कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पर्याप्ति

paryāptiस्त्री · fem.

In 10 kośas: 8 synonym verses, 2 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1502 · p. 56
परित्राणं तु पर्याप्तिर्हस्तधारणमित्यपि ॥ १५०२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.7
पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.7 · p. 235
विधूननं विधुवनं मूलैः कर्म तु कार्मणम् ।पर्याप्तिः स्त्री परित्राणं तर्पणं प्रीणनावने ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.48 · p. 240
संक्षेपे च समाहारः संग्राहः संग्रहः समौ ।आप्तिर्व्याप्तिश्च संप्राप्तिः पर्याप्तिः प्राप्तिरित्यपि ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.10 · p. 30
पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ।रक्ष्णस्राणे व्यधो वेधे ज्वलो ज्वाले वरो वृतौ ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2736 · p. 445
पर्याप्तिश्च परित्राणं तृतीयं हस्तधारणम् ।चतुर्थं नाम विज्ञेयं हस्तस्थापनमित्यपि ॥ २७३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.9 · p. 171
परित्राणे तु पर्याप्तिः तथा च हस्तवारणम् ।अनुमा स्यादनुमितिस्तथानुमानमित्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 नु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1711 · p. 206
अनुहारोऽनुकरणं निर्हारोऽभ्यवकर्षणम् ।परित्राणं तु पर्याप्तिर्हस्तवारणमित्यपि ॥ १७११ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.35 · p. 72
पर्याप्तिः स्यात्परित्राणे प्राप्तिप्रकामयोरपि ।संवित्तिः प्रतिपत्तिः स्यात्संवित्तिरविवादितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.40 · p. 224
आसत्तिः स्त्री लाभे सङ्गे पर्याप्तिस्तु त्राणे प्राप्तौ ।प्राकाम्येऽथो निर्वृत्तिः स्याद्वैराग्यादौ पञ्चत्वेऽपि ॥ ४० ॥
metre not recognised

पर्याप्ति as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् कुशलपर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २०४ ॥ Amarakośa 3.3.204
  • नामलिङ्गानुशासनम् अलम्अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । Amarakośa 3.3.492
  • धरणिकोश परीवापआक्षेपः स्यादुपक्षेपे काव्यालंकारनिन्दयोः । परीवापः परिक्षेपे पर्याप्तौ सलिलस्थितौ ॥ Dharaṇikośa 20.2.7
  • धरणिकोश अलम्अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ Dharaṇikośa 34.15.4
  • कोषकल्पतरु प्रभूभूः प्रात्प्रताप-पर्याप्ति-शक्त्यैश्वर्यातिशायने । जन्मन्याद्योपलब्धौ वेः संपदैश्वर्यसंस्तवे ॥ ८ ॥ Koṣakalpataru 3.5.8
  • कोषकल्पतरु अलम्अलं तु भूषा-प्रतिषेध-शक्ति- पर्याप्ति-वैयर्थ्य-निवारणेषु । शं स्यात्सुखे मङ्गलवाचकं च सं तु प्रकृष्टे रुचिरे समे च ॥ ९ ॥ Koṣakalpataru 5.1.9
  • कोषकल्पतरु कुशलपर्याप्तिक्षेमपुण्येषु कुशलं शिक्षितेऽन्यवत् । दन्ततालव्यमूर्धन्यमध्यं मुसलमस्त्रियाम् ॥ ४ ॥ Koṣakalpataru 6.28.4
  • नानार्थार्णवसंक्षेप कुशलपर्याप्तौ मङ्गले पूर्णे स्यात् कुसुम्भं तु कुङ्कुमे । क्ली महारजतेऽप्यस्य पुनः स्तम्बे स्त्रियामियम् ॥ ४९८ ॥ Nānārthārṇavasaṃkṣepa 4.498
  • शब्दरत्नावली परिवापउपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥ नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥ परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ Śabdaratnāvalī 7.21.21
  • शब्दरत्नावली कुशलकिहालस्ताम्रकलसे तथा लोहमलेऽस्त्रियाम् । कीलालं रुधिरे तोये पीयूषे च मधुन्यपि ॥ कुशलं शिक्षिते क्षेमे पर्याप्तौ सुकृते त्रिषु । कुवलं तूत्पले मुक्ताफले च बदरीफले ॥ Śabdaratnāvalī 7.28.53
  • शब्दरत्नावली अलम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नाकर परिवर्तवायुभेदे परिवहः परिवर्तो जगत्क्षये । परिभ्रमेऽब्दे पर्याप्तौ परिक्षेपस्तु वेष्टने ॥ २२१४ ॥ Śabdaratnākara 4.1.2214
  • शब्दरत्नाकर अलम्अलं तु शक्तौ पर्याप्तौ भूषणे विनिवारणे । अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ॥ २२६० ॥ Śabdaratnākara 5.2.2260
  • वैजयन्ती कुशलकुशलं निपुणे पुण्ये पर्याप्तौ मंगले क्षमे । कुकूलं शंकुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ २४ ॥ Vaijayantī 7.5.24
  • वैजयन्ती उपसंपन्नपर्याप्तावुपसंपन्नं मृते प्राप्ते सुसंस्कृते । नक्षत्रनेमी रेवत्यां स्त्री ना विष्णौ हिमद्युतौ ॥ २६ ॥ Vaijayantī 8.5.26
  • वैजयन्ती अलम्पीडेर्ष्यानुमतिष्वस्तु स्यादध्यधिक ईश्वरे । अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे ॥ १३ ॥ Vaijayantī 8.7.13