कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गरुडाग्रज

garuḍāgrajaपुं · masc.

In 8 kośas: 7 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.102 · p. 8
मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ ॥परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः ।अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ १०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.38
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.13 · p. 437
माठरः पिङ्गलो दण्डः सूर्यस्य परिपार्श्वगाः ।अस्य सूतोरुणोनूरुः काश्यपिर्गरुडाग्रजः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.96 · p. 17
विनतासूनुररुणोऽप्यनूरुर्गरुडाग्रजः ।प्लवगस्त्वर्करेतोजो रेवन्तो हयवाहनः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.87 · p. 14
सूरसूतोऽरुणश्चैव काश्यपिर्गरुडाग्रजः ।तथापि विनतासूनुः अनूरुश्चादयो मताः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.238 · p. 17
गरुडाग्रजो तार्क्ष्यश्च सूर्यसारथिरित्यपि ।अथ च्छाया च संज्ञा च सूर्यस्य वनिताद्वयम् ।च्छाया स्यान्मन्दजननी सवर्णा भूमयीत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.172 · p. 23
गरुडाग्रजस्तु काश्यपिररुणो मार्ताण्डसारथिरनूरुः ।गायत्री बृहती पङ्क्तिरुष्णिक्त्रिष्टुबनुष्टुभः ॥ १७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.

गरुडाग्रज as a meaning in nānārtha verses

  • कोषकल्पतरु तार्क्ष्यकक्ष्यार्थके स्यादथ वीक्ष्यमाहु- र्दृश्ये तथा विस्मयवाचकं च । पुमांस्तुरङ्गेऽपि च नर्तकेऽथ तार्क्ष्यः सुपर्णे गरुडाग्रजे च ॥ ४७ ॥ Koṣakalpataru 6.26.47
  • शब्दरत्नावली तार्क्ष्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17