कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पङ्क्ति

paṅktiस्त्री · fem.

In 19 kośas: 29 synonym verses, 7 as a nānārtha head word, 38 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.78 · p. 54
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः ।धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ ॥युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.7
वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.84
विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु ।विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ॥ ८३ ॥संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.721 · p. 83
आली श्रेण्यावली पङ्क्तिर्वीथी राजी च कथ्यते ।क्षौरं च भद्राकरणं मुण्डनं वपनं स्मृतम् ॥ ७२१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.89 · p. 78
ऋक् सामिधेनी धाय्या सा या स्यादग्निसमिन्धने ।गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरित्यपि ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.91 · p. 78
सा तु प्राविसमत्युद्भ्यः स्युश्छन्दांस्येकविंशतिः ।स्त्रियां पङ्क्तिः सैव विराट् त्रिष्टुप् तृष्टुबुभे समे ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.496 · p. 187
भूतेन्द्रियर्तुतर्कर्षिवाजीभवसवो ग्रहाः ।नन्दादिशश्च पङ्क्तिश्च संख्या संज्ञा ह्यनुक्रमात् ॥ ४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.9 · p. 249
रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा ।तत्र पङ्क्तिः सान्तराला राजिर्हीनान्तरालका ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.88 · p. 64
आनुष्टुभमनुष्टुप् स्त्री बृहती बार्हतं मतम् ।पङ्क्तिः पाङ्क्तं च तुल्यार्थं त्रिष्टुप् स्त्री त्रैष्टुभं तथा ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 135
वीथिर्माला च विञ्जोलिर्धोरण्यावलि-वीचयः ।[19b]द्वयोः श्रेणिः पङ्क्ति-तति * * रेखालि-राजयः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 291
एकादशादयस्त्रय्यां पङ्क्तिस्तु दशवाचिका ।आब्धिभूतरसादीनां ज्ञेयाः संख्या हि लोकतः ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.52 · p. 100
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
genderस्त्रीfem.
एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् ।स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता ।ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥
metre not recognised
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 140 · p. 69
ओघः समुदयः सङ्घः सङ्घातः समितिस्ततिः ।निचयः प्रकरः पङ्क्तिः पशूनां समजो व्रजः ॥ १४० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.313 · p. 91
ग्रामता गजतेल्यादिः स्वयं ज्ञेया धिया बुधैः ।श्रेणी रेखा तती राजी पङ्क्तिर्मलावलिः पुनः ॥ ३१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्म (wrong syllable)
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.524 · p. 93
संख्येयेषु च संख्यायां नित्य(त्यं?)स्त्रीलिङ्गता मता ।पङ्क्तिस्तु दशसंख्या स्याच्छतं दशगुणोत्तरम् ॥ ५२४ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.24 · p. 2
लिपिरक्षरविन्यासः पङ्क्तिर्वर्णपरम्परा ।पत्राञ्जनं मसिर्मेला मसी कज्जलकन्यका ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.383 · p. 27
आवलिर्वीथिका पङ्क्तिः श्रेणी लेखा परम्परा ।कोशा[श]ण्डं पेशिका पेशी कुलायो नीडकोटरे ॥ ३८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.88 · p. 43
राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च घोरिणी ।सर्वं समस्तं सकलं समग्रं निखिलाखिले ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2585 · p. 417
आलिश्चाऽऽली ततिः पङ्क्तिः श्रेणी श्रेणिश्च धोरणी ।वीथी वीथिस्तथा राजिरावलिरावली पुनः ॥ २५८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.166 · p. 148
दशसंख्या हि पंक्तिस्तत् दशबृद्ध्या शतादिकम् ।शतं सहस्रमयुतं लक्षं नियुतमेव च ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.172 · p. 23
गरुडाग्रजस्तु काश्यपिररुणो मार्ताण्डसारथिरनूरुः ।गायत्री बृहती पङ्क्तिरुष्णिक्त्रिष्टुबनुष्टुभः ॥ १७२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1261 · p. 154
एकः पङ्क्तिर्दश शतं सहस्रमयुतं तथा ।नियुतं प्रयुतं कोटिरर्बुदं न्यर्बुदाब्जके ॥ १२६१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 82 · p. 535
वीचिः पङ्क्तिर्महिः केलिरित्याद्या ह्रस्वदीर्घयोः ॥ ८२ ॥
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.1 · p. 36
वार्क्षं वनं तलं तल्कं गुहिलं समजं त्रसम् ।लीलोद्यानं देवनं स्याद्वीथ्याली पङ्क्तिरावली ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.24 · p. 188
त्रिष्वेते पूरणार्थाः स्युः शब्दा गणतिथादयः ।आवलिः पद्धतिः पङ्क्तिरालिर्लेखा च मालिका ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.26 · p. 188
चतुःपंचाः पंचषाश्च षट्सप्ताद्याश्च तादृशाः ।स्त्री पड्क्तिर्विंशस्त्रिंशच्चत्वारिंशच्च पंचाशत् ॥ २६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र्विं (syllables merged); pāda 4, syllable 7 चा (wrong syllable)
genderस्त्रीfem.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.140
पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.10 · p. 68
पङ्क्तिः स्याद्दशसंख्यासु श्रेण्यां छन्दान्तरेऽपि च ।गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.67 · p. 214
दशाक्षरे छन्दसि चावलौ चदशाख्यसंख्याविषये च पङ्क्तिः ।युक्तिः पुनर्योजनतर्कयोः स्या-च्छक्तिः प्रभावेऽपि बलेऽपि कास्वाम् ॥ ६७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.65 · p. 15
प्राणिभेदे च मुसलीसंज्ञेऽथो पङ्क्तिरावलौ ।चत्वारिंशत्स्वराद्येषु छन्दोभेदेषु सा तथा ॥ ६५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.66 · p. 15
एकत्वे दशसङ्ख्यायां तत्सङ्ख्येषु च वस्तुषु ।दशकस्य यदा द्वित्वत्रित्वे तत्तद्वचस्तदा ॥ ६६ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.23 · p. 215
पंक्तिर्दशाक्षरच्छन्दो दिक्संख्याश्रेणिषु स्त्रियाम् ।प्राप्तं समञ्जसे लब्धे पतिः स्वामिन्यधीश्वरे ।पातः पुमान् पतने स्यात्त्राते निगदिते त्रिषु ॥
अनुष्टुप्metre not read in every line
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.165 · p. 148
पङ्क्तौ मार्गेऽपि पूतं तु पवित्रे बहुलीकृते ।श्रेणिर्दश च पङ्क्तिः स्यात्प्रसूतिर्जन्मतोकयोः ॥ १६५ ॥
अनुष्टुप्

पङ्क्ति as a meaning in nānārtha verses