कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चण्डांशु

caṇḍāṃśuपुं · masc.

In 3 kośas: 3 synonym verses, 3 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.31
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ॥कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ॥इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥
अनुष्टुप्
सूरपुंसूर्यपुंअर्यमन्पुंआदित्यपुंद्वादशात्मन्पुंदिवाकरपुंभास्करपुंअहस्करपुंब्रध्नपुंप्रभाकरपुंविभाकरपुंभास्वत्पुंविवस्वत्पुंसप्ताश्वपुंहरिदश्वपुंउष्णरश्मिपुंविकर्तनपुंअर्कपुंमार्तण्डपुंमिहिरपुंअरुणपुंपूषन्पुंद्युमणिपुंतरणिपुंमित्रपुंचित्रभानुपुंविरोचनपुंविभावसुपुंग्रहपतिपुंत्विषांपतिपुंअहर्पतिपुंभानुपुंहंसपुंसहस्रांशुपुंतपनपुंसवितृपुंरविपुंपद्माक्षपुंतेजसांराशिपुंछायानाथपुंतमिस्रहन्पुंकर्मसाक्षिन्पुंजगच्चक्षुस्पुंलोकबन्धुपुंत्रयीतनुपुंप्रद्योतनपुंदिनमणिपुंखद्योतपुंलोकबान्धवपुंइनपुंभगपुंधामनिधिपुंअंशुमालिन्पुंअब्जिनीपतिपुंचण्डांशुपुंमाठरपुंपिङ्गलपुंदण्डपुं
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.232 · p. 17
हंसो भास्वान् दिनमणिर्द्युमणिस्तरणी रविः ।चण्डांशुरर्को मार्तण्डः सप्तसप्तिर्गभस्तिमान् ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.15 · p. 18
चण्डांशुरंशुमानंशुः सहस्रांशुः सदागतिः ।आदित्यो मिहिरो मित्रो रविः प्रत्यूषडंबरः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.

चण्डांशु as a meaning in nānārtha verses

  • शब्दरत्नावली मन्थमन्थो मन्थान-चण्डांशु-साक्तवेषु पुमानयम् । रथः पुमान् स्यन्दने स्याद् वेतसेऽवयवेऽपि च ॥ Śabdaratnāvalī 7.17.6
  • शब्दरत्नावली विश्वकर्मन्देवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि । विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् ॥ महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् । विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् ॥ शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी । मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥ Śabdaratnāvalī 7.20.137
  • शब्दरत्नावली प्रत्यूषनहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे । निकषः शानफलके स्त्रियां राक्षसमातरि ॥ निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने । परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे ॥ प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे । प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥ Śabdaratnāvalī 7.31.21