कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

परिवेष

pariveṣaपुं · masc.

In 11 kośas: 11 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.102 · p. 8
मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ ॥परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः ।अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ १०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.41 · p. 6
परिधिः परिवेषः स्यान्मण्डलं चोपसूर्यकम् ।उच्यते राहुसंस्पर्श उपराग उपप्लवः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.20 · p. 438
परिधिः परिवेशश्च परिवेषश्च पुंस्ययम् ।परीवेशः परीवेषः परीवेशनमण्डले ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.38 · p. 30
स्युः पारिपार्श्वका भानोः संज्ञा छाया च तत्स्त्रियौ ।परिवेषस्तु परिधिः परिवेशश्च मण्डलम् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.16 · p. 7
अमायुः पृतनाधीशो यन्ताहर्मुखसूचकः ।परिधिः परिवेषः स्यात्स सूर्यावरणोऽपि च ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.95 · p. 17
परिवेषस्तु परिधिरुपसूर्यकमण्डले ।मरीचिका मृगतृष्णा काश्यपिः सूर्यसारथिः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.114 · p. 16
चामीकरं तद्धनुः स्यात्तद्धाटी त्वजरामला ।परिवेषस्तु परिधिर्गमनं गारुडं मतम् ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.86 · p. 14
प्रग्रहस्तथा पादः मृगतृष्णा मरीचिका ।मण्डलं परिवेषश्च परिधिस्तूपसूर्यकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.240 · p. 17
परिधिः स्यात् परिवेशः मण्डलमुपसूर्यकम् ।किरणांशुमयुखोस्रघृणिधृष्णिगभस्तयः ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.171 · p. 23
प्रभा छाया च सप्तैता दयितास्तिग्मदीधितेः ।परिधिः परिवेषः स्यादुपसूर्यकमण्डले ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.59 · p. 39
दशहस्तः पितृनल्वो दीर्घदंडो निदेशकः ।स प्रावेशनिकश्चाथ परिवेषो द्विरज्जुकः ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तृ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.33 · p. 293
परिवेषस्तु परिधौ स्वकरे परिवेषणे ।पलङ्कषा तु मुण्डीर्यां लाक्षागुग्गुलगोक्षुरे ॥
अनुष्टुप्