कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · घान्ताः

इति गान्तवर्गः ॥

घो घन्ढायां ध्वनौ घश्च किंकिन्याहननेऽपि च ।
7.4.1 · p. 194
अनुष्टुप्metre not read in every line
अघं तु दुरिते दुःखव्यसन … चिन्तने ।अर्घः पूजाविधौ मूल्ये मङ्गलादिकयोजने ।उद्घः हस्तपुटे वह्नौ देहजातसमीरणे ॥
7.4.2 · p. 194
अनुष्टुप्metre not read in every line
औघो वृन्दे नीरवेगे द्रुते नृत्योपदेशके ।मघा नक्षत्रभेदे स्यात् मघी धान्यविशेषके ॥
7.4.3 · p. 195
अनुष्टुप्
मेघः स्याद्वारिवाहेऽपि मुस्तके राक्षसेऽपि च ।मोघा तु पाटलायां स्त्री त्रिषु निष्फलहीनयोः ॥
7.4.4 · p. 195
अनुष्टुप्
लघुर्मनोज्ञे निःसारे चागुरावपि वाच्यवत् ।कृष्णागुरुणि शीघ्रे च क्लीबं पृक्कौषधौ स्त्रियाम् ॥
7.4.5 · p. 195
अनुष्टुप्
श्लाघा स्त्री परिचर्यायामभिलासप्रशंसयोः ।
7.4.6 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्ञ (wrong syllable); pāda 3, syllable 4 त्रि (wrong syllable)
अनघस्त्रिषु निष्पापमनोज्ञनिर्मलेषु च ।अमोघं त्रिषु सफले स्त्रियां पय्याविडङ्गयोः ॥
7.4.7 · p. 195
अनुष्टुप्metre not read in every line
उल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु ।निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥पलिघः कलशे काचघटगोपुरसद्मसु ।परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥
7.4.8 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
महार्घो लावके पुंसि महामूल्येऽपि च त्रिषु ।सर्वौघो गुरुवेगे स्यात् सैन्यमल्लहनेऽपि च ॥
7.4.9 · p. 195
अनुष्टुप्