ज्योतिस्
jyotisक्ली · neut.In 18 kośas: 44 synonym verses, 10 as a nānārtha head word, 8 as a meaning of another word.
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
रोचिस्क्लीउस्रपुंरुचिस्त्रीशोचिस्क्लीअंशुपुंगोस्त्रीज्योतिस्क्लीअर्चिस्क्लीउपधृतिस्त्रीअभीशुपुंप्रग्रहपुंशुचिपुंमरीचिपुंस्त्रीदीप्तिस्त्रीधामन्क्लीकेतुपुंघृणिपुंरश्मिपुंपृश्निस्त्रीपादपुंदीधितिस्त्रीकरपुंद्युतिस्त्रीद्युत्स्त्रीरुच्स्त्रीविरोकपुंकिरणपुंत्विषिस्त्रीत्विष्स्त्रीभास्स्त्रीप्रभास्त्रीवसुक्लीगभस्तिपुंभानुपुंभास्त्रीमयूखपुंमहस्क्लीछविस्त्रीविभास्त्री
genderक्लीneut.
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ १०७ ॥धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता ।अश्वयुग्वालिनी चाथ भरणी यमदेवता ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ २५० ॥षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderक्लीneut.
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः ।कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू ।अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १०९८ ॥शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः ।बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौबर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ ॥विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च ।
upajati 12
वह्निपुंबृहद्भानुपुंहिरण्यरेतस्पुंधनंजयपुंहव्यहविस्पुंहुताशनपुंकृपीटयोनिपुंदमुनस्पुंविरोचनपुंआशुशुक्षणिपुंछागरथपुंतनूनपात्पुंकृशानुपुंवैश्वानरपुंवीतिहोत्रपुंवृषाकपिपुंपावकपुंचित्रभानुपुंअप्पित्तपुंधूमध्वजपुंकृष्णवर्त्मन्पुंअर्चिष्मत्पुंशमीगर्भपुंतमोघ्नपुंशुक्रपुंशोचिष्केसपुंशुचिपुंहुतवहपुंउषर्बुधपुंसप्तमन्त्रज्वालाजिह्वपुंज्वलनपुंशिखिन्पुंजागृविपुंजातवेदस्पुंबर्हिःशुष्मन्पुंअनिलसखपुंवसुपुंरोहिताश्वपुंआश्रयाशपुंबर्हिस्पुंज्योतिस्क्लीदहनपुंबहुलपुंहव्यवाहपुंअनलपुंअग्निपुंविभावसुपुंसप्तोदर्चिस्पुंस्वाहास्त्रीआग्नेयीस्त्री
genderक्लीneut.
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
शालिनी
genderक्लीneut.
सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
गीतिः
genderक्लीneut.
ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः ।अस्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
गुल्मेषु ग्रन्थिकः सस्यात् स च पुष्पेषु पर्वतः ।ओषधीषु ज्योतिरयं रूपको नलिनीषु च ॥ ३०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्यो (wrong syllable)
genderक्लीneut.
क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्बर्हिर्हविश्च षण् ।अपि वायुसखाऽनन्तः पाचनः पावनोऽनलः ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
वा पुंसि ऋक्षं भं ज्योतिः स्तृ दिवाभीतमित्यपि ।रात्रिदृश्यं च भासन्तमथ चन्द्रमसः स्त्रियः ॥ १८२ ॥
अनुष्टुप्
genderक्लीneut.
सरण्यूच्छाययोर्भर्ता संवत्सरपथार्थकः ।जलचौरः खलतिको ब्रह्मा ज्योतिश्च न द्वयोः ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
गभस्तिश्च गभस्ती च पुंस्त्रियोः परिकीर्तिते ।क्लीबे तेजो महर्वर्चो ज्योतिर्धाम वपुः पुनः ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
एकविंशत्येकशतचतुःपञ्चेति ताः क्रमात् ।शिक्षा ज्योतिर्निरुक्तं च कल्पो व्याकरणं तथा ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ये (wrong syllable)
genderक्लीneut.
विश्वप्सा नरि पावको हुतवहो हव्याशनो हव्यवाट्स्युः पीतूशिगुषर्बुधा दमुनसा तुल्यो दमूना भुजिः ।बर्हिःशुष्मणि बर्हिरुत्थ-धुवनौ ज्योतिश्च बर्हिः पुमान्शुष्मा धूमपताक-तुत्थ-तिमिरघ्नाः कृष्णवर्त्मोषपः ॥ १२४ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
ब्रध्नोंऽशुर्दिवसप्रणीश्च तरणिर्मार्तण्ड-चण्डद्युतीमार्ताण्डोऽरुण[20a]सारथिर्दिनकरो मित्रो रथाङ्गप्रियः ।अञ्जिष्ठोऽव्यथिषः-सरोरुहसुहृत्पृष्वस्त्रयीमूर्त्तिमान्ज्योतिर्वत्सरमूर्तिरम्बुजकरः सूरोऽप्यरूषः शुचिः ॥ ३० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
छवि-द्युति-द्युद्रुचि-रुक्-त्विषि-त्विट्प्रभा-विभा-भायुजि दीप्तिरेव ।ज्योतिर्विषो [?] धाम-महो-महार्च्चिर्-वर्च्चांसि रोचिश्चरमे च शोचिः ॥ ४५ ॥
उपजातिः
genderक्लीneut.
ज्योतिर्ज्वालः शठो व्यालो वल्ली(?)वह्निः कुटः शिखी ।चव्यं त्रिषु स्याच्चवनं चविका कोलवल्लरी ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः ।वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
अग्निष्टोमश्चतुष्टोमो ज्योतिरानृण्यमित्यपि ।अथ यज्ञोपकरणं यजत्रं यजनं च तत् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
दीप्तिर्ज्योतिर्महो धाम रश्मिरूर्जो विभावसुः ।शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderक्लीneut.
कला च षोडशो भागस्तारकाभोडवः पुनः ।नक्षत्रज्योतिषी धिष्ण्यं ग्रहऋक्षेऽप्यथाश्विनी ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
धर्मशास्त्रं स्मृतिः शिक्षा कल्पो व्याकरणं तथा ।ज्योतिश्छन्दो निरुक्तिश्च षडङ्गानि यथाक्रमम् ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
सप्तोदर्चिरप्पित्तं च हव्यवाहाशुशुक्षणी ।पचनो हिरण्यरेता बर्हिर्ज्योतिस्तमोहरः ॥ ८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable); pāda 3, syllable 4 हि (wrong syllable)
genderक्लीneut.
फाण्टं तक्रं दधिसुता नवनीतं सुधासितम् ।आज्यं रेतो घृतं हव्यं तेजो ज्योतिः सुधान्तिकम् ॥ २५१ ॥
अनुष्टुप्
genderक्लीneut.
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः ।अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
स्वाहापतिः शुचिः शुक्रो बर्हिर्ज्योतिर्विरोचनः ।ज्वालाजिह्वः सप्त मन्त्रः शुष्मा धूमध्वजोऽपि च ॥ १७० ॥
अनुष्टुप्
genderक्लीneut.
दीपो गृहमणिर्ज्योतिः प्रदीपः कज्जलध्वजः ।आसनं विष्टरः पीठं भद्रासनं तदुत्तमम् ॥ ७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
genderक्लीneut.
ऋग्वेदश्च यजुर्वेदः सामवेदोऽप्यथर्वणः ।शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
रोचिः शोचिश्च रश्मिश्च ज्योतिश्च किरणो शुचिः ।घृणिः पृश्निः मयूखश्च मरीचिर्दीधितिर्द्युतिः ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
षडङ्गानि तु वेदस्य शिक्षा च कल्पसंज्ञकः ।व्याकरणं तथा छन्दो ज्योतिर्निरुक्तिरेव च ॥ ३६२ ॥
metre not recognised
genderक्लीneut.
दमुना दमूना ज्योतिर्ज्वलनश्च्छागवाहनः ।अग्निहोत्रो नाचिकेतुर्वर्द्धनिः स्याद्विभाकरः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
genderक्लीneut.
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
प्रतिदिवा प्रतिदिवो ज्योतिः पीथ इनोऽपि च ।एते सूर्यस्य पार्श्वस्था दण्डपिङ्गलमाठरा ।अरुणः काश्यपिः सूरसूतोऽनूरुस्तथाश्मनः ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
रश्मिर्भानुः करोऽभीषुर्महो ज्योतिर्महोऽपि च ।तथा रोचिः शोचित्विषी त्विषा पृश्निरपि स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चि (wrong syllable)
genderक्लीneut.
रुक्छविद्युतिभास्त्विड्भाप्रभागोरुचिदीप्तयः ।रोचिः शोचिर्महो वर्चो ज्योतिस्तेजश्च धाम च ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते ।नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
बहुलोऽग्निर्वसुर्ज्योतिर्जठराग्निस्तु हृच्छयः ।झलका तु महाज्वाला समुद्राग्निरबिन्धनः ॥ १७५० ॥
अनुष्टुप्
genderक्लीneut.
श्यामालिङ्गितदेहोऽसौ खद्योतो ज्योतिरीरितः ॥ह्रौम्॥
genderक्लीneut.
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीक्लीबयोरुडुर्दामा छर्द्दिर्ज्योतिः सदोर्च्चिषः ।सुखं लक्षं वणिज्यञ्च वडिशक्रोडपाटलम् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
सर्वेऽमी यज्ञक्रतवस्त एवैन्द्राः प्रजागमाः ।ज्योतिष्टोमश्चतुष्टोमो ज्योतिरानृण्यमित्यपि ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
गिरिसानुन्यपि वप्रं तल्पं दारेषु चक्षुषि ज्योतिः ।चौर्यादावपि हिंसा प्रसरः प्रणयेऽपि निर्दिष्टः ॥ ८१० ॥
आर्या
meaningsचक्षुस्
विलोचने धने पुत्रे सामभेदेषु केषुचित् ।ज्योतिष्टोमाख्ययज्ञे च क्लीबं दीप्तौ तु वा स्त्रियाम् ॥ ४९४ ॥
अनुष्टुप्
नित्यं पुमांसमग्नौ चामरदत्तोऽन्वशादिदम् ।पुन्नपुंसकलिङ्गस्तु ज्योतिष्टोमे मतो मम ॥ ४९५ ॥
अनुष्टुप्
ज्योतिस् as a meaning in nānārtha verses
- कोषकल्पतरु सहस्सहो बले ज्योतिषि मार्गशीर्ष- हेमन्तयोः पुंसि भवेत्तथैव । रहो विविक्ते सुरते च तत्त्वे रहं च तद्वत्प्रवदन्ति सन्तः ॥ ९ ॥ Koṣakalpataru 6.31.9
- नानार्थार्णवसंक्षेप तेजस्विस्तारे च शरीरे च तेजस्तु बलतोययोः । नवनीतेऽनले धर्मे ज्योतिष्यर्चिषि रेतसि ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 2.3.29
- नानार्थार्णवसंक्षेप द्यौत्रदीनतायां च शोके च द्यौत्रशब्दस्तु वासरे । प्रमाणेऽन्ये प्रतोदेऽन्ये ज्योतिष्यथ धनं भवेत् ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 2.3.33
- नानार्थार्णवसंक्षेप पाथिस्पाथः स्थानान्नखाम्भःसु पाथिः स्वर्गेन्दुपूषसु । नद्यां ज्योतिष्यथो पिञ्छं मयूरस्य शिखण्डके ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 2.3.41
- नानार्थार्णवसंक्षेप हरस्प्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च । हरः क्रोधे जले लोके ज्योतिषि ज्वलति स्रजि ॥ ७३ ॥ Nānārthārṇavasaṃkṣepa 2.3.73
- नानार्थार्णवसंक्षेप पाथस्प्लावी तु पक्षमृगयोर्द्वयोरथ नपुंसकम् । पाथिर्ज्योतिषि नद्यां च स्वर्गे चन्द्रेऽप्यथास्त्रियाम् ॥ ७६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.766
- शब्दरत्नावली सहस्श्रेयसी गजपिप्पल्यामभयापाठयोरपि । सहो ज्योतिर्बले क्लीबं पुमान् हेमन्तमार्गयोः ॥ Śabdaratnāvalī 7.32.36
- वैजयन्ती तेजस्पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः । तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसि ॥ १४ ॥ Vaijayantī 6.3.14