कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रक्षण

rakṣaṇaक्ली · neut.

In 10 kośas: 4 synonym verses, 33 as a meaning of another word.

केयूरादीनि नपुंसके जानीहि । इदं केयूरं बाहुभूषणम् । इदं तरलमलङ्कारः । तूर्यं वादित्रम् । अङ्गदं बाहुभूषणम् । गवाक्षशब्दं पुंसि विद्याज्जानीयात् । यथा अयं गवाक्षो वातायनः । एते शब्दाः स्त्रियां भवन्ति । इयं श्यामा स्त्री । भुशुण्डी आयुधम् । भाण्डी भिण्डिपालः ।भवतोऽपजनोपपदावङ्गपदौ पुंसि नित्यमिननिच्च ।रक्षणकोष्ठभ्रेषाश्च सह निपातोपसर्गाभ्याम् ॥ ८६ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2775 · p. 453
त्राणं रक्षा च रक्षणश्च त्रीणि नामानि सन्ति वै ।ग्रहणार्थे ग्रहो ग्राहः स्याद्वेधस्तु व्यधोऽपि च ॥ २७७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.16 · p. 171
रक्ष्नस्त्राणे व्यधो वेधे वरणे तु वृतिर्वरः ।पचा पाको निपाकश्च पचने तु भवेत् त्रयम् ॥
अनुष्टुप्
genderक्लीneut.doubtful
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.8 · p. 35
अर्घीशो दीपिका वामश्रवणो मधुसूदनः ।इन्द्रश्चापः षण्मुखश्च ऊ-कारो रक्षणाभिधः ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.

रक्षण as a meaning in nānārtha verses

  • धरणिकोश शरणचरणोऽङ्घ्रौ बह्वृचादौ च चरणं भ्रमणे दले । शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ॥ Dharaṇikośa 14.2.20
  • धरणिकोश गुप्तिपङ्क्तिः स्याद्दशसंख्यासु श्रेण्यां छन्दान्तरेऽपि च । गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणेऽपि च ॥ Dharaṇikośa 15.2.10
  • धरणिकोश पानपानं स्याद्रक्षणं पीतिश्छन्नं स्याच्छादितं रहः । रत्नं मणावुत्कृष्टे च चिह्नं लक्ष्मपताकयोः ॥ Dharaṇikośa 19.1.2
  • धरणिकोश अवनदंशनं कवचे दंशे गहनं गह्वरे वने । अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥ Dharaṇikośa 19.1.11
  • धरणिकोश दानदानं हस्तिमदे दत्ते छेदरक्षणशुद्धिषु । हनुः स्त्रियां कपोलाधो हनुर्हट्टविलासिनी ॥ Dharaṇikośa 19.2.5
  • धरणिकोश सेचनशासनं नृपदत्तोर्व्यां लेखाज्ञाशास्त्रशान्तिषु । सेचनं रक्षणे सेके नौकासेचनभाजने ॥ Dharaṇikośa 19.2.52
  • कोषकल्पतरु सम्-भुज्खेटयति खेडयति ग्रसते ग्लसते च खोटयति । चरति चषतेऽपि चषति गलति तथाभ्यवहरत्यपि । उपाद्भुजिश्चोपभोगेऽथाङः पूर्णत्व-यत्नयोः । समो साभे नुतोमत्यां(?)न तु तङ्मान्स रक्षणे ॥ आङश्चमिरुपस्पर्शे चाभ्यधिभ्यां चरिः क्षये । अनोः सहायकेऽथोपादुपादाराधनार्थकः ॥ रोगस्य च चिकित्सायां शब्दवृत्तेर्विशेषणे । आङः कृतौ परेः सेवे वाच्युदः समुदः परः ॥ सहचारिण्यपावृत्तौ भूयः प्रत्याङ उत्तरः । अतेरुल्लङ्घनानीत्योः प्रात्प्रसिद्धावभेः पुनः ॥ अन्यथात्वेऽथोत्परोऽसौ कर्मवानात्मनेपदी । तथा तृतीयया युक्तः[183b]संपरश्च प्रकीर्तितः ॥ चलनप्राशनार्थेभ्यः स्यात्परस्मैपदं णिचि । आदेस्तु कर्त्रभिप्राये फले स्यादात्मनेपदम् ॥ परेर्मोहयतेर्वादेर्वासेः पाययतेर्दमेः । आङ्यासेरपि तद्वत्स्यात्तथा धापयतेरपि ॥ तद्वद्रोचेर्नर्तयतेर्ण्यन्तानां बुधयुध्नशाम् । प्रुद्रुस्रूणां जनेङोश्च परस्मैपदमीरितम् ॥ इच्छति वाङ्क्षति काङ्क्षति वाञ्छति माङ्क्षति च लष्यते लषति । लष्यति लषते लुभ्यति कामयते वष्टि चाशास्ते । प्रीणाति प्रीणीते गृध्यत्यनुरुध्यते च गर्धयति । आशंसते च हर्यति कनत्यवति खटति तद्वत्स्युः । वरयति लालयते च स्पृहयति लिप्सत्यपि चेच्छार्थाः ॥ २६ ॥ Koṣakalpataru 3.5.26
  • कोषकल्पतरु भोगरागोऽनुरागे नृप-भैरवादौ मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ Koṣakalpataru 6.3.96
  • कोषकल्पतरु रुरः पावके रागसमीरयोः स्या- च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः । रास्तु द्वयोः स्याद्धनहेममेघे- रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥ Koṣakalpataru 6.27.94
  • कोषकल्पतरु रक्षाअचिक्कणेऽथो भृतियाच्ञयोः स्या- द्भिक्षा तथा भिक्षितसेवयोश्च । प्रेक्षा वितर्के धियि संप्रदिष्टा प्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि । कुक्षिर्द्वयोः स्याज्जठराह्वये च गौडादयस्तूदरमात्र आहुः ॥ ५५ ॥ Koṣakalpataru 6.30.55
  • नानार्थार्णवसंक्षेप ऊतस्मादर्थतया व्योम नाप्शब्दस्येह कीर्तितम् । ऊशब्दो रक्षणे तृप्तौ प्रीताववगतौ गतौ ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 1.1.49
  • नानार्थार्णवसंक्षेप ऊतिऊतिस्तु रक्षणे स्यूतौ चेत्येके तत्तु नो तथा । वयं तु ब्रूम ऊशब्दकथितैकोनविंशतौ ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 2.1.16
  • नानार्थार्णवसंक्षेप रक्षासमाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु । रतिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 2.1.82
  • नानार्थार्णवसंक्षेप भोगभेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे । रक्षणेऽभ्यवहारे च सर्पस्य फणकाययोः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 2.2.90
  • नानार्थार्णवसंक्षेप दानशोधने रक्षणे चाथ द्वारं द्वाराभ्युपाययोः । द्युम्नं धने यशस्यन्ने बले दैन्यध्वनिः पुनः ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 2.3.32
  • नानार्थार्णवसंक्षेप तुञ्जातुञ्जस्तु दाने वज्रे च बलादानादिके च ना । तुञ्जा तु रक्षणे स्त्री स्याद्धिंसायां तु नरस्त्रियोः ॥ ५५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.552
  • नानार्थार्णवसंक्षेप दायना तु दाने विभक्तव्यपित्रादिद्रविणे तथा । अजयस्त्वाह सोल्लुण्ठभाषिते रक्षणादिषु ॥ ५९० ॥ Nānārthārṇavasaṃkṣepa 2.5.590
  • नानार्थार्णवसंक्षेप अवनशीलेऽन्वये च प्राण्यङ्गभेदे कण्ठसमीपगे । अवनं रक्षणे तृप्तौ याचनादिष्वपि स्मरेत् ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 3.3.4
  • परमानन्दीयनाममाला रीरक्षणादित्ययो रीस्तु भ्रमे रूग्रुचिवाञ्छयोः । घृणिरुग्व्यथयोश्चपि रे हूतावव्ययं स्मृतम् ॥ ३७ ॥ Paramānandīyanāmamālā 1.37
  • परमानन्दीयनाममाला दानदानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने । दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥ Paramānandīyanāmamālā 5.16.239
  • परमानन्दीयनाममाला क्षेमरोहितायाः फले पुष्पे क्षमा क्षान्तिर्धरित्र्यपि । क्षमः क्षमायुते शक्ते क्षेमो लब्धस्य रक्षणे ॥ ३८० ॥ Paramānandīyanāmamālā 5.29.380
  • शब्दरत्नावली त्राणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली यन्त्रणमार्गणो याचके बाणे क्लीबमन्वेषणार्थयोः । यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च ॥ रवणः शब्दने तीक्ष्णे भण्डके चञ्चलेऽपि च । रमणं पटुमूले स्यान्नार्यां स्त्री स्यात्प्रिये पुमान् ॥ रोषणः क्रोधने हेमघर्षणाश्मनि पारदे ॥ Śabdaratnāvalī 7.15.57
  • शब्दरत्नावली शरणशरणं घातके गेहे रक्षणे रक्षकेऽपि च । श्रवणन्तु श्रुतौ कर्णे न पुंसि तारकाभिदि ॥ Śabdaratnāvalī 7.15.63
  • शब्दरत्नावली ऊतिउक्तमेकाक्षरच्छन्दोभाषिते प्रेरिते त्रिषु । ऊतिः स्त्रियां रक्षणे स्यात्सीवणे क्षारणेऽपि च ॥ Śabdaratnāvalī 7.16.4
  • शब्दरत्नावली गुप्तिगीतिर्गाने छन्दसि स्त्री गीतं गाने च शब्दिते । गुप्तिः कारागृहे स्त्री स्याद् रक्षणेऽवकरस्थले ॥ Śabdaratnāvalī 7.16.11
  • शब्दरत्नावली पानपानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥ भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ Śabdaratnāvalī 7.20.14
  • शब्दरत्नावली अवनक्लीबं रसाञ्जने चाक्तौ सौविरे कज्जलेऽपि च । अवनं रक्षणे प्रीतौ अवनिः क्षितिरक्षयोः ॥ Śabdaratnāvalī 7.20.27
  • शब्दरत्नावली रक्षारूक्षमप्रेम्णि कठिने रक्षा जतुनि रक्षणे । लक्षं व्याजे शरव्ये च लक्षसंख्यान्तरेऽपि च ॥ Śabdaratnāvalī 7.31.13
  • शब्दरत्नाकर शासनशयनं मञ्चरतयोः शमनोऽजगरे यमे । शासनं निग्रहे शास्त्रे वेदवाक्येषु रक्षणे ॥ २१७४ ॥ Śabdaratnākara 4.1.2174
  • तन्त्राभिधान ऊइ-कार उच्यते कामो लक्ष्मी-री-कार उच्यते । उ-कारः शङ्करः प्रोक्त ऊ-कारश्चापि रक्षणे ॥ २ ॥ Tantrābhidhāna 3.2
  • तन्त्राभिधान ऊद दुर्गावाचकं देवि ऊकारश्चापि रक्षणे । विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः ॥ Tantrābhidhāna 11.4
  • त्रिकाण्डशेष दानक्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः । दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥ Trikāṇḍaśeṣa 3.3.242