द्वीप
dvīpaपुंक्ली · m. n.In 16 kośas: 22 synonym verses, 18 as a meaning of another word.
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
आर्या
genderपुंmasc.
मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥ १०७७ ॥तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् ।सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंक्लीm. n.
सैकतं पुलिनं द्वीपं सिकता वालुका स्मृता ।मध्ये द्वीपमन्तरीपं ह्रदस्तोयाशयो मतः ॥ ६७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderक्लीneut.
द्रीप-रविवाह-पाताल-शक्रवाहमुख-दुर्गति-समुद्राः ।श्रीपार्श्वचिह्नफणिफल(ण)-तत्त्व-क्षेत्रा-ऽनलज्वालाः ॥ १६ ॥
आर्या
genderपुंmasc.doubtful
सप्तदश संयमाश्चाष्टादश विद्या-पुराणानि ।द्वीपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिगतानि ॥ २६ ॥
उद्गीतिः
genderपुंmasc.
वह्निपर्यायजन्मार्थो जन्तुरारोहकस्तरुः ।कारस्कर उरुर्द्वीपः पादपो विष्टर स्थिरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भवनस्यानुमानस्य लशुनस्य ततः पुनः ।गृञ्जनस्यापि शयनद्वीपयोः कुतपस्य च ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चापावायस्तूपसूर्यकुणपानां तिपस्य च ।विटपोडुपशष्पाणां मण्डपद्वीपयोरपि ॥ १६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यात्पारावारयोर्मध्ये पात्रं भाण्डं समार्थकम् ।नदी पा[65b]त्रे भङ्गुरे स्याद्वङ्कः पुंसि नपुंसके ।द्वीपोऽस्त्रियामन्तरीपं तटं पानीयमध्यगम् ॥ ३१ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
द्वीपो निपः कुणपमण्डपबाष्पशष्प-यूपानि विष्टपयुतः कुतपोष्मपौ च ।तल्पः शफोऽप्यथ च कम्बु सडिम्ब[बि]म्बंजम्भः कुसुम्भकलभौ ककुभो निभश्च ॥ ५४ ॥
वसन्ततिलका
genderपुंक्लीm. n.
कोलं कोषफलं कोरं मारीचं द्वीपमित्यपि ।लवङ्गे शिखरं दिव्यं भृङ्गारं वारिजं लवम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
पुलिनं जलहीनं तत्सैकतं सिकतामये ।अन्तर्जले चान्तरीपं द्वीपं चाथ नदी पुनः ॥ ३५६ ॥
अनुष्टुप्
genderक्लीneut.
निपानं शयनं द्वीपिगृञ्जनौ कुणपो निपः ।विष्टपद्वीपशष्पानि मण्डपो विटपोऽपि च ॥ १४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अन्तरीपं तदन्तेऽपि द्वीपोऽस्त्री मण्डलं त्रयम् ।सामान्यसैकतखले रम्यं रामं मनोहरम् ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
द्वीपोऽन्तरीपं तोयोत्थं शादो जंवीनकर्द्दमौ ।अगाधमतलस्पर्शं गभीरं निम्नकान्तरे ॥ २९१ ॥
अनुष्टुप्
genderपुंmasc.
द्वीपा दिशो दशाश्चैते भवनपतयो मताः ।श्री असुरकुमाराख्यजातिका निखिला अपि ॥ ७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 व (wrong syllable); pāda 3, syllable 3 सु (wrong syllable)
genderपुंmasc.
genderक्लीneut.
द्वीपो द्वीपं अन्तरीपं जलान्तस्तटमीरितम् ।तोयादुत्थिततीरे तु पुलिनं परिकीर्तितम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
कूलं रोधः प्रतीरं त्रिषु तटमुदधेस्तोयवृद्धौ च कूलेवेला द्वीपस्तु न स्त्री तटमधिसलिलं न द्वयोरन्तरीपम् ।पारावारे तु तीरे परमितरदुमे पात्रमन्तस्तयोः स्या-दावर्तश्चक्रमम्बुभ्रम उदधिकफः पुंसि डिण्डीरफेनौ ॥ ३२० ॥
स्रग्धरा
genderपुंक्लीm. n.
अस्त्री द्वीपोऽन्तरीपं क्ली पुलिनं तज्जलोत्थितम् ।सैकतं सिकताप्रायं सिकता भूम्नि वालुकाः ॥ ३३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
द्वीप as a meaning in nānārtha verses
- धरणिकोश क्रौञ्चन्यङ् निकृष्टे तथा कार्त्स्ने वीचिः कल्लोलस्वल्पयोः । अर्चा स्यात्प्रतिमा पूजा क्रौञ्चा द्वीपाद्रिपक्षिषु ॥ Dharaṇikośa 5.1.1
- धरणिकोश जम्बुजम्बुः सुमेरुनद्यां स्याद्द्वीपद्रुमविशेषयोः । कम्बिर्मुखे च वंशे स्यात्खजायां च प्रकीर्तिता ॥ Dharaṇikośa 22.2.3
- धरणिकोश पुष्करपुष्कराणि विदुरोषधीतीर्थ- द्वीपनागविहगोरगभेदान् । पद्मवारिगगनानि च भेरी खड्गकाण्डमिभमुण्डमुखं च ॥ Dharaṇikośa 26.3.39
- धरणिकोश कुमारीकुमारः सेनानीर्वरुणतरुरश्वपतिचरः कुमारौ स्यातां हि शिखण्डकभूमीश्चरसुतौ । कुमारी कन्यायामपि मधुकर्यामपि मता कुमारी द्वीपेऽस्मिन्नपि नवमाल्यामपि च सा ॥ Dharaṇikośa 26.3.42
- धरणिकोश कुशकुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् । कुशो रामसुते द्वीपे कुशो यज्ञाङ्गबन्धनम् ॥ Dharaṇikośa 29.3.4
- कोषकल्पतरु काकधृष्टेऽग्रजे पीठगते च मूर्धा- वक्षालने द्वीपरुषद्द्रुभेदे । स्याद्वेसवारे करटे च काकः काकी तु काकस्य वधूश्च जातिः ॥ १६ ॥ Koṣakalpataru 6.1.16
- कोषकल्पतरु क्रौञ्चकूर्चश्छद्मन्यस्त्रि[266b]यां स्यादथाद्रौ द्वीपे क्रौञ्चः पक्षिभेदे च पुंसि । चञ्चः पुंसि स्यान्नडादिप्रकारे चञ्चा तु स्त्री पूरुषे स्यात्तृणस्य ॥ Koṣakalpataru 6.5.3
- कोषकल्पतरु श्वेतप्रोतं परेते त्वपि भूतभेदे प्रेतोऽन्तिमे श्वेतमुशन्ति रूप्ये । द्वीपागयोर्ना परवत्तु शुक्ले स्त्रियां कपर्दे भिदि पाटलायाः ॥ १० ॥ Koṣakalpataru 6.16.10
- कोषकल्पतरु जम्बूद्वीपे च मेरोः सरिति स्त्रियां तु क्ली[28a]बे तथा जाम्बवनामनि स्यात् । क[म्बिः] खजाकापि च वंशखण्डं तुम्बा तु लक्ष्म्यामपि तिक्ततुम्ब्याम् ॥ ३० ॥ Koṣakalpataru 6.24.30
- कोषकल्पतरु पुष्करहस्तिहस्ताग्रके द्वीपतीर्थान्तरे वारिजे चौषधेऽसेः फले सायके । पुंसि रागो[रगे]वृष्णिपक्ष्यन्तरे सङ्गरस्तु प्रतिज्ञाक्रियाकारयोः ॥ ३२ ॥ Koṣakalpataru 6.27.32
- कोषकल्पतरु कुमारीजात्ये सुवर्णे चरमे स्त्रियां तु कुमारिकाशैलसुतानदीषु । सहौषधौ स्याद्वनमालिकायां द्वीपे तथा जम्बुपदोत्तरस्थे ॥ ४७ ॥ Koṣakalpataru 6.27.47
- कोषकल्पतरु कुशस्त्रियां तु वन्ध्यासुतयोश्च नार्या- मिभ्यां सुरभ्यामपि संप्रदिष्टा द्वीपे तथा रामसुते च दर्भे योक्त्रे कुशः स्याच्चरमे जले च ॥ २ ॥ Koṣakalpataru 6.30.2
- परमानन्दीयनाममाला क्रौञ्चक्रौञ्चो द्वीपे खगे शैले कक्षः शुष्कवने स्मृतः । बाहुमूले तृणे पापे कटः स्यात्समये शवे ॥ १०२ ॥ Paramānandīyanāmamālā 5.7.102
- परमानन्दीयनाममाला प्लक्षप्लक्षो द्वीपे वटे स्वच्छे पटुर्नीरोगदक्षयोः । पर्व ग्रन्थौ पुराणाङ्गे दर्शप्रस्तावयोरपि ॥ ३०२ ॥ Paramānandīyanāmamālā 5.19.302
- शब्दरत्नावली पुष्करक्लीबं ना पक्षिभूपालरोगद्वीपाद्रिभित्सु च । तथा वरुणपुत्रे च क्वचित्केचिप्रचक्षते ॥ Śabdaratnāvalī 7.27.90
- शब्दरत्नावली कुशकुशा रज्वां कुशं नीरे कुशी फाले कुथेऽस्त्रियाम् । पुमान् रायसुते द्वीपे त्रिषु पापिष्ठमत्तयोः । केशः सुगन्धिबालायां वरुणे कुन्तले हरौ ॥ Śabdaratnāvalī 7.30.4
- त्रिकाण्डशेष कुमारीकारे पीडा बन्धशाले क्रूरौ कठिनभीषणौ । जम्बुद्वीपसहाकन्याः कुमार्योऽथास्ववारके ॥ ३३७ ॥ Trikāṇḍaśeṣa 3.3.337
- वैजयन्ती कुमारयुवराजे च ना क्ली तु द्वीपे पुंस्त्री मृगोमयोः कुतपो भागिनेयेऽर्के विप्रेऽग्नावतिथौ गवि ॥ २९ ॥ Vaijayantī 7.5.29