कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विपाक

vipākaपुं · masc.

In 9 kośas: 5 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.126 · p. 16
इष्टानिष्टफलं प्राज्ञैः स्मृतं दैवमयानयम् ।भागधेयं तथा भाग्यं विपाको भवितव्यता ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.41 · p. 239
व्यधा वेधे पचा पाके विपाकः पचनं पुनः ।विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.41 · p. 5
विधिर्विपाकोऽपि च तत्र चित्रा-टीरः स्त्रियां स्यात्त्रिपतिर्नृकर्म ।अदृष्टदिष्टे अपि भागधेय-भाग्ये च दैवं भवितव्यता च ॥ ४१ ॥
उपजातिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1779 · p. 215
स्यात् पृथग्दृष्टिरध्यात्मज्ञानं ध्यानं तु चिन्तनम् ।क्लेशोऽविद्यास्मितादिः स्याद्विपाको भवितव्यता ॥ १७७९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.189 · p. 98
शर्म शातं सुखं सौख्यमयः शुभफलो विधिः ।विधौ दैवं दिष्टभाग्ये विपाको भवितव्यता ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.13 · p. 4
विपाकः पाकदुर्गत्योः प्रसेकः च्युतिसेकयोः ।मण्डूको बन्धभेदे च मशकोऽल्पगदेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.59 · p. 143
स्वादौ परिणामे दुर्गतौ विपाकः समुद्दिष्टः ।स्वेदे दुष्कर्मफले भवति निपाकस्तथा पाके ॥ ५९ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.196 · p. 28
रभसस्त्वाह विस्तारं विस्तृतिस्तम्बयोरथ ।विपाकः पचने स्वेदे* विरुद्धे कर्मणः फले ॥ १९६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.141 · p. 185
विपाकः पचनस्वेदकर्मादि विसदृक् फले ।विवेकः स्यात् पृथग्भावे जलद्रोण्यां विचारणे ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.43 · p. 106
वाह्लीकं बाह्लिके धीरहिङ्गुनोर्नाऽश्वदेशयोः ।विपाकः परिणामेऽपि तिलकेऽपि विशेषकः ॥ ४३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.67 · p. 244
रहःप्रकाशौ वीकाशौ विपाकः स्वेदपाकयोः ।विश्वात्मार्केऽपि विष्कंभो विस्तारप्रतिबन्धयोः ॥ ६७ ॥
अनुष्टुप्

विपाक as a meaning in nānārtha verses

  • कोषकल्पतरु क्वाथनील्यां स्त्र्यथ स्याद्द्रवनिष्पवायां क्वाथो विपाके व्यसने च दुःखे । पृथुस्तु वैश्वानरराजभेद- त्वक्पत्रिका मेचकजीरके ना । त्रय्यां महत्येष हुताशने तु तुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥ Koṣakalpataru 6.18.95