कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुरंदर

puraṃdaraपुं · masc.

In 7 kośas: 7 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.21 · p. 382
वृत्रो घनाघनः शक्रः सुनासीरः पुरंदरः ।पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.23 · p. 441
अथेन्द्राः स्युर्विपश्चिच्च सुशान्तिश्च शिविर्विभुः ।मनोजवः पुरंदरो वलिरद्भुत इत्यपि ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.95 · p. 17
मघवा मघवान्पुरंदरःपृतनाषाट्-पुरुहूत-कौशिकाः ।विजयन्तक-पाकशासनौसह वृद्धश्रवसा दिवस्पतिश्च ॥ ९५ ॥
वियोगिनी
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.56 · p. 12
कौशिकः शक्रपर्जन्यहर्यश्वकसुरर्षभाः ।शचीपतिः स्वर्गपतिपुरुहूतपुरंदराः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.39 · p. 5
इन्द्रः पुरंदरः शक्रो वासवः पाकशासनः ।संक्रन्दनः सहस्राक्षः सुत्रामा मघवा वृषा ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.67 · p. 9
पुरुहूतः पुलोमारिः पृतनाषाट् पुरंदरः ।तुराषाण्नमुचिद्वेषी विडौजा मेघवाहनः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.

पुरंदर as a meaning in nānārtha verses