सैकत
saikataक्ली · neut.In 14 kośas: 16 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥ १०७७ ॥तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् ।सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
सैकतं पुलिनं द्वीपं सिकता वालुका स्मृता ।मध्ये द्वीपमन्तरीपं ह्रदस्तोयाशयो मतः ॥ ६७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderक्लीneut.
सैकतः सिकतावांश्च देशे चान्यत्र च त्रिषु ।स्त्रियां वा भूम्नि सिकता वालुका वालिकापि च ॥ १८ ॥
अनुष्टुप्
genderविadj.
अम्मुक्तमस्त्री पुलिनं सैकतं सिकतामयम् ।मर्यादा तटभूमिः स्त्री वेला स्याद्वृद्धिरम्भसः ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
पुलीनोऽस्त्री तोयभवं सैकतं सिकतामयम् ।स्यात्पादचत्वरः शुद्रिवालुका शर्करोपमा ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
पुलिनं जलहीनं तत्सैकतं सिकतामये ।अन्तर्जले चान्तरीपं द्वीपं चाथ नदी पुनः ॥ ३५६ ॥
अनुष्टुप्
genderक्लीneut.
तोयोत्थितं तोयजं च जलजादिकमिष्यते ।सैकतं पुलिनं मारं कामगं कामवर्धनम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
ओघः स्रोतः प्रवाहश्च वेला स्याद्वृद्धिरम्भसः ।कूलं तीरं तटं रोधः पुलिनं सैकतं च तत् ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
वालुकामयतीरन्तु सैकतं सिकतामयम् ।कर्दमः कङ्कटोऽपि स्याद् जम्बालस्तु निषद्वलः ॥
अनुष्टुप्
genderक्लीneut.
शार्करः शर्करावांश्च देशे च शर्करावति ।सैकतः सिकतावांश्च देशे च सिकतावति ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
सिकता-वालुकाप्राये स्यात् सिकतिल-सैकतौ ।सिकतावान्, साखायः शाखिनेडाहाल-डाहलाः ॥ १४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 सि (wrong syllable); pāda 3, syllable 5 सा (wrong syllable)
genderपुंmasc.
तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके ।जलोज्झितेस्मिन् पुलिनं पुरिनं सैकतं तथा ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderक्लीneut.
पूरः स्यादम्भसां वृद्धिरोघः स्रोतोऽम्भसां स्रुतिः ।स्फूर्जथुर्वीचिविक्षेपे पुलिनं सैकतं समे ॥ ३२१ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री द्वीपोऽन्तरीपं क्ली पुलिनं तज्जलोत्थितम् ।सैकतं सिकताप्रायं सिकता भूम्नि वालुकाः ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
सैकत as a meaning in nānārtha verses
- कोषकल्पतरु पादचत्वरस्यात्पादचत्वरोऽजे पिप्पलसैकतकमण्डलुष्वेषः । परदोषाख्यायिनरे विप्रतिसारस्तु कौकृत्ये ॥ ४१ ॥ Koṣakalpataru 6.27.41
- शब्दरत्नावली पादचत्वरस्यात्पादचत्वरश्छागे सैकते पिप्पलेऽपि च । करके दुष्टशीले च परदोषैकवक्तरि ॥ Śabdaratnāvalī 7.27.149