प्रतीर
pratīraक्ली · neut.In 9 kośas: 9 synonym verses.
मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥ १०७७ ॥तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् ।सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
तटं त्रिषु प्रतीरं च तीरं रोधश्च रोधसम् ।स्यादथास्त्री परं पारं पारेपारमवारकम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कूलदेशस्तु मर्यादा प्रपातो रोध आदिमे ।कूलं तीरं प्रतीरं च कच्छं रोधस्तु यत्त्रिषु ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
तालूरवोलकौ तुल्यौ कूलभूः कच्छरोधसी ।कूले प्रपातमर्यादे प्रतीरं तीरमेव च ॥ ३५५ ॥
अनुष्टुप्
genderक्लीneut.
कुलं कच्छः प्रपातश्च रोधः प्रतीरमित्यपि ।तटं तीरं च विज्ञेयं नद्युदध्योस्तटं सदा ॥ १८७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderक्लीneut.
कूलं तीरं प्रतीरञ्च रोधं रोधस्तटं त्रिषु ।अथ पारमवारञ्च परमर्वाक् तटद्वयम् ।तटयोरन्तरं यत्तु तत् पात्रमभिधीयते ॥
अनुष्टुप्
genderक्लीneut.
लहरी लहरिः, फेन डिण्डीरः सहिण्डीरकः ।पिण्डीर-दिण्डिरौ तट्यां तटं तटः प्रतीरवत् ॥ ९८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 हि (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
genderक्लीneut.
कूलं रोधः प्रतीरं त्रिषु तटमुदधेस्तोयवृद्धौ च कूलेवेला द्वीपस्तु न स्त्री तटमधिसलिलं न द्वयोरन्तरीपम् ।पारावारे तु तीरे परमितरदुमे पात्रमन्तस्तयोः स्या-दावर्तश्चक्रमम्बुभ्रम उदधिकफः पुंसि डिण्डीरफेनौ ॥ ३२० ॥
स्रग्धरा
genderक्लीneut.