योगभेद
yogabhedaIn 4 kośas: 0 synonym verses, 17 as a meaning of another word.
योगभेद as a meaning in nānārtha verses
- धरणिकोश ध्रुवध्रुवः शिवे स्याद्वसुयोगभेदयो- र्नित्ये च कीले च वटद्रुमे च । स्रुग्गीतिभेदावपि ? सालपर्णिका ध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥ Dharaṇikośa 22.3.2
- कोषकल्पतरु गण्डगण्डः पुमान्खड्गिनि योगखेट- भेदेषु चिह्ने पिटके प्रवीरे । स्याद्वाजिनां भूषणबुद्बुदे च कपोलवीथ्यङ्गकवाचकश्च ॥ ७५ ॥ Koṣakalpataru 6.12.75
- कोषकल्पतरु धर्षणयाम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ Koṣakalpataru 6.15.26
- कोषकल्पतरु व्यायतस्याद्व्यायतं दीर्घदृढाधिकेषु व्यासक्तचेतस्यपि योगभेदे । व्याघात उक्तः प्रहृतौ च विघ्ने संघे तु घाते नरकान्तरे च ॥ १० ॥ Koṣakalpataru 6.16.10
- कोषकल्पतरु आयुष्मत्प्रत्याख्याते प्रेषिते च परिक्षिप्तश्च कुण्ठिते । पुंस्यायुष्मान्योगभेदे वाच्यवच्चिरजीविनि ॥ ६८ ॥ Koṣakalpataru 6.17.68
- कोषकल्पतरु इन्द्रतथान्तरात्मन्य[पि] योगभेदे फणिज्जके योषिति सम्मतोऽयम् । क्लिन्ने तथार्द्रस्त्रिषु भे पुनः स्त्री सान्द्रं त्वरण्ये च घने मृदौ च ॥ ५२ ॥ Koṣakalpataru 6.27.52
- शब्दरत्नावली परिघउल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु । निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥ पलिघः कलशे काचघटगोपुरसद्मसु । परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥ प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥ Śabdaratnāvalī 7.4.8
- शब्दरत्नावली हर्षणीकाञ्चनप्रतिमायाञ्च तरुण्याञ्च वरस्त्रियाम् । हर्षणी योगभेदे स्याच्चक्षूरोगविशेषके ॥ Śabdaratnāvalī 7.15.71
- शब्दरत्नावली धृतिधूर्तो ना धुस्तरे खण्डणवणे स्याद्विटे त्रिषु । धृतिर्धैर्ये धारणे च योगभेदेष्टितुष्टिषु ॥ Śabdaratnāvalī 7.16.20
- शब्दरत्नावली व्यतिपातपारावती नदीगोपगीत्योश्च लवलीफले । पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥ पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे । भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥ स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् । रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥ लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् । व्यतिपातो योगभेदे महोत्पातापमानयोः ॥ Śabdaratnāvalī 7.16.171
- शब्दरत्नावली ब्रह्मन्फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥ मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥ बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.62
- शब्दरत्नावली शोभनश्लैषघ्नी मल्लिकाज्योतिष्मत्योस्त्रिकटुके स्त्रियाम् । शोभनः स्याद्योगभेदे स्यात्पुमान् सुन्दरे त्रिषु ॥ Śabdaratnāvalī 7.20.87
- शब्दरत्नावली सुकर्मन्सदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली विष्कम्भवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
- शब्दरत्नावली इन्द्रआरुर्वराहे पुंसि स्यात्तरुभेदे च कर्कटे । इन्द्रः शक्रे योगभेदे सूर्यभेदेऽन्तरात्माने ॥ इन्द्रा फणिज्झके स्त्री स्यादिन्द्रान्यामपि कुत्रचित् । उग्रस्त्रिषूत्कटे पुंसि क्षत्राच्छूद्रासुते शिवे ॥ Śabdaratnāvalī 7.27.5
- शब्दरत्नावली वरीयस्वरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥ विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ Śabdaratnāvalī 7.32.53
- त्रिकाण्डशेष परिघपरिघो योगभेदेऽपि मेधो वारिदमुस्तयोः । महार्घस्तु महामूल्ये पुंसि लावकषक्षिणि । पृक्कायां स्त्री लघुः क्लीबं शीघ्रे कृष्णागुरुण्यपि ॥ ७३ ॥ Trikāṇḍaśeṣa 3.3.73