपुंयज्ञपुरुषपुंतार्क्ष्यध्वजपुंअधोक्षजपुंगोविन्दपुंषड्बिन्दुपुंमुकुन्दपुंकृष्णपुंवैकुण्ठपुंपद्मेशयपुंपद्मनाभपुंवृषाकपिपुंमाधवपुंवासुदेवपुंविश्वंभरपुंश्रीधरपुंविश्वरूपपुंदामोदरपुंशौरिपुंसनातनपुंविधुपुंपीताम्बरपुंमार्जपुंजिनपुंकुमोदकपुंत्रिविक्रमपुंजह्नुपुंचतुर्भुजपुंपुनर्वसुपुंशतावर्तपुंगदाग्रजपुंस्वभूपुंमुञ्जकेशिन्पुंवनमालिन्पुंपुण्डरीकाक्षपुंबभ्रुपुंशशबिन्दुपुंवेधस्पुंपृश्निशृङ्गपुंधरणीधरपुंआत्मभूपुंपाण्डवायनपुंसुवर्णबिन्दुपुंश्रीवत्सपुंदेवकीसूनुपुंगोपेन्द्रपुंविष्टरश्रवस्पुंसोमसिन्धुपुंजगन्नाथपुंगोवर्धनधरपुंयदुनाथपुंगदाभृत्पुंशार्ङ्गभृत्पुंचक्रभृत्पुंश्रीवत्सभृत्पुंशङ्खभृत्पुं
genderपुंmasc.
genderपुंmasc.
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
अनुष्टुप्
विष्णुपुंनारायणपुंकृष्णपुंवैकुण्ठपुंविष्टरश्रवस्पुंदामोदरपुंहृषीकेशपुंकेशवपुंमाधवपुंस्वभूपुंदैत्यारिपुंपुण्डरीकाक्षपुंगोविन्दपुंगरुडध्वजपुंपीताम्बरपुंअच्युतपुंशार्ङ्गिन्पुंविष्वक्सेनपुंजनार्दनपुंउपेन्द्रपुंइन्द्रावरजपुंचक्रपाणिपुंचतुर्भुजपुंपद्मनाभपुंमधुरिपुपुंवासुदेवपुंत्रिविक्रमपुंदेवकीनन्दनपुंशौरिपुंश्रीपतिपुंपुरुषोत्तमपुंवनमालिन्पुंबलिध्वंसिन्पुंकंसारातिपुंअधोक्षजपुंविश्वम्भरपुंकैटभजित्पुंविधुपुंश्रीवत्सलाञ्छनपुंपुराणपुरुषपुंयज्ञपुरुषपुंनरकान्तकपुंजलशायिन्पुंविश्वरूपपुंमुकुन्दपुंमुरमर्दनपुंवसुदेवपुंआनकदुन्दुभिपुं
genderपुंmasc.
गोविन्दो धरणिधरः सुपर्णकेतु-र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।दैत्यारिर्मधुमथनो रथाङ्गपाणि-र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
प्रहर्षिणी
genderपुंmasc.
व्रजः स्याद्गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
गोविन्दो गोष्वधिकृते महिषस्तु रजस्वलः ।स्याद्धंसकालीतनयो दंशपर्यायभीरुकः ॥ ४३३ ॥
अनुष्टुप्
genderपुंmasc.
पाखण्डकर्त्ता गोविन्दो द्वादशार्चिश्च दीदिविः ।वाग्म्याङ्गिरसपारुष्याश्चक्षाश्चित्रशिखण्डजः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
यादवेन्द्रो दैवकेयो गोविन्दः पाण्डवायनः ।बलानुजो गोकुलेशो दाशार्हः स्मरदेहकृत् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
विष्णौ कृष्ण-जनार्द्दनाऽच्युत-हरि-श्रीवत्सलक्ष्माऽजित-श्रीवत्स-क्रतुपूरुषाऽसुररिपु-श्रीश-स्वभू-माधवाः ।वैकुण्ठः पुरुषोत्तमो मुरभिदो विश्वंभरः श्रीधरोगोविन्दो गरुडध्वजो गिरिधरः पीताम्बरः केशवः ॥ १३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गोविन्दं रामकूष्माण्डं चित्रकूष्माण्डमित्यपि ।सर्वच्छत्रं भूमिकन्दं शिलीध्रं कवकं च तत् ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
गोविन्दोऽधिकृतो गोषु स तु पञ्चगस्वकः ।यस्य स्वं पञ्च गावः स्युर्गच्छति त्वनु गुह्यतः ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
गोमान्गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ।नैचकी गोशिरोदेशः सास्ना तु गलकम्बलः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
मुकुन्दाच्युतदाशार्हगोविन्दपुरुषोत्तमाः ।इन्द्रानुजो जह्नुविष्वक्सेनश्रीधरवेधसः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
श्रीपतिः केशवः कृष्णो गोविन्दो माधवोऽच्युतः ।दामोदरो दैत्यरिपुर्विष्णुर्नारायणो हरिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
प्रसिद्धोऽधिकृतो गोषु गोविन्दः कथ्यते बुधैः ।जाबालस्त्वजजीविको बर्करस्य च पालकः ॥ १४९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable)
genderपुंmasc.
नारायणो हृषीकेशो माधवो गरुडध्वजः ।गोविन्दः पुण्डरीकाक्ष उपेन्द्रो विष्टरश्रवाः ॥
अनुष्टुप्
genderपुंmasc.
दामोदरो हृषीकेशो वनमाली गदाधरः ।गोविन्दोऽधोक्षजः कृष्णो विश्वरूपश्चतुर्भुजः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
गोमान् गोमी गवां स्वामी गोविन्दोऽधिकृतो गवाम् ।गोसंख्यो वल्लवो गोपगोपालाभीरगोदुहः ॥ ७६८ ॥
अनुष्टुप्
genderपुंmasc.
ई-स्त्रिमूर्त्तिर्महामाया लोलाक्षी वामलोचनम् ।गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
गोविन्दश्च त्रिमूर्तीशः शान्तिः स्याद्वामलोचनम् ।नृसिंहास्त्रं तथा माया ई-कारोऽपि सुरेश्वरः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वामाक्षिश्च त्रिमूर्तिश्च महामाया सुरेश्वरः ।इन्द्रमूर्तिर्नृसिंहास्त्रं स्मृतो गोविन्द ई-स्वरः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नृसिंहास्त्रं शान्ति-माये गोविन्दश्च सुरेश्वरः ।त्रिमूर्तिर्वामनयनो वह्निरीकारकः स्मृतः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
पद्मनाभो विश्वरूपः कृष्णो हरिरसंपुषः ।कैटभारिर्ब्रह्मनाभो गोविन्दो मधुसूदनः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कर्णः कर्णविहीनः स्यात् पण्डस्तु च्छिन्नपुच्छकः ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
गोपीथो गोनिपाने च तीर्थे कालान्तरेऽपि च ।गोकीलो मुसले सीरे गोविन्दस्त्वपि शार्ङ्गिणि ॥ ८२ ॥
अनुष्टुप्
meaningsशार्ङ्गिन्
गवामधिकृते चाथ गोसर्जः सर्जने गवाम् ।प्रभाते गोरसन्तु स्यात् कालशेये च दध्नि च ॥ ८३ ॥
अनुष्टुप्
meaningsगवामधिकृत
doubtful
कपर्दाः स्यात्पशुपतिजटाजूटे वराटके ।कर्णान्दु कर्णयाक्ष्यान्तु स्त्रियामुत्क्षिप्तिकासु च ॥कामदा स्त्री कामधेनौ वाच्यवत्कामदातरि ।कुमुदं कैरषे रक्तपद्मे पुंसि तु दिग्गजे ॥नागे वानरभेदे स्त्रीगर्भ्भायां कुम्भिकौषधौ ।गोष्पदं गोपदच्छिद्रे तथा गोगतिगोचरे ॥गोविन्दस्तु गवाध्यक्षे केशवे च बृहस्पतौ ॥
अनुष्टुप्
गोविन्द as a meaning in nānārtha verses
- धरणिकोश स्वभूभूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः । प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥ Dharaṇikośa 23.1.1
- कोषकल्पतरु वनमालिन्वनमाली गोविन्दे वाराही तु स्त्रियां प्रोक्ता । काकाजयोरपि चिरंजीवी स्याद्विघ्नकारी तु ॥ ७० ॥ Koṣakalpataru 6.21.70
- नानार्थार्णवसंक्षेप शार्ङ्गिन्शार्ङ्गी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु । शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1358
- नानार्थार्णवसंक्षेप श्रीमत्श्रीमांस्तु पुंसि गोविन्दे कुबेरे गृहकेतुषु । इट्चराख्यबलीवर्दे कदम्बतिलकाख्ययोः ॥ १३७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1377
- शब्दरत्नावली अच्युतअजितः केशवे पुंसि त्रिषु च स्यादनिर्जिते । अच्युतः पुंसि गोविन्दे वाच्यलिङ्गे स्थिरेऽपि च ॥ Śabdaratnāvalī 7.16.73
- शब्दरत्नावली वनमालिन्गोविन्दे वनमाली स्याद्वाराह्यां वनमालिनी । राज्ञि वैषयिके पुंसि विषयेध्मास्मरेऽपि च ॥ Śabdaratnāvalī 7.20.136
- तन्त्राभिधान ईई-र्गोविन्दस्त्रिमूर्तिः स्याद् वामाक्षि कमला कला । माया लक्ष्मी रतिः शान्तिर्वैष्णवी बिन्दुमालिनी ॥ ३ ॥ Tantrābhidhāna 1.3