कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तार्क्ष्य

tārkṣyaपुं · masc.

In 21 kośas: 33 synonym verses, 10 as a nānārtha head word, 25 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.231 · p. 14
गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३० ॥सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्वज्रतुण्डः ।पक्षिस्वामी काश्यपिः स्वर्णकायस्तार्क्ष्यः कामायुर्गरुत्मान्सुधाहृत् ॥ २३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.28 · p. 48
घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः ॥ १२३२ ॥गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.29
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ।नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.30 · p. 4
विहङ्गराजो गरुडो गरुत्मान्,तार्क्ष्यः सुपर्णीतनयः सुपर्णः ।स्याद्वैनतेयः पवनाशनाशः,सुरेन्द्रजित्कश्यपनन्दनश्च ॥ ३० ॥
उपजातिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.436 · p. 50
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.8 · p. 66
झषकेतुः सारधन्वा गुणदिन्दीवरः स्मरः ।गरुत्मान् गरुडस्तार्क्ष्य वज्रपक्षो महेन्द्रजित् ।विनतानन्दनः शौरिः पारिजातापहारकः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.29 · p. 10
सुपर्णितनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित् ।पन्नगारिर्विष्णुरथो विनायकविहङ्गमौ ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्वि (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.192 · p. 110
मरुद्रथो वासुदेवस्तार्क्ष्यो वातायनो हरिः ।शालिहोत्रश्चैकशफो दधिक्रा एतशोप्यरुट् ॥ १९२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चै (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.85 · p. 327
तत्रादौ प्रतुदा गृध्रस्तार्क्ष्यश्चिल्लो विजृम्भणः ।आतायी शबली दूरदर्शी स्याद्भुजगान्तकः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.14 · p. 437
अश्मनो रमणस्तार्क्ष्यो वैनतेयो जटायुसूः ।गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.10 · p. 8
पिता तार्क्ष्यः कश्यपश्च मारीचिरदितीपतिः ।बहुदन्त्यदितिश्च स्याद्विकुण्ठा च तथादिती ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.25 · p. 10
सौपर्णेय-सुपर्ण-सर्पभुगहिद्विट्-तार्क्ष्य-वज्रानन-स्वर्गङ्गामृतहारि-काश्यपि-गरुत्मत्-सूरसूतानुजाः ॥ २५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.38 · p. 130
रसगर्भं तार्क्ष्यशैलं तार्क्ष्यजं तार्क्ष्यमित्यपि ।रसाञ्जनं तुत्थदार्वी रसक्वाथसमुद्भवः ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 253
अर्वा तुरंगस्तुरगस्तुरंगमोगन्धर्व-वाहाश्व-हयाश्च घोटकः ।वाजी च मुद्गाशन-वीति-सप्तयस्तार्क्ष्यो हरि-श्रीसुत-सैन्धवा ययीः ॥ ८ ॥
इन्द्रवंशा
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.177 · p. 30
कुदुरो णेटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः ।पालकः पुरुलः पीतो माषाशी सिंहविक्रमः ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 129 · p. 65
सुपर्णो गरुडस्तार्क्ष्यो गरुत्मान् शकुनीश्वरः ।इन्द्रजिन्मन्त्रपूतात्मा वैनतेयो विषक्षयः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.21 · p. 8
गरुडः काश्यपिस्तार्क्ष्यः स्वर्णकायश्च शाल्मली ।सौपर्णेयः सुपर्णोऽपि कामायुर्विष्णुवाहनम् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.146 · p. 70
तुरगो घोटको वाजी तुरंगोऽर्वा तुरंगमः ।हयस्तार्क्ष्यो हरिः सप्तिवीती गन्धर्वनामकः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.367 · p. 26
खञ्जरीटः खञ्जनकः चक्रवाको रथाङ्गकः ।तार्क्ष्यो गरुत्मान् गरुडो वैनतेयोऽण्डजेश्वरः ॥ ३६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.97 · p. 11
तार्क्ष्यः सुपर्णो गरुडो वैनतेयोऽरुणानुजः ।गरुत्मान्पक्षिराजश्च सर्पारिः कश्यपात्मजः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.326 · p. 43
अरुणावरजस्तार्क्ष्यो महापक्षो विषापहः ।उन्नीतशः शिलाऽनीहः स्वर्णकायो विशालकः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2231 · p. 364
केशरी केसरी कुण्डी कुटरः पालकः पुनः ।घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गश्च तुरङ्गमः ॥ २२३१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.57 · p. 5
द्विजराजः खगपतिस्तार्क्ष्यो भुजगदारणः ।काश्यपिर्गजकूर्माशी किराताशी खगेश्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.238 · p. 17
गरुडाग्रजो तार्क्ष्यश्च सूर्यसारथिरित्यपि ।अथ च्छाया च संज्ञा च सूर्यस्य वनिताद्वयम् ।च्छाया स्यान्मन्दजननी सवर्णा भूमयीत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.36 · p. 5
सर्परिपुवैनतेयौ सौपर्णेयोऽरुणानुजस्तार्क्ष्यः ।विष्णुरथपन्नगभुजौ गरुडगरुत्मत्सुपर्णपक्षीन्द्राः ॥ ३६ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1314 · p. 160
देवार्थो देवरथः तार्क्ष्यः पुष्परथ इत्युभौ शौरेः ।कर्णीरथः प्रवहणं डयने भेदे तु गोमुखप्रमुखाः ॥ १३१४ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1455 · p. 176
सौवर्चलं तु रुचकं दुर्गलं शूलनाशकम् ।तत्रैवाक्षं च तार्क्ष्यं च तिलकं तत्र मेचके ॥ १४५५ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.42 · p. 9
तार्क्ष्यः शिलौकः कामायुररुणो वरजश्चिरात् ।पक्षिसिंह उलूतीशो वज्रतुण्डः सुधाहरः ।स्वर्णपक्षः सुमुखसूः शाल्मली भुजगाशनः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 40 · p. 47
तृतीये तु यमतार्क्ष्यौ क्रमात् कल्माषपक्षिणौ ।चित्रगुप्तश्च कालश्च रवेर्दक्षिणपार्श्वगौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.19 · p. 4
उपेन्द्र इन्द्रावरजो वामनो बलिकण्टकः ।आदित्यो द्विपदस्तार्क्ष्यस्त्रिविक्रम उरुक्रमः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.37 · p. 6
गरुडः काश्यपसुतो गरुत्मानुरगाशनः ।सुपर्णीतनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.91 · p. 111
कुदरो घोटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः ।पाकलः परुलः पीतिर्माषाशी हि सविक्रमः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.125 · p. 133
सौवर्चलं तु रुचकं दुर्गन्धं शूलनाशकम् ।अक्षं तार्क्ष्यं रुचिष्यं च तिलकं त्वत्र कृष्णके ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.278
तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.8 · p. 158
तार्क्ष्ये शैलाञ्जनं ज्ञेयं तार्क्ष्यः स्याद्गरुडाश्वयोः ।तार्क्ष्यो रथेऽश्वकर्णाख्यवृक्षे च रविसारथौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.47 · p. 293
कक्ष्यार्थके स्यादथ वीक्ष्यमाहु-र्दृश्ये तथा विस्मयवाचकं च ।पुमांस्तुरङ्गेऽपि च नर्तकेऽथतार्क्ष्यः सुपर्णे गरुडाग्रजे च ॥ ४७ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.48 · p. 293
स्यादश्वकर्माख्यतरौ तुरङ्गेरसाञ्जने तु प्रथितो द्वयोनः ।लक्ष्यं शरव्ये कपटे तु न स्त्रीसंख्यासु नाट्ये भरणीषु याम्या ॥ ४८ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.527 · p. 88
ताम्रा तु स्त्री कृष्णलाख्यवल्ल्यां तार्क्ष्यस्तु ना रथे ।गरुडे शैलजे विष्णौ विष्णोर्वामनविग्रहे ॥ ५२७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.528 · p. 88
सौवर्चलाख्यलवणे पुनः क्ली द्वे तुरङ्गमे ।तान्तस्तु मासे ना तान्तिमति तु त्रिः पुमान् पुनः ॥ ५२८ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.225 · p. 190
कालमानेऽपि रज्जौ स्यात्ततं विपुलवाद्ययोः ।तरो वेगे बले तार्क्ष्यः सूरसूते खगेश्वरे ॥ २२५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.226 · p. 191
स्यन्दने घोटके तन्द्रा प्रमादस्वापयोरपि ।त्रेता युगान्तरे वह्नित्रिके त्रय्यपि कथ्यते ॥ २२६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र यद्विः Śivakoṣa 21.1.341 · p. 31
जयाभयामातुलानीजयन्त्यरणिभित्सु च ।विनापि तेषु तार्क्ष्यं तु रत्नभेदे रसाञ्जने ॥ ३४१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.17 · p. 258
जया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः ।पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् ।जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु ।जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे ।पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् ।द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ले (syllables merged)

तार्क्ष्य as a meaning in nānārtha verses