कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किंवदन्ती

kiṃvadantīस्त्री · fem.

In 15 kośas: 15 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.259 · p. 15
जनश्रुतिः किंवदन्ती वार्तैतिह्यं पुरातनी ॥ २५९ ॥
metre not recognised
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.13
समस्या तु समासार्था किंवदन्ती जनश्रुतिः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.147 · p. 18
अनादिवार्त्ता ह्यैतिह्यं किंवदन्ती जनश्रुतिः ।कौलीनं जनवादः स्याद्विगानं वचनीयता ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.77 · p. 73
इतिहासः पुरावृत्तमैतिह्यमिति हाव्ययम् ।वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवह्लिका प्रहेलिका प्रकल्पनं बहूदितम् ॥ ७७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.66 · p. 446
स्यात्स्वाच्छन्द्यानुमननं प्राकाम्यं चावसर्गकः ।ऐतिह्यं ना द्वयोर्वार्ता किंवदन्ती पुरातनी ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.24 · p. 67
जनश्रुतिः किंवदन्ती निन्द्या त्वेषाभिशंसनम् ।लोकापवादः कौलीनं विगानं वचनीयता ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 154 · p. 74
प्रेष्यादेशनिदेशाज्ञानियोगाः शासनं तथा ।सन्देशः प्रिययोः वार्ता प्रवृत्तिः किंवदन्त्यपि ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.180 · p. 27
ऐतिह्यं तु किंवदन्ती जनश्रुतिरुदाहृता ।नामाभिधा गोत्रसंज्ञाख्याह्वाभिख्याह्वया अपि ॥ १८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.360 · p. 25
प्रच्छा प्रश्नोऽनुयोगाख्यः प्रत्युक्तिः प्रतिवाचिकम् ।जनःश्रुतिः किंवदन्ती कुत्सा निन्दाविगर्हणे ॥ ३६० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.100 · p. 29
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.375 · p. 48
सूचकः गुप्तभावस्य प्रवह्लिका प्रहेलिका ।जनश्रुतिः किंवदन्तीर्वार्तैतिह्यं पुरातनी ॥ ३७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह्लि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.363 · p. 26
यथार्था निश्चिता वार्ता भवेत् सर्वजनात्मिका ।कुत्सितार्थानुवादो वा किंवदन्ती जनश्रुतिः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.104 · p. 185
कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे ।निर्घुण्टुश्च, जनश्रुतौ, वदन्ती किंवदन्त्यपि ॥ १०४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 श्रु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.909 · p. 114
प्रवृत्तिवार्ते वृत्तान्त उदान्तोऽथ जनश्रुतिः ।किंवदन्त्यशरीरा तु वागेवाकाशभारती ॥ ९०९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.39 · p. 34
वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवल्हिका प्रहेलिका प्रजल्पनं बहूदितम् ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.