कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

स्वर्गस्कन्धः · सूर्यादिप्रकाण्डः

सूरः सूर्योरुणः पूषा गभस्तिः सविता रविः ।व्रध्नो विस्तरणिर्मित्रश्चार्यमेनो दिनप्रणीः ॥ १ ॥
3.1.1 · p. 436
अनुष्टुप्
मिहिरोऽर्कोंशुमानद्रिर्हरिर्हेलिर्विरोचनः ।गौर्द्यौर्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥ २ ॥
3.1.2 · p. 436
अनुष्टुप्
तापनस्तपनो विष्णुः कर्मसाक्षी विकर्त्तनः ।मार्त्तण्डो मिहिरो भानुर्हंसो वेदोदयः पुनः ॥ ३ ॥
3.1.3 · p. 436
अनुष्टुप्
घृणिः पीथः प्रतिदिवाऽहर्नटो धरुणोऽपि च ।खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥ ४ ॥
3.1.4 · p. 436
अनुष्टुप्
काश्यपिः काश्यपेयश्च काश्यपश्च गभस्तिमान् ।चित्रभानुर्भानुमांश्च ज्योतिष्मज्ज्योतिषौ भगः ॥ ५ ॥
3.1.5 · p. 436
अनुष्टुप्
विवस्वांस्तरलो भास्वानम्बरीषः प्रजापतिः ।मन्थः किशोरः कुतपो वासन्तः पुष्करः कपिः ॥ ६ ॥
3.1.6 · p. 436
अनुष्टुप्
प्रद्योतनो विश्वकर्मा दृग्भूर्भातुः सदागतिः ।सहस्रात्करपादांशुश्चित्रार्थार्चिः सुरः पपीः ॥ ७ ॥
3.1.7 · p. 436
अनुष्टुप्
करो दिनप्रभार्थेभ्यो दिनार्थेभ्यो वसुर्मणिः ।पुष्टश्चापि जगद्दीपः सप्ताश्वार्थश्च भारविः ॥ ८ ॥
3.1.8 · p. 436
अनुष्टुप्
पतङ्गो देवसैन्यार्थो द्वादशाङ्गस्त्रयीतनुः ।कालोष्णेभ्यो भृत्कृदर्थो जगन्नेत्रार्थ इत्यपि ॥ ९ ॥
3.1.9 · p. 436
अनुष्टुप्
बहुरूपो दृशानः खो भानेभ्यः कोशवाचकः ।ग्रहाब्जिनीधाम दिनत्विट्पतिर्भानुकेसरः ॥ १० ॥
3.1.10 · p. 437
अनुष्टुप्
वीतिहोत्रः कोकलोकाब्जिनी बन्ध्वर्थ इत्यपि ।सुग्रीवमनुकर्णानां यमयम्योः शनेः पिता ॥ ११ ॥
3.1.11 · p. 437
अनुष्टुप्
सरण्यूच्छाययोर्भर्ता संवत्सरपथार्थकः ।जलचौरः खलतिको ब्रह्मा ज्योतिश्च न द्वयोः ॥ १२ ॥
3.1.12 · p. 437
अनुष्टुप्
माठरः पिङ्गलो दण्डः सूर्यस्य परिपार्श्वगाः ।अस्य सूतोरुणोनूरुः काश्यपिर्गरुडाग्रजः ॥ १३ ॥
3.1.13 · p. 437
अनुष्टुप्
अश्मनो रमणस्तार्क्ष्यो वैनतेयो जटायुसूः ।गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥ १४ ॥
3.1.14 · p. 437
अनुष्टुप्
अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः ।रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥ १५ ॥
3.1.15 · p. 437
अनुष्टुप्
आलोकश्च विरोकश्च प्रकाशोंऽशुः स्त्रियां द्युतिः ।द्युत्त्विट् प्रभा रुचिर्दीप्तिर्विभा रुक् च त्विषिश्छविः ॥ १६ ॥
3.1.16 · p. 437
अनुष्टुप्
त्विषी रुची मरीची स्त्री द्युती स्यादातपोऽस्त्रियाम् ।धृष्णिर्भोमश्च भासश्च द्योतो भाभे च भास् द्वयोः ॥ १७ ॥
3.1.17 · p. 437
अनुष्टुप्
गभस्तिश्च गभस्ती च पुंस्त्रियोः परिकीर्तिते ।क्लीबे तेजो महर्वर्चो ज्योतिर्धाम वपुः पुनः ॥ १८ ॥
3.1.18 · p. 437
अनुष्टुप्
रोचिः शोचिः पुनश्चार्चिर्न ना पृश्निः शुचिश्च सा ।गौर्मरीचिर्नोमनिधिर्मृगतृष्णा मरीचिका ॥ १९ ॥
3.1.19 · p. 438
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्नो (wrong syllable)
परिधिः परिवेशश्च परिवेषश्च पुंस्ययम् ।परीवेशः परीवेषः परीवेशनमण्डले ॥ २० ॥
3.1.20 · p. 438
अनुष्टुप्
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।तिग्मं तीक्ष्णं खरं तद्वदुपार्कं मंडलं त्रिषु ॥ २१ ॥
3.1.21 · p. 438
अनुष्टुप्
त्वाष्ट्री सरण्यूर्योग्या स्यात् सरण्युर्द्युमयीति च ।वैवस्वतयमयमीपर्यायजननीति च ॥ २२ ॥
3.1.22 · p. 438
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
एतत्पर्यायतश्छाया सवर्णा प्रतिरूपिणी ।सावर्णिमन्दतपतीविष्टिपर्यायसूरपि ॥ २३ ॥
3.1.23 · p. 438
अनुष्टुप्
एते भार्ये रवेरश्वाः सप्तच्छन्दांसि यानि ते ।जयो जयन्तो विजयो जयत्सेनो जयद्वलः ॥ २४ ॥
3.1.24 · p. 438
अनुष्टुप्
मनोजवो जितक्रोधो हंसश्रेणियुजः कलाः ।तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ॥ २५ ॥
3.1.25 · p. 438
अनुष्टुप्
सुषुम्णा भोगदा विश्वा बोधिनी धारणी क्षमा ।कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके ।सूर्यादिमः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः ॥ २६ ॥
3.1.26 · p. 438
अनुष्टुप्