कूल
kūlaक्ली · neut.In 14 kośas: 13 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.
मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥ १०७७ ॥तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् ।सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
तीरं कूलं तटं कच्छः प्रपातो रोध उच्यते ।अर्वाक्कूलमपारं स्यात्परं पारमिति स्मृतम् ॥ ६६७ ॥
अनुष्टुप्
genderक्लीneut.
कूलदेशस्तु मर्यादा प्रपातो रोध आदिमे ।कूलं तीरं प्रतीरं च कच्छं रोधस्तु यत्त्रिषु ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
अखातश्च तडागोऽस्त्री तटाकः कूलमन्तिमे ।पद्माकरश्चाथ पुंसि कासारः स्यात्तुलाङ्गकः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
छायादयः शब्दाः स्त्रियां स्युर्भवेयुरित्यर्थः । यथा छाया वृक्षादेः प्रतिबिम्बः । सुरा मदिरा । निशा रात्रिः । वालुका सिकता । चमूः सेना । कन्था प्रसिद्धा । इरा जलभूमिः । एते शब्दाः स्त्रीलिङ्गे भवन्ति । यथा इयमापत् व्यसनम् । संपद्धनम् । विपत् दुःखम् । प्रतिपत्तिथिविशेषः । समित्काष्ठम् । विप्रुट् बिन्दुः ।कुशकूबरकुञ्जाङ्कुरकुठारकुन्दकुतुपा हि पुंस्युक्ताः ।कुलकूलकुङ्कुमानि तु नपुंसान्येव जानीयात् ॥ ३३ ॥
metre not recognised
genderक्लीneut.
तालूरवोलकौ तुल्यौ कूलभूः कच्छरोधसी ।कूले प्रपातमर्यादे प्रतीरं तीरमेव च ॥ ३५५ ॥
अनुष्टुप्
genderक्लीneut.
कूले रोधश्च रुद्र(द्ध?)श्च तटं तीरं च घट्टकम् ।पात्रं शुद्धं विरुद्धं चाप्यनित्यं नन्दिवर्धनम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
कूलं तीरं तरो वप्रो जलसीमोपकण्ठभूः ।वैखानसः पृथुकचा मत्स्यो मीनो झषस्तिमिः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
ओघः स्रोतः प्रवाहश्च वेला स्याद्वृद्धिरम्भसः ।कूलं तीरं तटं रोधः पुलिनं सैकतं च तत् ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
कूलं तीरं प्रतीरञ्च रोधं रोधस्तटं त्रिषु ।अथ पारमवारञ्च परमर्वाक् तटद्वयम् ।तटयोरन्तरं यत्तु तत् पात्रमभिधीयते ॥
अनुष्टुप्
genderक्लीneut.
कूलं रोधः प्रतीरं त्रिषु तटमुदधेस्तोयवृद्धौ च कूलेवेला द्वीपस्तु न स्त्री तटमधिसलिलं न द्वयोरन्तरीपम् ।पारावारे तु तीरे परमितरदुमे पात्रमन्तस्तयोः स्या-दावर्तश्चक्रमम्बुभ्रम उदधिकफः पुंसि डिण्डीरफेनौ ॥ ३२० ॥
स्रग्धरा
genderक्लीneut.
तीरं कूलं प्रपातश्च प्रान्ते कच्छस्तटी त्रयी ।पारावारे परात्रत्ये कूले पात्रं तदन्तरम् ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
नीलः कपीश्वरे शैले कृष्णे नीलं तु पादपे ।कूलं स्थाने प्रदीप्ते च भागे सैन्यस्य पश्चिमे ॥
अनुष्टुप्
सैन्यस्य पृष्ठेऽप्यथ तूलमस्त्रीपिचावथ ब्रह्मतरौ च खेऽन्त्ये ।मूलं च न स्त्री भभिदि प्रतिष्ठा-स्वादौ शिफायां निकटे निकुञ्जे ॥ ६९ ॥
उपजातिः
meaningsसैन्यपृष्ठ
doubtful
कुण्डं स्थाल्यां जलाधारविशेषेऽनलगर्तके ।पिण्याको नग्नहूः किण्वं कृलं तीरे चमूकटौ ॥ ५ ॥
अनुष्टुप्
doubtful
कूल as a meaning in nānārtha verses
- कोषकल्पतरु शम्बलशम्बलः सम्बलश्चास्त्री कूलपाथेयमत्सरे । नवाङ्कुरे चोपरागे कपोले त्रिषु कन्दलः ॥ १४ ॥ Koṣakalpataru 6.28.14
- नानार्थार्णवसंक्षेप सीमासुमेरुशिरसः प्राग्दिग्गतगङ्गान्तरेऽपि च । जानक्यामथ सीमा स्यादवधौ भूमिकूलयोः ॥ १२० ॥ Nānārthārṇavasaṃkṣepa 2.1.120
- नानार्थार्णवसंक्षेप सीमन्क्षेत्रव्यवस्थयोश्चेति डाबन्तार्थाः समीरिताः । मन्नन्तापि च सीमास्ति तस्याश्चार्था इमे मताः ॥ १२१ ॥ Nānārthārṇavasaṃkṣepa 2.1.121
- नानार्थार्णवसंक्षेप तीरउष्णे च क्ली त्वसत्त्वेऽथ तीरं कूले नपुंसकम् । तीरी तु शरभेदे स्त्री योऽल्पो वेगसमन्वितः ॥ ५४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.547
- वैजयन्ती सीमन्सन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः । सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥ Vaijayantī 6.2.44