कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विश्राणन

viśrāṇanaक्ली · neut.

In 13 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.52 · p. 19
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने ।विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥विश्राणनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.52
त्यागो विहापितं दानमुत्सर्जनविसर्जने ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.419 · p. 48
विश्राणनं विहापितमंहतिरपवर्जनं वितरणं च ।निर्वपणं च स्पर्शनमुत्सर्गः स्यात्प्रदेशनं दानम् ॥ ४१९ ॥
गीतिः
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.100 · p. 79
विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ १०० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 238
वरोऽभीष्टार्थदानं स्याद्दानं तु प्रतिपादनम् ।विश्राणनं वितरणं स्पर्शनं च विहापनम् ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.131 · p. 25
वृत्तस्याध्ययनस्यापि संपत्तिर्ब्रह्मवर्चसम् ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.226 · p. 53
त्यागे विहायितं दानमुत्सजर्नविसर्जने ।विश्राणनं स्पर्शनं चाप्यपवर्जनमंहतिः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.12 · p. 42
दानं दानप्रतिग्राह्यं षट्कर्माणीरितानि च ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.130 · p. 32
अर्दना प्रार्थना याच्ञा दानं त्यागो विसर्जनम् ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.574 · p. 74
तथा निर्वापरणं निर्वपणं प्रादेशनं पुनः ।अंहतिः स्पर्शनं विश्राणनं स्याच्च वापवजनन् ॥ ५७४ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.57 · p. 114
विश्राणनं विश्रणनं दत्तिरंहतिरंहती ।उत्सर्जनं निर्वपणमुत्सर्गः प्रतिपादनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1249 · p. 153
वितीर्णिरंहतिस्त्यागोऽतिसर्गः प्रतिपादनम् ।उत्सर्जनं वितरणं विश्राणनविसर्जने ॥ १२४९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.118 · p. 92
त्यागो दानं वितरणं विश्राणनविसर्जने ।विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.