शोभन
śobhanaवि · adj.In 17 kośas: 15 synonym verses, 5 as a nānārtha head word, 24 as a meaning of another word.
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
अनुष्टुप्
genderविadj.
रोहिणं रोहिणी ब्राह्मं प्राजापत्यं च धातृभम् ।मृगशीर्षं मृगशिरं सौम्यं मृगश्च शोभनम् ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मृ (wrong syllable)
genderक्लीneut.
वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् ।रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वञ्जुलम् ॥ १०१ ॥
अनुष्टुप्
genderविadj.
विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः ।अतिगण्डः सुकर्मा च धृतिः शूलं ततः पुनः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
मनोरमं मञ्जुल-मञ्जु-वल्गु-काम्यानि सौम्यं मधुरं च हारि ।स्याच्छोभनं चारु च साधु कम्रंरम्यं सुरूपं सुषमं च दृश्यम् ॥ ६१ ॥
उपजातिः
genderविadj.doubtful
मनोहरमनोज्ञे तु रुचिरं मञ्जुमञ्जुले ।कान्तं वल्गु प्रियं रुच्यं शोभनं चारुपेशले ॥ ३३२ ॥
अनुष्टुप्
genderविadj.
रज्जौ शुभं(ल्बं?) शोभनं च शुम्भं वटकरोऽपि च ।वटी वटो वटं चापि गुणो वटकरीति च ॥ ६०१ ॥
अनुष्टुप्
genderक्लीneut.
कान्तं रम्यं चारु हारि कमनीयं मनोरमम् ।हृद्यं काम्यं रमणीयं प्रशस्तं साधु शोभनम् ॥ ९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
genderविadj.
genderविadj.
तेनैवोद्भिदमुद्भिज्जमुद्भिदिति निगद्यते ।सुन्दरं शोभनं साधु मञ्जु कान्तं मनोरमम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्भि (wrong syllable)
genderविadj.
मङ्गलं भावुकं भव्यं भविकं भद्रमद्रके ।कुशलं शोभनं श्रेयः शस्तं च क्षेममस्त्रियाम् ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
वरिवसिते परिवस्यितमुपासितमुपचरितपरिचरिते ।चक्षुष्यसुभगशोभनसाधुमनोज्ञाभिरामरमणीयाः ॥ १५८० ॥
उद्गीतिःmetre not read in every line
genderविadj.
कस्तीरं शोभनं नागमरिजं हेमजं शठम् ।गुरुपत्रं तमरकं घनं सलवणं रजः ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
शोभनं सुषमं चारु हृद्यं चौक्षं मनोहरम् ।न्युंखं हारि प्रियं साधु लडहं च मनोरमम् ॥ १३५ ॥
अनुष्टुप्
genderविadj.
शोभनो ग्रहयोगेऽपि वपनं मुण्डनेऽपि च ।कामिनी स्त्री स्वचित्रा?च वाहिनी सिन्धुसेनयोः ॥
अनुष्टुप्
meaningsग्रहयोग
नाभिस्थवायौ तु समानमस्त्रीसमैकसत्सु प्रथितं त्रिलिङ्गम् ।योगे तु ना सुन्दरवाचि भेद्येस्याच्छो[13b]भनं शासनमस्ति शास्तेः ॥
उपजातिःmetre not read in every line
doubtful
त्रि तु स्यात् सुन्दरे क्ली तु शोधनं शुद्धिकर्मणि ।अना तु शोधयत्यर्थे शोधना ना तु शोधनः ॥ १८६१ ॥
अनुष्टुप्
meaningsसुन्दर
doubtful
शोभन as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) विवक्षितपत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि । प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥ Abhidhānaratnamālā (Halāyudha) 5.802
- धरणिकोश चङ्गनगावगौ च वृक्षाद्री खगा बाणार्कपक्षिणः । लङ्गः सङ्गे च षिङ्गे च चङ्गः शोभनदक्षयोः ॥ Dharaṇikośa 3.1.3
- धरणिकोश लघुअघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते । लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥ Dharaṇikośa 4.2.2
- धरणिकोश साधुआधयः स्युर्मनःपीडाव्यसनाधिष्ठानबन्धकाः । साधु शोभनमाख्यातं साधुर्वार्धुषिकेऽपि च ॥ Dharaṇikośa 18.2.4
- धरणिकोश मधुरमधुरो रसभेदे स्यान्म[87]धुरे स्वादुशोभने । मधुरा मधुपूश्च स्याच्छतपुष्पा तथा मिसी ॥ Dharaṇikośa 26.3.27
- धरणिकोश अपष्ठुअपष्ठु निरवद्यं स्यादपष्ठु शोभनं स्मृतम् । Dharaṇikośa 34.5.1
- धरणिकोश सम्ओमित्यनुमतौ प्रोक्तं परमे चाप्यनुक्रमे । सं सङ्गार्थः प्रकृष्टार्थो आरम्भः शोभनार्थकः ॥ Dharaṇikośa 34.15.3
- कोषकल्पतरु पाशलोध्रे तथा गन्धरसेऽथ दर्शः सूर्येन्दुसङ्गेऽप्यवलोकनेऽपि । श्रौते च पक्षान्त विधौ तथाथ स्पर्शो भवेत्स्पर्शनदानयोश्च । त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तु नास्त्री प्रवेशे विडिह प्रजायाम् । मले न ना स्त्री तु खगादिबन्धे कचोत्तरस्थो निकरे च पाशः । कर्णान्तगः शोभनवाचकः स्या- न्निन्दार्थकश्चात्र परस्थितोऽयम् । नाशो विनाशानुपलम्भयोः स्यात् पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥ Koṣakalpataru 6.30.6
- नानार्थार्णवसंक्षेप सत्शोभने च सती तु स्त्री तुवरीसंज्ञभेषजे । लक्ष्मीपतिव्रताशैलतनयासु चतुर्ष्वथ ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 1.5.21
- नानार्थार्णवसंक्षेप स्वरस्वरः षड्जाद्युदात्ताद्योरज्चर्णे कण्ठजस्वने । अरे च शोभने पुंसि त्रि तु स्थाच्छोभनारके ॥ १४५४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1454
- नानार्थार्णवसंक्षेप पुष्करशेषे च शोभने तु स्याद् भेद्यलिङ्गमिति स्मरेत् । पुष्कलं भेद्यवच्छुद्धे प्रभूते शोभनेऽप्यथ ॥ ११९३ ॥ Nānārthārṇavasaṃkṣepa 4.1193
- नानार्थार्णवसंक्षेप मधुरस्वादुसंज्ञे तद्वति तु त्रिषु स्याच्छोभने प्रिये । स्त्रियां तु मधुरासंज्ञपुर्यामित्याह यादवः ॥ १३३६ ॥ Nānārthārṇavasaṃkṣepa 4.1336
- परमानन्दीयनाममाला सत्सच्छब्दः पूजिते सत्ये साधूशोभनयोः सति । स्वं निजे द्रविणे होऽथ वीरे रुद्रे भयंकरे ॥ ४१ ॥ Paramānandīyanāmamālā 1.41
- शब्दरत्नावली चङ्गगाङ्गः पुंसि गुहे भीष्मे स्याद्गङ्गासम्भवे त्रिषु । चङ्गो दक्षे शोभने च सारङ्गे हलयाजके ॥ टङ्गोऽस्त्री तु खनित्रे स्याद् जङ्घा खङ्गभिदोरपि । त्यागो दाने वर्जने च विवेकिपुरुषेऽपि च ॥ Śabdaratnāvalī 7.3.6
- शब्दरत्नावली कान्तकान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् । कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥ लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना । क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥ कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति । कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥ Śabdaratnāvalī 7.16.8
- शब्दरत्नावली पुण्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
- शब्दरत्नावली पशपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9
- शब्दरत्नावली अपष्ठुसुष्ठु प्रशंसनेऽत्यर्थे दुष्ठु निन्दाप्रशंसयोः । अपष्ठु शोभनार्थे स्यान्निरवद्ये च तद्भवेत् ॥ Śabdaratnāvalī 8.1.20
- शब्दरत्नावली भृशम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नावली स्वर्आलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
- त्रिकाण्डशेष पाशपाशः कचान्ते संघार्थः कर्णान्ते शोभनार्थकः । छात्राद्यन्ते च निन्दार्थः पाशः पक्ष्यादिबन्धने ॥ ४३१ ॥ Trikāṇḍaśeṣa 3.3.431
- उत्पलिनी मधुरमधुरौ स्वादुशोभनौ ॥ ६२ ॥ Utpalinī 62
- वैजयन्ती साधीयस्साधीयोऽनुमतेऽत्यर्थं सत्तमे शोभनेऽपि च । तथ्यपथ्यार्थवाक्येऽपि सूनृतोऽथ क्षमे हिते ॥ २९ ॥ Vaijayantī 7.4.29
- वैजयन्ती सुकृतसुकृतं शोभने धर्मे हर्षुलो मृगकामिनोः । Vaijayantī 7.5.94