कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विष्टरश्रवस्

viṣṭaraśravasपुं · masc.

In 13 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.132 · p. 13
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवोदाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
शार्दूलविक्रीडितम्
विष्णुपुंजिष्णुपुंजनार्दनपुंहरिपुंहृषीकेशपुंअच्युतपुंकेशवपुंदाशार्हपुंपुरुषोत्तमपुंअब्धिशयनपुंउपेन्द्रपुंअजपुंइन्द्रानुजपुंविष्वक्सेनपुंनरायणपुंजलशयपुंनारायणपुंश्रीपतिपुंदैत्यारिपुंपुराणपुरुषपुंयज्ञपुरुषपुंतार्क्ष्यध्वजपुंअधोक्षजपुंगोविन्दपुंषड्बिन्दुपुंमुकुन्दपुंकृष्णपुंवैकुण्ठपुंपद्मेशयपुंपद्मनाभपुंवृषाकपिपुंमाधवपुंवासुदेवपुंविश्वंभरपुंश्रीधरपुंविश्वरूपपुंदामोदरपुंशौरिपुंसनातनपुंविधुपुंपीताम्बरपुंमार्जपुंजिनपुंकुमोदकपुंत्रिविक्रमपुंजह्नुपुंचतुर्भुजपुंपुनर्वसुपुंशतावर्तपुंगदाग्रजपुंस्वभूपुंमुञ्जकेशिन्पुंवनमालिन्पुंपुण्डरीकाक्षपुंबभ्रुपुंशशबिन्दुपुंवेधस्पुंपृश्निशृङ्गपुंधरणीधरपुंआत्मभूपुंपाण्डवायनपुंसुवर्णबिन्दुपुंश्रीवत्सपुंदेवकीसूनुपुंगोपेन्द्रपुंविष्टरश्रवस्पुंसोमसिन्धुपुंजगन्नाथपुंगोवर्धनधरपुंयदुनाथपुंगदाभृत्पुंशार्ङ्गभृत्पुंचक्रभृत्पुंश्रीवत्सभृत्पुंशङ्खभृत्पुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.22
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
अनुष्टुप्
विष्णुपुंनारायणपुंकृष्णपुंवैकुण्ठपुंविष्टरश्रवस्पुंदामोदरपुंहृषीकेशपुंकेशवपुंमाधवपुंस्वभूपुंदैत्यारिपुंपुण्डरीकाक्षपुंगोविन्दपुंगरुडध्वजपुंपीताम्बरपुंअच्युतपुंशार्ङ्गिन्पुंविष्वक्सेनपुंजनार्दनपुंउपेन्द्रपुंइन्द्रावरजपुंचक्रपाणिपुंचतुर्भुजपुंपद्मनाभपुंमधुरिपुपुंवासुदेवपुंत्रिविक्रमपुंदेवकीनन्दनपुंशौरिपुंश्रीपतिपुंपुरुषोत्तमपुंवनमालिन्पुंबलिध्वंसिन्पुंकंसारातिपुंअधोक्षजपुंविश्वम्भरपुंकैटभजित्पुंविधुपुंश्रीवत्सलाञ्छनपुंपुराणपुरुषपुंयज्ञपुरुषपुंनरकान्तकपुंजलशायिन्पुंविश्वरूपपुंमुकुन्दपुंमुरमर्दनपुंवसुदेवपुंआनकदुन्दुभिपुं
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.24 · p. 4
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.1 · p. 451
यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः ।पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.17 · p. 9
पाञ्चजन्यधर-विष्टरश्रवो-विश्वरूप-यमलार्जुनान्तकः ।राहुभेदि-शिशुपालहृद्धय-ग्रीवहृच्छकटहृद्बलानुजाः ॥ १७ ॥
रथोद्धता
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.7 · p. 7
जगन्नाथश्च गोपेन्द्रविष्टरश्रवसौ स्वभूः ।वध्याद्धेनुकचाणूरकालनेमिमुरादितः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.39 · p. 6
विष्वक्सेनो वरो गोप्ता मधुरो विष्टरश्रवाः ।वनमाली विधुर्विश्वंभरोङ्कारौ गदाग्रजः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.393 · p. 27
गदी नारायणो विष्णुर्वैकुण्ठो विष्टरश्रवाः ।त्रिविक्रमो वासुदेवः कौस्तुभी गरुडध्वजः ॥ ३९३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.16 · p. 2
अधोक्षजः कैटभजिद्बलिभिद्विष्टरश्रवाः ।देवकीनन्दनः शार्ङ्गी कंसारिर्नरकान्तकृत् ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.277 · p. 37
तार्क्ष्यध्वजः शतावर्तो जलशयो जलेशयः ।धीरोऽब्धिशयनो धन्वी सुधन्वा विष्टरश्रवाः ॥ २७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.28 · p. 3
नारायणो हृषीकेशो माधवो गरुडध्वजः ।गोविन्दः पुण्डरीकाक्ष उपेन्द्रो विष्टरश्रवाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.21 · p. 3
पद्मनाभः स्वभूरादिपुरुषो यज्ञपूरुषः ।जनार्दनो वासुदेवस्त्रिधामा विष्टरश्रवाः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.10 · p. 3
विष्णुर्नारायणो बभ्रुश्चक्रपाणिर्जनार्दनः ।दैत्यारिः पुण्डरीकाक्षस्त्रिककुद्विष्टरश्रवाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.