सन्ध्या
sandhyāस्त्री · fem.In 16 kośas: 20 synonym verses, 2 as a nānārtha head word, 9 as a meaning of another word.
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ।व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ॥ २ ॥प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः ।
अनुष्टुप्
genderस्त्रीfem.
दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः ।प्रहरो यामः सन्ध्ये रजनीदिनयोः प्रवेशनिष्कासौ ॥ १०६ ॥
गीतिः
genderस्त्रीfem.
प्रत्यूषः प्रत्युषश्च स्यात् प्रत्यूषः प्रत्युषस्तथा ।स्यात् … सन्ध्या सन्धेति च द्वयम् ॥ ३८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
भुवन-वलि-वह्नि-विद्या-सन्ध्या-गजजाति-शम्भुनेत्राणि ।त्रिशिरोमौलि-दशा-क्षेत्रपाल-फण-काल-मुनि-दण्डाः ॥ ५ ॥
आर्या
genderस्त्रीfem.
सायोऽपि स्यात्स्त्रियां सन्ध्या पितृपर्यायसूर्रुमा ।निण्मुखं च प्रदोषः स्यात्सन्धा सन्धिश्च पुंस्ययम् ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
तेषां तावच्छती सन्ध्या सन्ध्यांशश्च यथाक्रमात् ।अष्टाविंशी प्रयात्येषा तस्याः स्यात्साम्प्रतं कलिः ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
मङ्गल्या रथ्यया तुल्या शस्या सन्ध्यार्द्रया समा ।कजेराकृसरेर्वारुः क्षुद्रा गोत्री च कन्धरा ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
सत्यं कृतयुगं दिव्यवत्सराणां भवेदिदम् ।चतुःसहस्राणि चतुःशत्या संध्यास्य सम्मता ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
मध्याह्नस्तु दिवामध्यं मध्यन्दिनमपीष्यते ।सन्ध्या सायं च पितृसूर्विकालः सबलिस्तथा ॥ १३० ॥
अनुष्टुप्
genderस्त्रीfem.
चित्या योग्या माया [पेया?] पर्या कक्ष्या संध्या रथ्या ।शम्या नश्या दूष्या कुल्या होरा योग्या ज्या मङ्गल्या ॥ ५३ ॥
metre not recognised
genderस्त्रीfem.doubtful
सायं तु पितृसूः सन्ध्या त्रिसन्ध्यं तूपवैणवम् ।कुतपो श्राद्धकालस्तु भागोऽष्टमो दिनस्य यः ॥ १२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
genderस्त्रीfem.
सायो दिनान्तः सायाह्णो विकालः सायमित्यपि ।सन्ध्या पितृप्रसूः सन्ध्या स्याद्ब्रह्मभूतिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्म (wrong syllable)
genderस्त्रीfem.
सन्ध्या समस्या व्रज्या च कारणा च सनापि च ।जरा धरा भिदा हारा पाठालेखा गुहादयः ॥
अनुष्टुप्
genderस्त्रीfem.
दिनावसाने सायोऽस्त्री सायं स्यान्मान्तमव्ययम् ।पितृप्रस्वां सन्धा सन्द्या सन्धिश्चापि विभावरौ ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderस्त्रीfem.
सन्ध्या स्यात् सन्धया साकं संप्रत्याङ्भ्यः परः श्रवः ।वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ज (wrong syllable)
genderस्त्रीfem.
आगूयवागूवाक्सृ(स्र?)क्त्वक्स्फिग्ज्योग्नौदिगृगुष्णिहः ।संध्या कथा[शीः] कन्था द्वाः पूर्धूर्गी[र्विट्] पिपीलिका ॥ २३११ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
सन्ध्या पितृप्रसूः सन्धा ॥ ३५ ॥
genderस्त्रीfem.
काल्यं प्रभातं स्त्री वोषः सन्धा सन्ध्या पितृप्रसूः ।तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
सन्ध्या as a meaning in nānārtha verses
- धरणिकोश उषस्वसुरश्वेऽश्चमेधाख्ये उषः सन्ध्याप्रभातयोः । हविः सर्पिषि होतव्ये वपुर्भव्याकृतौ तनौ ॥ Dharaṇikośa 31.1.5
- कोषकल्पतरु उषस्स[90a]रस्तडागे न नरे जलेऽन्त्ये- ऽथोषः प्रभाते श्रुतिरन्ध्रके ज्ञैः । नपुंसि संध्यार्थकमङ्गना तु स्याद्देवतायामथ खे नभः स्यात् ॥ ७ ॥ Koṣakalpataru 6.31.7
- नानार्थार्णवसंक्षेप सन्धिउपांशु यच्च क्रियते स्वेष्वनीकेषु विग्रहे । सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥ Nānārthārṇavasaṃkṣepa 2.1.112
- नानार्थार्णवसंक्षेप उषस्उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः । सन्ध्याप्रभातयोर्नप्स्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥ Nānārthārṇavasaṃkṣepa 2.5.107
- नानार्थार्णवसंक्षेप गर्वरीसन्ध्यायां गर्वरी स्त्री स्याद् गन्धर्वस्तु द्वयोर्हये । मृगभेदे गोलपुससमाख्ये दिव्यगायने ॥ ६३८ ॥ Nānārthārṇavasaṃkṣepa 4.638
- नानार्थार्णवसंक्षेप शर्वरीक्ली स्त्री तु शर्वरी रात्रौ सन्ध्यायामपि योषिति । अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः ॥ १७९३ ॥ Nānārthārṇavasaṃkṣepa 4.1793
- शब्दरत्नावली विद्यत्विश्वस्ता विधवायां स्याज्जातविश्वासके त्रिषु । विद्यत् त्रिषु निष्प्रभे स्यात्सन्ध्याचपलयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.16.136
- शब्दरत्नावली ऊषस्भवेदुत्तंस उत्तसः कर्णपूरेऽपि शेखरे । उरः श्रेष्ठे हृदि क्लीबमूषः प्रत्यूषसन्ध्ययोः ॥ Śabdaratnāvalī 7.32.18
- वैजयन्ती शर्वरीपापेऽपि वृजिनं केशे पुमानिन्दुस्तु शर्वरः । स्त्री रात्रिसन्ध्याशर्वर्यो र्दैत्ये ना शंबरोऽप्सु षण् ॥ ८४ ॥ Vaijayantī 7.5.84