कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कच्छ

kacchaपुं · masc.

In 15 kośas: 25 synonym verses, 10 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.953 · p. 38
जङ्गलो निर्जलोऽनूपोऽम्बुमान्कच्छस्तु तद्विधः ॥ ९५३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1078 · p. 42
मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥ १०७७ ॥तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् ।सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.10
शाद्वलः शादहरिते सजम्बाले तु पङ्किलः ।जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.128
प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी ।चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.667 · p. 76
तीरं कूलं तटं कच्छः प्रपातो रोध उच्यते ।अर्वाक्कूलमपारं स्यात्परं पारमिति स्मृतम् ॥ ६६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.4 · p. 4
क्लीबेऽनूपं पुंसि कच्छः स्यादथास्य विपर्यये ।नवैरल्पतृणैर्व्याप्ता धूसरा भूः फलाधिका ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.153 · p. 478
कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च ।निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.26 · p. 101
कूलदेशस्तु मर्यादा प्रपातो रोध आदिमे ।कूलं तीरं प्रतीरं च कच्छं रोधस्तु यत्त्रिषु ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.49 · p. 117
कुरुपाञ्चालसंभूतः कौरुपाञ्चाल ईरितः ।कुरुजङ्गलजे कौरुजाङ्गलः कुरुजङ्गलः ।कच्छोऽस्त्री सजले तस्मिंस्त्रिष्वनूपं च लञ्जकः ॥ ४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.84 · p. 141
आशाफलश्चित्रयोधी धूर्तवृक्षेन्द्रवृक्षकौ ।कुणिः कच्छस्तुणिस्तुन्नः कुपाणिश्च कुवेरकः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.41 · p. 112
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.242 · p. 34
निर्जलो जङ्गलो देशः कच्छोऽनूपोऽम्बुमान्स्मृतः ।कृष्णमृ[20]त्कृष्णभूमः स्यात्कुमुद्वान्कुमुदालयः ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.355 · p. 48
तालूरवोलकौ तुल्यौ कूलभूः कच्छरोधसी ।कूले प्रपातमर्यादे प्रतीरं तीरमेव च ॥ ३५५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.134 · p. 228
genderपुंक्लीm. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1623 · p. 262
प्रोक्तः पुनः जलप्रायदेशः कच्छोऽपि तद्विधः ।कुमुद्वान् कुमुदावासः कुमुद्वान् देश उच्यते ॥ १६२३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1878 · p. 306
कुलं कच्छः प्रपातश्च रोधः प्रतीरमित्यपि ।तटं तीरं च विज्ञेयं नद्युदध्योस्तटं सदा ॥ १८७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.16 · p. 46
जलप्रायप्रदेशः स्यादनूपः कच्छ इत्यपि ।शर्करा स्त्रीकर्परांशे सिकता वालुका स्मृता ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.234 · p. 75
नन्दीवृक्षो नन्दिवृक्षः कुलिः कच्छः कुवेरकः ।तुलिस्तुल्वः कान्तलको नन्दिको नन्दिवृक्षकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.391 · p. 52
शर्करावति देशेऽपि शर्करोऽथ जलान्विते ।कच्छः पुमाननूपः स्यात्कर्करा प्रखरा मही ॥ ३९१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.530 · p. 69
कुणिः कुबेरकः कच्छो नदीवृक्षो वितुन्नकः ।कच्छूरको द्राविडकः काल्यको वेधमुख्यकः ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.885 · p. 111
कक्ष्या तु चल्लणं कच्छः कौपीनं मलमूलकम् ।कञ्चुको वारवाणोऽस्त्री तद्भेदे कञ्चुली स्त्रियाम् ॥ ८८५ ॥
अनुष्टुप्
genderपुंmasc.
साधौ धुर्धर इत्युक्ते स्फटिके त्वच्छमव्ययम् ।आजिः समस्थलेऽपि स्यात् कच्छः स्यात्तटवाचके ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.12 · p. 276
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.32 · p. 156
तीरं कूलं प्रपातश्च प्रान्ते कच्छस्तटी त्रयी ।पारावारे परात्रत्ये कूले पात्रं तदन्तरम् ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.131 · p. 169
कक्षः कच्छो गुह्यबन्धः कक्ष्या पृष्ठे कृतोऽञ्चलः ।वस्त्रान्तस्त्वञ्चलो वस्तिस्त्वक्ली भूम्नि दशा न षण् ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.59
परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास छार्धश्लोकः Dharaṇikośa 6.1.1 · p. 31
कच्छो नदीतटे कच्छो नौकाङ्गे परिधानके ।गुच्छश्च स्तबके स्तम्बे हारभेदे च दृश्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ छान्ताः Koṣakalpataru 6.6.17 · p. 173
कच्छस्त्वनूपेऽपि च तुन्नकद्रौपाश्चात्त्यवस्त्राञ्चलपल्लवे च ।नौकाङ्गके स्त्री तु वराटिकायांस्याच्चीरिकायां स्तबके तु गुच्छः ॥ १७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.149 · p. 55
कच्छो जलाशयप्रान्ते पार्श्वे गुह्याम्बरे तथा ।जात्यन्तरे स्थावराणां नान्दीवृक्षाख्यपादपे ॥ १४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.150 · p. 56
कूर्मपादे च पुंसि स्यादथ स्यात् पुंसि भूमनि ।नीवृद्भेदेऽथ सिंहोऽमुमनूपे पुंस्यमन्यत ॥ १५० ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.151 · p. 56
कच्छं क्लीबेऽनूपदेश इति त्वमरदत्तवाक् ।क्षरो धाराधरे पुंसि सलिले तु नपुंसकम् ॥ १५१ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र छद्विः Śivakoṣa 6.1.104 · p. 10
कच्छा शबरकन्दे च कच्छः कान्तालकद्रुमे ॥ १०४ ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश छान्ताः Śabdaratnāvalī 7.7.3 · p. 196
आभिमुख्येऽव्ययन्त्वछं मान्तमित्यपि कुत्रचित् ।कच्छोऽनूपे तुन्नद्रुमे नौकाङ्गे च पुमानयम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्न (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.80 · p. 118
वाराही चीरिका कच्छा कच्छोऽनूपे द्रुमान्तरे ।पिच्छा स्त्रीत्वमण्डेऽपि लाङ्गुले पिच्छमस्त्रियाम् ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 पि (syllables merged)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.14 · p. 215
क्रतू अध्वरसंकल्पौ कल्पान्तेऽपचये क्षयः ।कुक्षौ वासे च कच्छस्तु पार्श्वे गुह्यांबरे तटे ॥ १४ ॥
अनुष्टुप्

कच्छ as a meaning in nānārtha verses