कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

शेषकाण्डः · स्त्रीलिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां शेषकाण्डे पुंलिङ्गाध्यायः

शेषकाण्डे स्त्रीलिङ्गाध्यायः

अर्चनायामपचितिः प्रक्षये निष्कृतौ व्यये ।अजमोदा शाल्मलेश्च निर्यासेऽथ गदद्रुहि ॥ १ ॥
8.2.1 · p. 271
अनुष्टुप्
धात्र्यां पाल्यां चांकपालिरभिशस्तिस्तु दूषणे ।प्रार्थने चान्तशय्या तु भूमिशय्याश्मशानयोः ॥ २ ॥
8.2.2 · p. 271
अनुष्टुप्
अनर्थवाचीतिकथा स्यादश्रद्धेयवाचि च ।रहस्यार्थे तूपनिषद्धर्मवेदान्तयोरपि ॥ ३ ॥
8.2.3 · p. 271
अनुष्टुप्
उपलब्धिस्तु शेमुष्यां प्राप्तिविज्ञानयोरपि ।ऋश्यप्रोक्ता शतावर्यां कण्डूरातिबलर्धिषु ॥ ४ ॥
8.2.4 · p. 271
अनुष्टुप्
फलिनी स्याद्गण्डफली कलिका चंपकस्य च ।वाद्यभेदे घर्घरिका वाद्यानां लगुडेऽपि च ॥ ५ ॥
8.2.5 · p. 271
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable); pāda 3, syllable 5 घ (wrong syllable)
श्रीवेष्टे तैलपर्णी स्याद्धवलेऽपि च चन्दने ।दाक्षायणी भवान्यां भुव्यश्विन्याद्युडुषु श्रियाम् ॥ ६ ॥
8.2.6 · p. 271
अनुष्टुप्
गौरीदिशोर्दक्षकन्या प्रतिपत्तिस्तु गौरवे ।प्रत्त्याप्तिप्रतिभाज्ञानेष्वथ नीलीविशल्ययोः ॥ ७ ॥
8.2.7 · p. 271
अनुष्टुप्
मधुपर्णीत्यथ द्राक्षादूर्वे मधुरसेत्युभे ।चुच्छुन्दर्यां राजपुत्री राजकन्या पिचिण्डके ॥ ८ ॥
8.2.8 · p. 271
अनुष्टुप्
वैजयन्ती पताकायां जयन्त्यां केशवस्रजि ।गुञ्जायूथ्यौ शिखण्डिन्यौ द्राक्षा स्वादुरसा सुरा ॥ ९ ॥
8.2.9 · p. 271
अनुष्टुप्
समुद्रान्ता यवाषे च कार्पासीस्पृक्कयोरपि ।गौर्यामपि सिनीवाली मदिरापि हरिप्रिया ॥ १० ॥
8.2.10 · p. 271
अनुष्टुप्
गङ्गा पथ्या हैमवती गौरी शुक्लवचापि च ।
8.2.11 · p. 271
अनुष्टुप्

इति चतुरक्षराः

गोरक्षजंबूर्गोधूमधान्ये गोरक्षतण्डुले ॥ ११ ॥
8.2.11 · p. 272
अनुष्टुप्
चिलिमीलिकातसी स्यात् खद्योते कण्ठभूषणे चापि ।योजनगन्धा सीता कस्तूरी व्यासमाता च ॥ १२ ॥
8.2.12 · p. 272
आर्या
वृषाकपायी श्रीगौर्योः शोफघ्न्यां प्रावृषायणी ।हरिद्रायां वरायां च रामायां वरवर्णिनी ॥ १३ ॥
8.2.13 · p. 272
अनुष्टुप्

इति पञ्चाक्षराः

व्यथने सूचना सूचा दर्शनेऽभिनयेऽपि च ।पार्वत्यामपि मातंगी रौद्र्युग्रा कौशिकीति च ॥ १४ ॥
8.2.14 · p. 272
अनुष्टुप्
माषपर्ण्यां कृष्णवृन्ता सिंहपुच्छी महासहा ।रात्रावप्यर्जुनी सौम्या शिखा चूडा शिरस्यपि ॥ १५ ॥
8.2.15 · p. 272
अनुष्टुप्

इति विषमाक्षराः

भूः क्षितौ स्थानमात्रे च वभ्रिकायोषितोः स्त्रियौ ।उपायद्वारयोर्द्वाः स्यात् पूः स्यान्नगरदेहयोः ॥ १६ ॥
8.2.16 · p. 272
अनुष्टुप्
धूः स्याद्यानमुखे भारे नौस्तु काले तरावपि ।ज्या पृथिव्यां च मौर्व्यां च स्वर्व्योम्नोर्द्योदिवावुभे ॥ १७ ॥
8.2.17 · p. 272
अनुष्टुप्
ऋशब्दः स्याद्दिव्यदितौ त्विड्ज्वालाकान्तिदीप्तिषु ।उत्साहेऽन्नरसेऽप्यूर्क् स्यात् स्रुक् स्रुवे शोषणे गतौ ॥ १८ ॥
8.2.18 · p. 272
अनुष्टुप्
लक्ष्मीरिव लवंगे श्रीः पद्मायां कान्तिसंपदोः ।रुग्ज्वालाकान्तिवांछासु तृट् तु लिप्सापिपासयोः ॥ १९ ॥
8.2.19 · p. 272
अनुष्टुप्
यथा तृष्णा यथा तर्षस्त्वग्गन्धद्रव्यवल्कयोः ।
8.2.21 · p. 272