कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुरुहूत

puruhūtaपुं · masc.

In 14 kośas: 14 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.95 · p. 11
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.23
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.53 · p. 7
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् ।आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.18 · p. 67
वृद्धश्रवाः सुनासीरः शतमन्युर्विभीषणः ।सहस्रनेत्रः पाकारिः पुरुहूतः पुरन्दरः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.21 · p. 382
वृत्रो घनाघनः शक्रः सुनासीरः पुरंदरः ।पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.25 · p. 408
विधिस्तु रौहिणो विन्दोऽथोबलश्च विरेचनः ।एकादशस्तु विजयः पुरुहूतोऽथ नैरृतः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.95 · p. 17
मघवा मघवान्पुरंदरःपृतनाषाट्-पुरुहूत-कौशिकाः ।विजयन्तक-पाकशासनौसह वृद्धश्रवसा दिवस्पतिश्च ॥ ९५ ॥
वियोगिनी
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 60 · p. 30
शतमन्युस्तुराषाट् च पुरुहूतश्च कौशिकः ।संक्रन्दनोऽथ मघवान् पुलोमारिर्मरुत्सखः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.56 · p. 12
कौशिकः शक्रपर्जन्यहर्यश्वकसुरर्षभाः ।शचीपतिः स्वर्गपतिपुरुहूतपुरंदराः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.65 · p. 9
वृद्धश्रवाः शचीनाथः पुरुहूतो जगत्पतिः ।वास्तोष्पतिर्दुश्च्यवनश्च्यवनो गर्भभिच्छरी ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.40 · p. 5
आखण्डलः सुनासीरः पुरुहूतः शतक्रतुः ।दिवस्पतिर्दुश्च[श्च्य]वनो जम्भारातिः शचीपतिः ॥ ४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.188 · p. 26
उग्रधन्वा जयो जिष्णुः पुरुहूतोऽप्परःपति ।खदिरोऽपि किणालातः खिदिरो मिहिरस्तथा ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.67 · p. 9
पुरुहूतः पुलोमारिः पृतनाषाट् पुरंदरः ।तुराषाण्नमुचिद्वेषी विडौजा मेघवाहनः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.2 · p. 9
वास्तोष्पतिर्बलरिपुः पुरुहूतः पुरन्दरः ।मघवान् पूर्वदिक्पालः पृतनाषाट् सुराधिपः । ॥ २ ॥
अनुष्टुप्
genderपुंmasc.

पुरुहूत as a meaning in nānārtha verses