कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तुराषाह्

turāṣāhपुं · masc.

In 11 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.23
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.53 · p. 7
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् ।आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.27 · p. 382
शतक्रतोश्च पर्यायः सहस्रान्नयनस्य च ।स्यादृभुक्षास्तुराषाट् च तप आतङ्करावणौ ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.94 · p. 17
ऋजीको वृषा वृत्रहा स्यात्तुराषाण्-मरुत्वान्-ऋभुक्षा विडौजा बिडौजाः ।सुनासीर-जिष्णू शुनाशीर-वि[12b]ष्ण्व-ग्रजौ वज्रभृत्स्यात्तपस्तक्षकश्च ॥ ९४ ॥
भुजङ्गप्रयातम्metre not read in every linenearly भुजङ्गप्रयातम्: pāda 1, syllable 11 वि (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 60 · p. 30
शतमन्युस्तुराषाट् च पुरुहूतश्च कौशिकः ।संक्रन्दनोऽथ मघवान् पुलोमारिर्मरुत्सखः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.57 · p. 12
आखण्डलः सहस्त्राक्षस्तुराषाण्मघवा पुनः ।शुनासीरोग्रधन्वानौ सुत्रामा पूर्वदिक्पतिः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.43 · p. 5
वास्तोष्पतिस्तुराषाट् च पुलोमारिर्मरुत्सखः ।गोत्रभेदी हरिहयो देवराजोऽस्य तु प्रिया ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.185 · p. 25
तुराषाट् यामनेमिश्च तपस्तक्षोऽच्युताग्रजः ।पृतनाषाट् मरुत्वान् पर्जन्यः पूर्वदिक्पतिः ॥ १८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.67 · p. 9
पुरुहूतः पुलोमारिः पृतनाषाट् पुरंदरः ।तुराषाण्नमुचिद्वेषी विडौजा मेघवाहनः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.7 · p. 9
गौरावस्कन्दिवन्दीकौ वारणो देवदुन्दुभिः ।महेन्द्रो बाहुदन्तेयस्तुराषाड्वज्रदक्षिणः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.