पित्तल
pittalaक्ली · neut.In 13 kośas: 11 synonym verses, 5 as a nānārtha head word, 9 as a meaning of another word.
पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् ॥ १०४७ ॥रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् ।
अनुष्टुप्
genderक्लीneut.
पीतलोहस्तु रीतिः स्यादारकूटन्तु रोमणम् ।आरं पित्तलमित्युक्ते कांस्यं घण्टास्वनं विदुः ॥ १९७ ॥
अनुष्टुप्
genderक्लीneut.
घण्टाशब्दं विद्युदर्थात्प्रियाहूमसुराह्वयम् ।कंसोऽस्त्रियां च ताम्रार्द्धमारमस्त्री तु पित्तलम् ॥ ५५४ ॥
अनुष्टुप्
genderक्लीneut.
सक्षीरस्य तमिस्रस्य स्थालीकाहलयोरपि ।कदलीयुगलीजालस्थलानां पित्तलस्य च ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
सुवर्णकं कीशलोहमारः स्त्री पित्तला न ना ।सिंहलं चारकूटोऽस्त्री राजरीतिर्महेश्वरी ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कुप्यं तु तद्द्वयादन्यद्रूप्यं तु द्वयमाहतम् ।आरं तु पित्तलेऽथारकूटो रीरी सुलोहकम् ॥ ३२७ ॥
अनुष्टुप्
genderक्लीneut.
हेमरुक्पित्तलं रीतिः लोहोऽयस्तीक्ष्णमायसम् ।सूतो रसः शम्भुशुक्रं पारदो रसराजकः ॥ २४८ ॥
अनुष्टुप्
genderक्लीneut.
पित्तलन्त्वारकूटोऽस्त्री रीती रीतिः स्त्रियामपि ।स्यात् ताम्रं ताम्रकं शुल्वं वरिष्ठं मुनिपित्तलम् ॥
अनुष्टुप्
genderक्लीneut.
पित्तलं कपिलोहं स्याद्राजरीतिर्महेश्वरी ।काञ्चनी कपिला राष्ट्री ब्राह्मणी चारमस्त्रियाम् ॥ ४१९ ॥
अनुष्टुप्
genderक्लीneut.
पित्तलं त्वारमस्त्रियाम् ॥ १७६ ॥
genderक्लीneut.
लाह्यमप्यार कूटोऽस्त्री पित्तलं त्वारमस्त्रियाम् ।राजरीत्यां ब्रह्मरीतिः स्वर्णरातिर्महेश्वरी ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
क्रमादट्टालिकाबन्धे तताङ्गुलिकरेऽपि च ।पित्तलं तैजसद्रव्ये तत्तु पित्तकरेऽन्यवत् ॥ ११ ॥
अनुष्टुप्
पित्तला तोयपिप्पल्यां निस्तलं वृत्तलोलयोः ।स्यात्कुन्तलः पुंसि यवे लाङ्गले देशकेशयोः ॥ १२ ॥
अनुष्टुप्
meaningsतोयपिप्पली
भव्ये क्लीबं पिङ्गला तु रुचौ क्लीबं तु पत्रके ।पित्तला तोयपिप्पल्यामारकूटे तु पित्तलम् ॥ ४६७ ॥
अनुष्टुप्
meaningsआरकूट
वीणादण्डे प्रबालोऽत्री विद्रुमे नवपल्लवे ।नले काशे पोटगलः पित्तत्युक्ते च पित्तलः ॥ ४०० ॥
अनुष्टुप्
meaningsपित्तयुक्त
पित्तल as a meaning in nānārtha verses
- कोषकल्पतरु द्रव्यस्त्रीगोसमूहे द्रविणे तु द्रव्यं भ्वादौ विनेयेऽपि च पित्तले च । तथौषधे स्यादपि जातुषे च तरोर्विकारे चरमे सदैव ॥ ३५ ॥ Koṣakalpataru 6.26.35
- कोषकल्पतरु पीतकावेररोषे भवेदनुशये पौनःपुन्ये तु भृशार्थे । इह समभिहार उक्तो घुसृणेऽन्त्ये पीतकावेरम् । स्यात्पित्तलेऽथ तालीसपत्रमुक्तं च तालीसे ॥ ४२ ॥ Koṣakalpataru 6.27.42
- नानार्थार्णवसंक्षेप रीतिप्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 2.1.86
- नानार्थार्णवसंक्षेप द्रव्यऔषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु । दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 2.3.31
- नानार्थार्णवसंक्षेप आरआरस्त्वङ्गारके गत्यामागतौ च पुमानथ । क्षुद्रशस्त्रविशेषेषु स्त्रियामाराथ पित्तले ॥ ६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.66
- शिवकोष राजपत्नीराजपत्नी रेणुकायां पित्तले राजसर्षपे । वृक्षादनं मधुच्छत्रे क्लीबे पुंसि गजाशने ॥ २७८ ॥ Śivakoṣa 16.2.278
- शब्दरत्नावली रीतिरीतिः प्रचारे स्यन्दे च पित्तले लोहकिहके । लता स्यान्माधवीदूर्वापृक्काज्योतिष्मतीषु च ॥ Śabdaratnāvalī 7.16.47
- शब्दरत्नावली द्रव्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- त्रिकाण्डशेष द्रव्यनिन्द्ये वस्त्रगृहे दूष्यं दस्युस्तस्करवैरिणौ । भेषजे द्रुविकारे च द्रव्यं भव्ये च पित्तले ॥ ३१४ ॥ Trikāṇḍaśeṣa 3.3.314