कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काश्यपि

kāśyapiपुं · masc.

In 9 kośas: 15 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.102 · p. 8
मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ ॥परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः ।अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ १०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.231 · p. 14
गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३० ॥सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्वज्रतुण्डः ।पक्षिस्वामी काश्यपिः स्वर्णकायस्तार्क्ष्यः कामायुर्गरुत्मान्सुधाहृत् ॥ २३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.38
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.5 · p. 436
काश्यपिः काश्यपेयश्च काश्यपश्च गभस्तिमान् ।चित्रभानुर्भानुमांश्च ज्योतिष्मज्ज्योतिषौ भगः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.13 · p. 437
माठरः पिङ्गलो दण्डः सूर्यस्य परिपार्श्वगाः ।अस्य सूतोरुणोनूरुः काश्यपिर्गरुडाग्रजः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.25 · p. 10
सौपर्णेय-सुपर्ण-सर्पभुगहिद्विट्-तार्क्ष्य-वज्रानन-स्वर्गङ्गामृतहारि-काश्यपि-गरुत्मत्-सूरसूतानुजाः ॥ २५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.40 · p. 30
काश्यपिः प्लवगो वैनतेयो गरुडपूर्वजः ।हम्रो[?]नूरुश्च सूर्येन्द्वोर्ग्रासे स्वर्भानुकेतुतः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.21 · p. 8
गरुडः काश्यपिस्तार्क्ष्यः स्वर्णकायश्च शाल्मली ।सौपर्णेयः सुपर्णोऽपि कामायुर्विष्णुवाहनम् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.95 · p. 17
परिवेषस्तु परिधिरुपसूर्यकमण्डले ।मरीचिका मृगतृष्णा काश्यपिः सूर्यसारथिः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.368 · p. 26
नागान्तकः पक्षिसिंहः[ह्वः] काश्यपिर्विष्णुवाहनः ।गृध्रो दाक्षाय्यको दाक्षः पत्त्री शेनः शशादनः ॥ ३६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.87 · p. 14
सूरसूतोऽरुणश्चैव काश्यपिर्गरुडाग्रजः ।तथापि विनतासूनुः अनूरुश्चादयो मताः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.325 · p. 43
गरुडश्च गरुत्मान् वै कामायुः काश्यपिस्तथा ।सौपर्णेयः सुपर्णश्च वज्रिजिद्विष्णुवाहनम् ॥ ३२५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.57 · p. 5
द्विजराजः खगपतिस्तार्क्ष्यो भुजगदारणः ।काश्यपिर्गजकूर्माशी किराताशी खगेश्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.237 · p. 17
प्रतिदिवा प्रतिदिवो ज्योतिः पीथ इनोऽपि च ।एते सूर्यस्य पार्श्वस्था दण्डपिङ्गलमाठरा ।अरुणः काश्यपिः सूरसूतोऽनूरुस्तथाश्मनः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.172 · p. 23
गरुडाग्रजस्तु काश्यपिररुणो मार्ताण्डसारथिरनूरुः ।गायत्री बृहती पङ्क्तिरुष्णिक्त्रिष्टुबनुष्टुभः ॥ १७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.