महेश्वरी
maheśvarīस्त्री · fem.In 12 kośas: 11 synonym verses, 1 as a nānārtha head word.
ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ १०४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कला वाणी महाविद्या मन्त्ररूपा महेश्वरी ।ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
अथान्या राजरीतिस्तु ब्राह्मी राज्ञी महेश्वरी ।काका तुण्डी च कपिला पिङ्गला लोहसंकरम् ॥ ५५६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुवर्णकं कीशलोहमारः स्त्री पित्तला न ना ।सिंहलं चारकूटोऽस्त्री राजरीतिर्महेश्वरी ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
नीचं द्राविडभूषार्हं पैत्तलं पित्तहेतुकम् ।राजरीत्यां ब्रह्मरीतिः स्वर्णरीतिर्महेश्वरी ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
पीतलोहं रिरी रीतिः कपिलोहं सुवर्णकम् ।कपिला तु ब्रह्मरीतिर्ब्राह्मी सा च महेश्वरी ॥ ३२८ ॥
अनुष्टुप्
genderस्त्रीfem.
महेश्वरी चार्जुनी च बाहुदा चाप्यगोपदा ।गौतमी त्र्यम्बकोद्भूता गोदा गोदावरी तथा ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
दाक्षायणी च शर्वाणी महामाया महेश्वरी ।भैरवी भूतनाथा च शंकरी सिंहवाहना ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
ब्राह्मी तु ब्रह्मरीतिश्च कपिला महेश्वरी तथा ।राज्ञी नाम्ना भवेदेकप्रकारस्य हि पित्तलम् ॥ १८१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
पित्तलं कपिलोहं स्याद्राजरीतिर्महेश्वरी ।काञ्चनी कपिला राष्ट्री ब्राह्मणी चारमस्त्रियाम् ॥ ४१९ ॥
अनुष्टुप्
genderस्त्रीfem.
लाह्यमप्यार कूटोऽस्त्री पित्तलं त्वारमस्त्रियाम् ।राजरीत्यां ब्रह्मरीतिः स्वर्णरातिर्महेश्वरी ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
महेश्वरस्तु ना मृत्युञ्जये स्याद्गुल्गुलावपि ।महेश्वरी तु स्त्री ब्रह्मरीतिसंज्ञकलोहके ॥ ४४८ ॥
अनुष्टुप्