उत्कण्ठा
utkaṇṭhāस्त्री · fem.In 17 kośas: 17 synonym verses, 8 as a meaning of another word.
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती ।हृल्लेखोत्कलिके चाथावहित्थाकारगोपनम् ॥ ३१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderस्त्रीfem.
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे ।
अनुष्टुप्
genderस्त्रीfem.
आयल्लकमुत्कण्ठा स्यादुत्कलिका रतिश्च रणरणकम् ।औत्सुक्यं हृल्लेखो विरहवियोगौ च तुल्यार्थौ ॥ ७४२ ॥
आर्या
genderस्त्रीfem.
स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ।इच्छा काङ्क्षा स्पृहेहाश्च वाञ्छा कामो मनोरथः ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
आध्या ध्यानं पुंसि वा स्यादुत्कण्ठोत्कलिके स्त्रियौ ।हृल्लेखा स्याद्रणरणस्तद्वदायल्लकः पुनः ॥ ११५ ॥
अनुष्टुप्
genderस्त्रीfem.
आध्यानं तूत्कण्ठापूर्वकचिन्ता द्वये तु चो[59a]त्कण्ठा ।उत्कलिका रतिरायल्लकं तथा पुंसि रणरणक उक्तः ॥ १५१ ॥
गीतिः
genderस्त्रीfem.
उत्कण्ठारतिरौत्सुक्यं हृल्लेखायल्लके अपि ।तन्द्रा कौसीद्यमालस्यं जाड्यं मौर्ख्यं च मूढता ॥ २०९ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्कण्ठोत्कलिकौत्सुक्यं हृल्लेखारलकारती (?) ।मौनं चाजल्पनं तूष्णी[ष्णीं?] चिन्तनं स्मरणं स्मृतिः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
अथौत्सुक्यं तथोत्कण्ठ आयल्लकं तथाऽरतिः ।उत्कलिका तथोत्कण्ठा रणरणक इत्यपि ॥ ४६२ ॥
metre not recognised
genderस्त्रीfem.
आध्या चिन्ता स्मृतिर्ध्यानमाध्यानमपि चिन्तिते ।उत्कण्ठा स्यादुत्कलिका उत्साहोऽध्यवसायवत् ॥
अनुष्टुप्
genderस्त्रीfem.
तन्द्र्यमी चत्वारः शब्दाः स्युर्मोहाऽलस्ययोरपि ।औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गूहने ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्वा (wrong syllable)
genderस्त्रीfem.
उल्लासिका स्यादुत्कण्ठारतिरुत्कालिका च सा ।अमर्षप्रतिघक्रोधकोपरोषाः स्त्रियौ परे ॥ ९७६ ॥
अनुष्टुप्
genderस्त्रीfem.
चिन्ता तु स्मृतिराध्यानं स्मरणं सस्पृहे पुनः ।उत्कण्ठोत्कलिके तस्मिन्नभिध्या तूभयोरपि ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
छले मिषं च वैदग्धी भङ्गिश्चेभनिमीलिका ।उत्कण्ठा रुहरुहिका हव्यासस्त्वतिचिन्तिया ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable)
genderस्त्रीfem.
अवसर्गः प्राकाम्यं स्वाच्छन्द्यानुमननमित्यपि च ।आकल्पक उत्कण्ठा चिन्ताकर्मण्यथास्त्यानम् ॥ २८ ॥
उपगीतिःmetre not read in every line
genderस्त्रीfem.
तन्द्रा कौसीद्यमालस्यं प्रमादोऽनवधानता ।स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्कण्ठा कंकती कन्दूर्वितस्ती रयिरञ्जलिः ।कूपस्य च त्रिका व्रीडा प्रेंखोलिः फलकी कटी ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्कण्ठा as a meaning in nānārtha verses
- धरणिकोश उत्कलिकाउत्कलिकाप्युत्कण्ठोर्म्यो… । गण्डोलिका किन्दरायां… ॥ Dharaṇikośa 1.1.16
- कोषकल्पतरु आकल्पतेविवर्तने ज्ञानशक्त्योराङः कल्पनभूषयोः । उत्कण्ठायां प्रमोदे च श्रद्धायां त्ववतः परः ॥ ९० ॥ Koṣakalpataru 3.5.90
- नानार्थार्णवसंक्षेप रतिसमाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु । रतिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 2.1.82
- नानार्थार्णवसंक्षेप स्मृतिउत्पादने चाथ सृतिर्मार्गे च गमनेऽपि च । स्मृतिस्तु धर्मशास्त्रे स्यादुत्कण्ठाचिन्तयोरपि ॥ १२५ ॥ Nānārthārṇavasaṃkṣepa 2.1.125
- नानार्थार्णवसंक्षेप रणरणकउत्कण्ठे रणरणको वियोगे त्वाह सज्जनः । मदनेऽमरदत्तोऽमुमाचष्टे शब्दवित्तमः ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 7.15
- शब्दरत्नावली आकल्पकप्रीत्युत्कण्ठा तमोमोहग्रन्थिष्वाकल्पको मतः । वायुव्याधौ व्याधनिन्दाकरेष्वाक्षेपको भवेत् ॥ Śabdaratnāvalī 7.1.158
- शब्दरत्नावली उत्कलिकाशूकरे मूषिके चौरे भवेदाखनिकः पुमान् । हेलोत्कण्ठातरङ्गेषु भवेदुत्कलिका स्त्रियाम् ॥ Śabdaratnāvalī 7.1.159
- त्रिकाण्डशेष उत्कलिकास्त्रियामुत्कलिका हेलोत्कण्ठासलिलवीचिषु । कोशज्ञे कौशिको विश्वामित्रे गौर्यां च कौशिकी ॥ ६ ॥ Trikāṇḍaśeṣa 3.3.6