प्रार्थना
prārthanāस्त्री · fem.In 10 kośas: 6 synonym verses, 8 as a meaning of another word.
अध्येषणैषणा याच्ञा याचना प्रार्थना स्मृता ।क्षुद्वान्बुभुक्षितः प्सातो जिघत्सुः क्षुधितस्तथा ॥ ३६० ॥
अनुष्टुप्
genderस्त्रीfem.
अर्दनी चार्दनिरपि स्त्रियः स्युः प्रार्थनार्थना ।अभ्यर्थना भिक्षणा च मार्गणामूः स्त्रियश्च षण् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
याचना प्रार्थना याच्ञा प्रणयोऽध्येषणैषणे ।अर्दनासनिनाम्नी च मण्डनेऽलंकरिष्णुकः ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्दना प्रार्थना याच्ञा दानं त्यागो विसर्जनम् ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ १३० ॥
अनुष्टुप्
genderस्त्रीfem.
सत्कारपूर्वकेकर्मण्यध्येषणा सनिः सनी ।अथ याच्ञाऽभिशस्तिश्च प्रार्थना याचनार्थना ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderस्त्रीfem.
वासुदेवाह्वयाह्वा(ध्या)ने कुम्भमुद्रा तु रक्षणे ।सर्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रदर्शयेत् ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रार्थना as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् लालसलालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च । Amarakośa 3.3.446
- कोषकल्पतरु प्र-अर्थ्हृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् । आशंसते तथाशास्ते नाथते च शुभैषणे ॥ इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः । स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा ॥ प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ । चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च । याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् । स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः । जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने । आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः । प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि ॥ व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये । समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु अभिशस्तिअपवादे तु जनानामभिशस्तिः प्रार्थनायां च । गन्धवती मद्यभुवोर्योजनगन्धानगर्योश्च ॥ ७८ ॥ Koṣakalpataru 6.17.78
- नानार्थार्णवसंक्षेप लालसालाङ्गूली तु स्त्रियां पृश्निपर्ण्याख्यस्थावरान्तरे । लालसा तु न नौत्सुक्ये प्रार्थनायां च दौहृदे ॥ १५६४ ॥ Nānārthārṇavasaṃkṣepa 4.1564
- नानार्थार्णवसंक्षेप अभिशस्तिप्रार्थने चाभिशापे च वैजयन्त्यां तु पठ्यते । दूषणे प्रार्थने चाथो अजयस्यार्धमुत्तरम् ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 6.7
- परमानन्दीयनाममाला प्रणयप्रघणस्ताम्रकुम्भे यो मुद्गरेऽलिन्दके तथा । प्रणयः प्रार्थनाप्रेमविश्रम्भेषु निगद्यते ॥ ३११ ॥ Paramānandīyanāmamālā 5.19.311
- शब्दरत्नावली अभिशस्तिअनुमतिः कलाहीनशशाङ्कानुज्ञयोरपि । अभिशस्तिः प्रार्थनायामपवादेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.157
- वैजयन्ती अभिशस्तिधात्र्यां पाल्यां चांकपालिरभिशस्तिस्तु दूषणे । प्रार्थने चान्तशय्या तु भूमिशय्याश्मशानयोः ॥ २ ॥ Vaijayantī 8.2.2