कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मेघवाहन

meghavāhanaपुं · masc.

In 11 kośas: 9 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.23
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.54 · p. 7
शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः ।दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.93 · p. 17
इन्द्रे शक्र-शचीश-देवऋषभ-स्वाराट्-स्वराधीश्वराजम्भाराति-पुलोमजिन्-नमुचिभित्-सुत्राम-गोत्रारयः ।सुत्रामा बलभित् सहस्रनयनो वास्तोष्पतिर्वासवःस्युर्मेघंकर-मेघवाहन-हरि-प्राचीश-संक्रन्दनाः ॥ ९३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.55 · p. 12
सूत्रामा वासवो मेघवाहनोऽपि शतक्रतुः ।वास्तोष्पतिर्वृषा दल्मिजिष्णू वरक्रतुः पुनः ॥ ५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.41 · p. 5
जिष्णुर्वृद्धश्रवा वज्री बिडौजा नाकनायकः ।बलारातिः सुरपतिर्मरुत्वान्मेघवाहनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.184 · p. 25
शुनासीरः सुनासीरः शतक्रतुर्वरक्रतुः ।वास्तोष्पतिस्तथा दल्मिः कौशिको मेघवाहनः ॥ १८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.105 · p. 8
इन्द्रः सुरपतिः शक्रो मरुत्वान् मेघवाहनः ।शतमन्युः सुनासीरो वज्रपाणिः पुरन्दरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.67 · p. 9
पुरुहूतः पुलोमारिः पृतनाषाट् पुरंदरः ।तुराषाण्नमुचिद्वेषी विडौजा मेघवाहनः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.13 · p. 89
प्राचीनबर्हिः शम्भौ तु शक्रे स्यान्मेघवाहनः ।यक्षकर्दम इत्येष यक्षाणामपि कर्दमे ॥ १३ ॥
अनुष्टुप्
meaningsशक्र
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.54 · p. 269
प्राचीनबर्हिरिन्द्राग्न्यो रुद्रेन्द्रौ मेघवाहनौ ।मातुलपुत्रस्तून्मत्तफले मातुलसुतेऽपि स्यात् ॥ ५४ ॥
अनुष्टुप्metre not read in every line